गुजरात साहित्य अकादमी

गुजरात साहित्य अकादमी इति काचित् गुजरातसर्वकार-सञ्चालिता संस्था वर्तते। गुजरातराज्ये प्रयुज्यमानानां भाषाणां, तासां साहित्यिकविकासस्य च कृते समर्पिता एषा संस्था वर्तते। तस्याः स्थापना १९८१ तमवर्षे जाता आसीत्। एषा संस्था राज्यस्य मुख्यभाषया गुजरातीभाषया सह संस्कृतस्य, हिन्द्याः, कच्छीभाषायाः, सिन्धीभाषायाः, उर्दू-भाषायाः च संवर्धनाय कार्यं करोति। सद्यः विष्णु पण्ड्या-महोदयः गुजरात-साहित्य-अकादमी-संस्थायाः अध्यक्षः वर्तते।[][]

गुजरात साहित्य अकादमी
गुजरात-साहित्य-अकादमी-संस्थायाः चिह्नम्
ध्येयवाक्यम् संस्कृत: શબ્દાખ્યજ્યોતિ પ્રકાશો
संस्थापनम् 24  1981 (1981-09-24)
प्रकारः साहित्यिकसंस्था
उद्देश्यम् साहित्यिकस्य, भाषायाः च विकासः
मुख्यकार्यालयाः अभिलेखागार भवन, सेक्टर-१७, गांधीनगर, गुजरातराज्यं, भारतम्
अवस्थितिः २३°१३′२८″उत्तरदिक् ७२°३९′१६″पूर्वदिक् / 23.224431°उत्तरदिक् 72.654421°पूर्वदिक् / २३.२२४४३१; ७२.६५४४२१
अध्यक्षः विष्णु पण्ड्या
महामात्रः डॉ. हिम्मतभाई भालोडिया
मुख्यशाखा शब्दसृष्टिः
अनुमोदनम् रमतगमत, युवा अने सांस्कृतिक-मन्त्रालयः, गुजरातसर्वकारः
जालस्थानम् sahityaacademy.gujarat.gov.in
अकादमी-मुख्यालयः, गान्धीनगरम्

इतिहासः

सम्पादयतु

एतस्याः संस्थायाः स्थापना गुजरातसर्वकारद्वारा २४ सप्टेम्बर १९८१ दिनाङ्के जाता आसीत्। संस्थायाः उद्‌घाटनकार्यक्रमः १७ जून १९८२ दिनाङ्के अध्यक्षस्य, उपाध्यक्षस्य, अन्यसभ्यानां नियुक्तिना सह जातः आसीत्।[][]

गुजरातराज्ये संस्कारप्रवृत्तयः अधिकव्यापकतया अन्तर्वर्ति-प्रदेशं यावत् प्रापयितुं गुजरातसर्वकारः प्रतिबद्धतां प्रदर्शयति। गुजरातसाहित्य-अकादमी-संस्याथाद्वारा, पञ्च अन्यभाषाणाम् अकादमी-द्वारा च साहित्यप्रचारस्य कार्यं जायमानम् अस्ति। २०१५-१६ वर्षे राज्यसर्वकारद्वारा गुजरात-साहित्य-अकादमी-संस्थायाः सत्तामण्डलस्य नवरचना जाता अस्ति। ततः सप्त सभ्यानां कार्यवाहक-समितेः, एकदाश सभ्यानां च मार्गदर्शक-मण्डलस्य नियुक्तिः जाता अस्ति।[]

