प्रमुखा विकल्पसूचिः उद्घाट्यताम्
ऐसाक् न्यूटन् महोदय:, एक: आङ्ग्ल वैज्ञानिक:, १६४२ - १७२७

भौतिक शास्त्रे गुरुत्वाकर्षणस्य सिद्धान्त: अतीव महत्त्वपूर्ण: अस्ति। यांत्रिकीय भौतिक शास्त्रे , 'गुरुत्वाकर्षणशक्ति:' तत् बलम् अस्ति येन कारणेन वस्त्वो: मध्ये आकर्षणम् उत्सृज्यते । ऐसाक् न्यूटन् महोदय:१७ शतकस्य महान् गणितज्ञ: भौतिक विज्ञानि: च आसीत्। स: एव "गुरुत्वाकर्षण" इति विचारस्य नियमानाम् व्याख्यानाम् लिखितवान्। तस्य "फिलोसोफी नेचुरेलिस प्रिन्सिपिया मेथेमेटिका" इति शोधप्रपत्रे गुरुत्वाकर्षणस्य उपरि लिखितम् व्याख्यानाम् चिरसम्मत भौतिकशास्त्रस्य भूमिका अभवत्।


अन्तर्विषयाः

गुरुत्वाकर्षण शक्तिसम्पाद्यताम्

केन प्रभावेन, एकं वस्तुम् द्वितीयम् वस्तुम् प्रति आकर्षित: भवति, तं प्रभावम्, गुरुत्वाकर्षणम् इति कथ्यते। गुरुत्वाकर्षण बलस्य कारणेन ब्रह्माण्डे सर्वाणि वस्तूनि परस्परम् आकर्षणम् कुर्वन्ति, अनुकर्षिता: भवन्ति च।

निसर्गे, चत्वारि प्रधानानि मूलभूतानि बलानि सन्ति। तेषु, गुरुत्वाकर्षण शक्ति: एक:। अन्यै: शक्तिभि: तुलनायाम्, गुरुत्वाकर्षण शक्ति: अतीव् दुर्बल: अस्ति। गुरुत्वाकर्षणस्य परिणामं सर्वत्र दृश्यते। उदाहरणम्, सूर्यस्य गुरुत्वाकर्षण बलस्य कारणम् सर्वे ग्रहा:भूमि: च सूर्यम् परिक्रमन्ति, भूमे: गुरुत्वाकर्षणस्य कारणं सर्वाणि वस्तूनि भूमौ तिष्टन्ति।

सौरव्यूह


इतिहाससम्पाद्यताम्

 
गुरुत्वाकर्षण बलस्य कारणं, कन्दुकम् अध: पतति

न्यूटन् कथं गुरुत्वाकर्षण विषयस्य कल्पनां कृतवान् इति अधिकृत्य एका कथा प्रचलिता अस्ति। एकदा, न्यूटन् सेव फल वृक्षस्य अध: उपविशन् असीत्। तदा तस्य शिरस्य उपरि, एकं, फलम् अपतत्। तेन, न्यूटनस्य कुतूहलम् प्रेरितम्। आश्चर्यचकित: न्यूटन:आलोचितवान्, फलम् अध: एव किम् अपतत् इति। तस्य प्रश्नस्य उत्तरम् एव गुरुत्वाकर्षण।