उद्देशाः

सम्पादयतु
  1. गुजरातीभाषायाः, गुजरातराज्ये व्यवाहर्यमाणानां भगीनी-भाषाणां च उत्कर्षाय, संवर्धनाय, विकासाय च सातत्यपूर्णः साहित्यिकप्रयासः।
  2. अकादमी-संस्थायाः उद्देशैः साम्ययुक्तेभ्यः उद्देशेभ्यः कार्यरताभ्यः मान्यसाहित्य-संस्थाभ्यः, मण्डलेभ्यः च आर्थिकतया, अन्यप्रकारेण च सहायतादानम्। देहल्याः राष्ट्रिय-साहित्य-अकादमी-संस्थया, भारतस्य अन्यराज्यानां प्रादेशिकभाषासाहित्याय अकादमी-संस्थया, गुजरातराज्यात् बहिस्थाभिः गुजरातीभाषा-साहित्यसम्बद्धे कार्ये रताभिः प्रतिष्ठितसंस्थाभिः च सह साहित्यसम्बद्धम् आदान-प्रदानम्, आर्थिक-आवश्यकतानां प्रबन्धनं च।
  3. अकादमी-संस्थायाः प्रवृत्तिभ्यः धनभण्डारः दानत्वेन, अनुदानत्वेन एकत्रीतः करणीयः।
  4. गुजरातराज्ये व्यवहृतायाः गुजरातीभाषायाः सामयिकानां, ग्रन्थानां च प्रकाशने साहाय्यम्।
  5. गुजरातराज्यस्य गुजरातीभाषा-साहित्यक्षेत्रस्य संस्थाभ्यः मान्यतां दत्त्वा तासां साहित्यिकप्रवृत्तिभ्यः आर्थिक-अनुदानद्वारा साहाय्यदानम्।
  6. गुजरातीभाषासाहित्याय साहित्यिकगोष्ठीभ्यः, परिसंवादेभ्यः, पुस्तकप्रदर्शनीभ्यः, प्रशिक्षणशिबिरेभ्यः, उत्सवेभ्यः, मेलाभ्यः, प्रवासादिभ्यः च आयोजनं कृत्वा तत्सम्बद्धेषु कार्येषु रताभ्यः अन्यसाहित्यसंस्थाभ्यः आर्थिकसाहाय्यदानम्।
  7. गुजरातराज्यस्य गुजरातीभाषासाहित्यस्य सिद्धिप्राप्तेभ्यः लेखकेभ्यः, तेषां कृतिभ्यः च पुरस्कारदानेन सम्मानस्य प्रबन्धनम्।
  8. गुजरातराज्यस्य गुजरातीभाषा-साहित्यस्य क्षेत्रे गुणवत्तालक्षिसेवायां रतेभ्यः, गुजरातराज्ये निवसितेभ्यः वयोवृद्धेभ्यः च सहायपात्रलेखकेभ्यः च योग्य-आर्थिकसाहाय्यदानम्।
  9. राज्यस्य पञ्चवर्षीयायाः योजनायाः अन्तर्गततया गुजरातीभाषासाहित्यस्य विकासान्वये याः प्रयोजनाः राज्यसर्वकारेण अनुमोदिताः भवन्ति, अकादमी-संस्थायाः उद्देशसम्बद्धानां, कार्यप्रदेशसम्बद्धानां प्रायोजनानां च क्रियान्वयकरणम्।
  10. गुजरातप्रदेशस्य गुजरातीभाषासाहित्याय उपकारकाणां संशोधनकेन्द्राणां, स्वाध्यायपीठादीनां स्थापनं कृत्वा तादृशानां मान्यकेन्द्राणां विकसाय आर्थिकसहायतादानम्।
  11. गुजरातराज्यस्य गुजरातीसाहित्यस्य विकासाय आवश्यकाः स्युः, परन्तु उक्तोद्देशेषु अन्तर्भूताः न स्युः, तादृशीनां प्रवृत्तीनां क्रियान्वयकरणम्।

प्रवृत्तिः

सम्पादयतु

एतस्याः संस्थायाः मुख्याः प्रवृत्तयः निम्नानुसारं सन्ति।[]

  • गुजरातीभाषायाः, संस्कृतभाषायाः, अन्य-आधुनिकभाषाणां च विकासाय उत्तेजनां दातुं गुजरातराज्यस्य संस्था-सङ्घटनेभ्यः, लेखकेभ्यः च प्रोत्साहनदानम्।
  • गुजरातीभाषायाः लोकसाहित्याय भिन्नतया संशोधनस्य कृते प्रोत्साहनदानम्।
  • साहित्यस्य पुस्तकानां प्रकाशनकरणम्
  • पुस्तकालयानां संरक्षणम्
  • साहित्यस्य विभिन्नस्वरूपाणां विवेचनप्रकाशनम्।
  • साहित्यिक-समितीनां परिचयनं कृत्वा सहायतादानम्।
  • प्रसिद्धानां लेखकानां, कवीनां च जन्मदिने समारोहाणाम् आयोजनकरणम्
  • साहित्यस्य विभिन्नस्वरूपेषु प्रकाशितपुस्तकेभ्यः पुरस्कारदानम्।
  • साहित्यस्य विद्यार्थिभ्यः आर्थिक-शिष्यवृत्तिना पुरस्कारदानम्।
  • गुजरातराज्ये निवसितेभ्यः वयस्केभ्यः, शारीरिक-विकलाङ्गेभ्यः लेखकेभ्यः आर्थिक-सहायतादानम्।
  • स्थापित-लेखकेभ्यः वार्षिकपुरस्कारस्य गुजरातगौरवपुरस्कारस्य, नवोदित-युवलेखकेभ्यः युवागौरवपुरस्कारस्य पुरस्कारः च दीयते।
  • २०१६ तः अकादमी-द्वारा गुजराती-लेखकेभ्यः तेषाम् उल्लेखनीयाय प्रदानाय साहित्यरत्नपुरस्कारस्य, हास्यसाहित्ये योगदानाय रमणलाल-निलकण्ठ-हास्य-पारितोषिकस्य च प्रदानम् आरब्धम् अस्ति।

गुजरातसाहित्य-अकादमी-संस्था अन्यासां पञ्च साहित्यिक-अकादमी-संस्थानां कार्यभारम् अपि वहते। यत्र संस्कृतभाषायै संस्कृत-साहित्य-अकादमी, हिन्दीभाषायै हिन्दी-साहित्य-अकादमी, सिन्धीभाषायै सिन्धी-साहित्य-अकादमी, कच्छीभाषायै कच्छीसाहित्य-अकादमी, उर्दूभाषायै उर्दूसाहित्य-अकादमी च अन्तर्भवन्ति। महामात्रः (रजीस्ट्रार) सर्वासां पञ्चानाम् अकादमी-संस्थानां प्रशासनिकः प्रमुखः भवति। लोकसाहित्याय, संस्कृतभाषायै, संस्कृतसाहित्याय, अन्यभाषाभ्यः च त्रिस्रः स्थायि-समितयः रचिताः सन्ति। प्रत्येकं समितौ पञ्च सर्वकारीयाः सभ्याः भवन्ति, तैः सह अन्ये पञ्च सम्बद्धक्षेत्रस्य सभ्याः भवन्ति। एवम् आहत्य दश सदस्याः भवन्ति।[]

अध्यक्षः, उपाध्यक्षः, महामात्रः च एतस्याः संस्थायाः दैनिक-कार्याणां निर्वणहं कुर्वन्ति। एतस्याः संस्थायाः सम्पूर्णं नियन्त्रणं सामान्यसभाद्वारा, कार्यकारि-परिषदा च भवति। सामान्यसभायाः कार्यकालः पञ्च वर्षाणां भवति। सामान्यसभा आहत्य ४१ सभ्यैः निर्मिता भवति, यत्र गुजरातराज्यस्य शिक्षा-आयुक्तः (कमिशनर), शिक्षण-विभागस्य आर्थिक-परामर्शकः, संस्थायाः महामात्रः, गुजरातराज्यस्य उच्चशिक्षा-आयुक्तः, गुजरातीभाषायाः निर्देशकः, राज्यसर्वकारद्वारा चिताः साहित्यिकसमुदायस्य ९ सभ्याः, गुजरात-विश्वविद्यालयस्य ८ सभ्याः, सामान्यसभाद्वारा चितौ द्वौ सभ्यौ, गुजराती-लेखकैः नियुक्तया समित्या चिताः ९ सभ्याः, गुजरातगौरवपुरस्कारद्वारा सम्मानितौ द्वौ सदस्यौ च अन्तर्भवन्ति। कार्यकारि-परिषद् एतस्याः संस्थायाः अध्यक्षस्य, उपाध्यक्षस्य, महामात्रस्य, गुजरातशिक्षा-आयुक्तस्य, शिक्षणविभागस्य आर्थिक-परामर्शकस्य च सम्मिता दश सभ्यानां परिषद् भवति, यत्र पञ्च सभ्याः नियुक्ताः भवन्ति। []

अध्यक्षाणां सूची

सम्पादयतु

निम्नलिखिताः जानाः अध्यक्षपदारूढाः जाताः :[]