न्यूटनस्य गुरुत्वाकर्षण व्याख्यानस्य पूर्वम्,अनेका: अन्या:वैज्ञानिका: अपि, गुरुत्वाकर्षण शक्ते: सम्बन्धितानि नियमानि दत्तवन्त:। गेलिलियो गेलिलै, इटलिदेशस्य प्रमुखस्थाने पीसागोपुरे एकं प्रयोगं कृतवान् । पीसागोपुरात् विषमद्रव्यराशियुक्तपदार्थद्वयं त्यक्तवान् । किन्तु उभयोः अपि भूप्राप्तिः समानकाले एव अभवत् । सामान्यजनानाम् उपपत्तिः आसीत् यत् भारतमं वस्तु शीघ्रमागच्छति न्यूनभारं वस्तु मन्दमागच्छति इति । किन्तु एतस्य प्रयोगस्य अनन्तरम् एषः प्रस्तावं कृतवान् यत् भूमेः गुरुत्वबलं तत्तद्द्रव्यराशिमनुसृत्य एव आकर्षति । तत्र अनुपातः समानः भवति । गेलिलियो गेलिलै उक्तवान् आसीत् - "सर्वाणि वस्तूनि भूमिं प्रति केवलम् एकम् स्थिरम् प्रवेगेन पतन्ति" इति, अत्र अयं स्थिर: प्रवेग: भुमे: गुरुत्वाकर्षणस्य परिणाम: एव। तत् पश्चात् जर्मन् देशीय विज्ञानि: जोहान्नेस् केप्लर् ग्रहाणाम् गते:अध्ययनं कृत्वा, तेषाम् दीर्घवृत्ताकारं सूर्यवेष्टिं गतिम् उपरि त्रीणि नियमानि दत्तवान्।

सार्वत्रिक गुरुत्वाकर्षण नियमम्सम्पाद्यताम्

अत: परं, न्यूटनस्य प्रसिद्ध सार्वत्रिक गुरुत्वाकर्षण नियमस्य प्रस्तावना अभवत्। तदनुसारं सर्वाणि घन वस्तूनि, तेषां भारस्य कारणम्, गुरुत्वाकर्षण बलं बिभृन्ते

एतस्य गुरुत्वाकर्षण बलस्य विपुलतां परिगणनार्थं न्यूटन् एकं समीकरणं दत्तवान्। तत् समीकरणानुसारं - एकं वस्तुं प्रत्येकं द्वितीयं वस्तुं आत्मन: प्रति आकर्षणं करोति। द्वयो: मध्ये विद्यमान: अयं आकर्षण: -द्वयो: भारयो: गुणनफलस्य समानुपातिन:अस्ति, द्वयो: मध्ये उपस्थित अन्तरस्य व्युत्क्रमानुपातिन: च अस्ति। गणितीय रूपे समीकरणं-

       एफ़् = (जी × एम्×एम्)÷आर्   इति लिख्यते। 

अत्र 'एफ़्' अर्थं गुरुत्वाकर्षण बलस्य वैपुल्यताम् । 'एम्','एम्' अर्थं द्वयो: वस्त्वो: भारौ। 'आर' अर्थं द्वयो: मध्ये उपस्थित: अन्तर: इति। 'जी' अयं अर्थं, सार्वत्रिकस्थित स्थिर मूल्य,कस्य गणितीय मूल्यं = ६.६७४×१०-११ न्यूटन्.मीटर्/केजि ।

आधुनिक सिद्धान्तानिसम्पाद्यताम्

न्यूटनस्य सिद्धान्तस्य पश्चात्, आधुनिक भौत शास्त्रे गुरुत्वाकर्षणस्य नवीनं दृष्टिकोनं जर्मन् देशीय महान् विज्ञानि: अल्बर्ट् ऐन्स्टैन् दत्तवान्। तस्य 'सामान्य सापेक्षता' सिद्धान्तस्य द्वारा, गुरुत्वाकर्षणस्य व्याख्यानं पुन: दर्शितवान् ।

तदनुसार, शून्याकाश-कालस्य च वक्रीभावस्य परिणाम: एव - "गुरुत्वाकर्षण शक्ति:"।

 
शून्याकाश-कालस्य च वक्रीभाव:












आधारा:सम्पाद्यताम्

  • Halliday, David; Robert Resnick; Kenneth S. Krane (2001). Physics v. 1. New York: John Wiley & Sons. ISBN 0-471-32057-9. 
  • Serway, Raymond A.; Jewett, John W. (2004). Physics for Scientists and Engineers (6th ed.). Brooks/Cole. ISBN 0-534-40842-7. 
  • Tipler, Paul (2004). Physics for Scientists and Engineers: Mechanics, Oscillations and Waves, Thermodynamics (5th ed.). W. H. Freeman. ISBN 0-7167-0809-4. 

बाह्यानुबन्ध:सम्पाद्यताम्

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्