क्रमः नाम नियुक्तिः पदमुक्तः
मोहम्मद मांकड १७ जून १९८२ २६ एप्रिल १९८४
कुलिनचंद्र याज्ञिक २७ एप्रिल १९८४ २७ डिसेम्बर १९८४
भूपत वडोदरीया २८ डिसेम्बर १९८४ १३ मार्च १९८६
रमणलाल जोषी १४ मार्च १९८६ ७ जून १९८७
हसमुख पटेल (शिक्षणमन्त्री) ८ जून १९८७ १० डिसेम्बर १९८८
अरविंद संघवी (शिक्षणमन्त्री) ११ डिसेम्बर १९८८ १२ डिसेम्बर १९८९
हसमुख पटेल (शिक्षणमन्त्री) १३ डिसेम्बर १९८९ ११ मार्च १९९०
करसनदास सोनेरी (शिक्षणमन्त्री) १२ मार्च १९९० ११ ओगस्ट १९९१
मनुभाई पंचोळी १२ ओगस्ट १९९१ १९९८
१० भोळाभाई पटेल ५ ओक्टोबर १९९८ २००३
११ सचिवः : रमतगमत, युवा अने सांस्कृतिक मंत्रालय, गुजरातसर्वकारः २००३ ६ मे २०१५
१२ भाग्येश जहा ७ मे २०१५[] १३ मे २०१७
१३ विष्णु पंड्या १३ मे २०१७[][] वर्तमानः

महामात्राणां सूची

सम्पादयतु

निम्नसूचिताः जनाः एतस्याः संस्थायाः महामात्रपदे (रजीस्ट्रार) सेवा प्रदत्ता :[][]

क्रमः महामात्रः नियुक्तिः पदमुक्त
हसु याज्ञिक २५ फेब्रुआरी १९८२ २९ फेब्रुआरी १९९६
डंकेश ओझा १ मे १९९७ १६ मार्च १९९८
दलपत पढियार १२ जून १९९८ ९ मे २०००
के.एम.पंड्या १० मे २००० ३ सप्टेम्बर २००३
वी.वी.पंडित ४ सप्टेम्बर २००३ ३ सप्टेम्बर २००५
किरीट दूधात २२ जान्युआरी २००८ (अन्यविभागतः)
हर्षद त्रिवेदी ५ डिसेम्बर २००९ २७ जुलाई २०१४
चेतन शुक्ला २८ डिसेम्बर २०१४ १७ ओगस्ट २०१५
मनोज ओझा १८ ओगस्ट २०१५
१० अजयसिंह चौहाण डिसेम्बर २०१७ मे २०२०
११ डॉ. हिम्मतभाई भालोडिया जून २०२० वर्तमानः

संस्कृतसाहित्य-अकादमी

सम्पादयतु
  • प्रतिवर्षं संस्कृतभाषायाः वयोवृद्वेभ्यः विद्वद्भ्यः आर्थिकसाहाय्यदानम्
  • प्रतिवर्षम् एकस्मै संस्कृतविदुषाय गौरवपुरस्कारत्वेन १,००,०००/- रूप्यकाणां नाणकसाहाय्यं, राङ्कवं (shawl), सम्मानपत्रं च दीयते
  • ग्रन्थप्रकाशनस्य योजनायाः अन्तर्गततया संस्कृतभाषायाः व्याकरणविषयकाय संशोधनात्मक-ग्रन्थानां, विवेचनात्मक-ग्रन्थानां च प्रकाशनम्
  • वेदशास्त्रपारङ्गतानां संस्कृतभाषायाः त्रयाणां पण्डितानां, एकस्य शस्त्रविदुषः च प्रत्येकं कृते ५०,०००/-, राङ्कवं, सम्मानपत्रं च
  • संस्कृतभाषिणे एकस्मै परिवाराय ११,०००/- रूप्यकाणि, राङ्कवं, सम्मानपत्रं च
  • युवागौरवपुरस्कारत्वेन ५०,०००/- प्रतिवर्षम् एकस्मै युवासाहित्यकाराय समर्प्यते
  • "संस्कृतसाहित्य-निर्माणम् अन्तर्जालद्वारा तत्प्रसारणं च" इत्यस्मै प्रकल्पाय प्रतिवर्षम् अनुदानं दीयते। एषः प्रकल्पः निःशुल्कतया अन्तर्जालीयमाध्यमेन आधुनिकं संस्कृतसाहित्यं जनसामान्याय उपलब्धं कारयति। एतस्य प्रकल्पस्य अन्तर्गततया मुख्यतया आधुनिक-विषयाणां, सरलीकृतसंस्कृतविषयाणां, प्रसिद्धस्थलानां, प्रसिद्धजनानां, भारतसर्वकारस्य, गुजरातसर्वकारस्य, भारतस्य पर्यटनस्थलानां, गुजरातराज्यस्य पर्यटनस्थलानां च परिचयात्मकाः लेखाः अङ्कीयता (digitally), निःशुल्कतया च जनसामान्येभ्यः उपलब्ध, येन आधुनिकसंस्कृताभाषायाः विकासः भवेत्। एतस्य प्रकल्पस्य माध्यमेन संस्कृतविद्यार्थिषु, संस्कृतप्राध्यापकेषु, संस्कृतशिक्षकेषु च अनुवादस्य, संशोधनस्य, सङ्गणकमाध्यमेन आधुनिकसंस्कृतस्य च महत्त्वं प्रस्थाप्य संस्कृतक्षेत्रस्य जनेभ्यः प्रशिक्षणम् अपि दीयते, येन संस्कृतजनाः अपि आत्मनिर्भरतया संस्कृते अनुवादं, संशोधनं, सङ्गणकाधारितस्य संस्कृतसाहित्यस्य निर्माणं च कर्तुं योग्याः भवेयुः। आधुनके युगे संस्कृतम् अपि अन्यभाषावत् विकासस्य योग्यम् अवसरं प्राप्नुयात्, अतः एषः प्रकल्पः संस्कृतहिताय प्रचलति।

संस्कृतसाहित्यनिर्माणम्, अन्तर्जालद्वारा तत्प्रसारणं च

सम्पादयतु
 

एतस्य प्रकल्पस्य आरम्भः २०१२ तमवर्षे जातः आसीत्। गुजरातराज्यस्य तत्कालीनः मुख्यमन्त्री, वर्तमानः प्रधानमन्त्री च श्रीनरेन्द्रमोदी संस्कृताय अपि आधुनिकस्पर्धायां स्थायि-साहाय्यं प्रदातुम् एतस्य प्रकल्पस्य आरम्भाय प्रेरणाम् अकरोत्। अतः मुख्यमन्त्रिणः प्रेरणानुसारं २०१२ तमवर्षे संस्कृत-साहित्य-अकादमी-संस्था स्वामिविवेकानन्दस्य सार्धशत-जन्मोत्सवावसरे संस्कृतस्य स्थायि-विकासाय एनं प्रकल्पम् अपि संस्कृतभारत्याः गुजरातकेन्द्रे आरब्धवती। संस्कृसाहित्यनिर्माणम्, अन्तर्जालद्वारा तत्प्रसारणं च इत्यस्य प्रकल्पस्य आङ्ग्लं नाम Sanskrit Corpus Building and Sharing through Internet Medium इति, गुर्जर्नाम સંસ્કૃત સાહિત્યનું નિર્માણ અને તેનું અન્તર્જાલ દ્વારા પ્રસારણ इति च अस्ति।

 

विशालप्रमाणे संस्कृते आधुनिकस्य, शास्त्रीयस्य च साहित्यस्य निर्माणं भवेत्, तस्य साहित्यस्य अङ्कीयतया, निःशुल्कतया च सर्वेभ्यः उपलब्धिः भवेत् इति एतस्य प्रकल्पस्य उद्देशः अ्सति। "संस्कृते सम्भाषणस्य आन्दोलनवत् संस्कृते आधुनिकलेखानां निर्माणम् अपि जन-आन्दोलनं भवेत् इत्यस्य कृते सर्वे संस्कृतजनाः अपि योगदानं कृत्वा संस्कृतम् अङ्कीयक्षेत्रे आत्मिनिर्भरं कुर्यात् इत्यपि अस्य अपरः उद्देशः।"

संस्कृतक्षेत्रस्य समस्या

  1. संस्कृतं काचित् व्याप्तसाहित्यस्य स्वामिनी, समृद्धा च भाषा वर्तते, संस्कृतभाषायाः विद्यार्थिनः, उपयोगकर्तारः च सम्पूर्णे गुजरातराज्ये, सम्पूर्णभारते च कोणे कोणे विद्यन्ते। एतस्यां स्थित्यां संस्कृतस्य अङ्कीयकरणम् अतीव अनिवार्यं भवति, येन सर्वे संस्कृताभिलाषिणः आधुनिकमाध्यमेन संस्कृतसाहित्यं प्राप्नुयुः। गुजरातराजस्य सर्वेषु जनपदेषु, ग्रामेषु च संस्कृतसाहित्यं प्रेषणीयं भवति।।
  2. संस्कृतभाषा तु अतीव प्राचीनभाषा अस्ति। भारतीयसंविधाने संस्कृतभाषा आधुनिकभाषायाः सूच्यां योजिता वर्तते, परन्तु संस्कृते आधुनिकविषयाणां साहित्यम् अतीव विरलतया प्राप्यते, येन आधुनिकभाषासु संस्कृतस्य पृष्ठे गमनस्य भयः अस्ति। अतः संस्कृतभाषायाम् आधुनिकविषयाः उपलब्धाः भवेयुः, तथा व्यवस्था करणीया भवति।
  3. आधुनिकमञ्चेषु सर्वासां भारतीयासु, विदेशीयासु च भाषासु विशालप्रमाणे आधुनिकं, शास्त्रीयं च साहित्यम् उपलब्धम् अस्ति, परन्तु संस्कृतभाषायां विश्वस्य देशानाम् अपि परिचयः न प्राप्यते। ततोऽधिकं भारतस्य मध्यकालीनः इतिहासः, स्वतन्त्रतायाः इतिहासः, भारतस्वतन्त्रतायाः उत्तवर्ति-इतिहासः इत्यादिकानां परिचयात्मकः लेखाः अपि संस्कृतभाषायां न सन्ति, अतः आधुनिकसंस्कृतस्य छात्रः संस्कृतं त्यक्त्वा अन्याभ्यः भाषाभ्यः साहित्यं पठितुं विवशः अस्ति।


उक्तानां समस्यानां समाधानाय एव स्थायि-प्रकल्पोऽयम् आरब्धः अस्ति। एतस्य प्रकल्पस्य अन्तर्गततया एतावता A4 आकारस्य ३५,००० पृष्ठानि आरोपितानि सन्ति।

सम्बद्धाः लेखाः

सम्पादयतु

सन्दर्भाः

सम्पादयतु
  1. "विष्णुमहोदयः गुजरात-साहित्य-अकादमी-संस्थायाः अध्यक्षः जातः". The Times of India. 2017-05-13. 
  2. Lionel Wee (22 January 2015). The Language of Organizational Styling. United kingdom: Cambridge University Press. p. 171. ISBN 978-1-107-05480-6. आह्रियत 26 March 2017. [नष्टसम्पर्कः]
  3. ३.० ३.१ ३.२ Syed Amanur Rahman; Balraj Verma (9 August 2005). The Beautiful India - Gujarat. New Delhi: Reference Press. pp. 231 – 233. ISBN 81-88583-98-7. आह्रियत 27 August 2017.  Text "google" ignored (help); Unknown parameter |com/booksॽid= ignored (help)
  4. ४.० ४.१ ब्रह्मभट्ट, प्रसाद (२०१०). अर्वाचीन गुजराती साहित्यनो इतिहास - आधुनिक अने अनुआधुनिक युग (. अमदावाद: पार्श्व पब्लिकेशन. pp. ३९६. ISBN 978-93-5108-247-7. 
  5. "संग्रह प्रतिलिपि". Archived from the original on 2022-11-27. आह्रियत 2020-09-25. 
  6. फलकम्:Cite thesis
  7. ७.० ७.१ "List of all Members | Gujarat Sahitya Academy". sahityaacademy (in English).  Text "gujarat" ignored (help); Text "gov" ignored (help); Text "in/list-of-all-members" ignored (help); Unknown parameter |access-date= ignored (help); Text "htm" ignored (help); Text "in" ignored (help); Text "gujarat" ignored (help); Text "gov" ignored (help)[नष्टसम्पर्कः]
  8. ८.० ८.१ "Vishnu Pandya replaces Bhagyesh Jha at Sahitya Akademi". The Times of India. 2017-05-13. Archived from the original on 2013-07-24. आह्रियत 2020-09-24.  Text "cms" ignored (help); Unknown parameter |access-date= ignored (help); Text "indiatimes" ignored (help); Text "com/city/ahmedabad/vishnu-pandya-replaces-jha-at-sahitya-akademi/articleshow/58651041" ignored (help)
  9. "Vishnu Pandya appointed Chairman of Gujarat Sahitya Akademi". DeshGujarat. 2017-05-12.  Unknown parameter |access-date= ignored (help); Text "com/2017/05/12/vishnu-pandya-appointed-chairman-of-gujarat-sahitya-akademi/" ignored (help)[नष्टसम्पर्कः]

बाह्यपरिसन्धिः

सम्पादयतु