गुरुवायुरमन्दिरम्
गुरुवायुरमन्दिरं भारतस्य केरलराज्यस्य त्रिशूरमण्डलस्य गुरुवायुरनगरे स्थितं प्रसिद्धं कृष्णमन्दिरमस्ति । गुरुवायुरमन्दिरं हिन्दुनां कृते अतीव पवित्रस्थानमस्ति । अस्य मन्दिरस्य कृते "भूलोक-वैकुण्ठः" अथवा मर्त्यस्थित-वैकुण्ठः इति अपि उच्यते । अस्मिन् मन्दिरे श्रीकृष्णस्य चतुर्भुजयुक्त-मूर्तिः पूज्यन्ते । तस्य चतुर्हस्तेषु पाञ्चजन्यशङ्खः, सुदर्शनचक्रम्, कौमोदकीगदा, पद्मः च सन्ति । कृष्णस्य अवतारग्रहणकाले वासुदेव-देवकी-इत्यनयोः कृते प्रकटिता महाविष्णुप्रतीकात्मका दिव्यतुलसीमाला देवतायाः कण्ठे लम्बवत् स्थापिता अस्ति । अत एव अस्य मन्दिरस्य कृते दक्षिणभारतस्य द्वारका इति उच्यते | भगवान् श्रीकृष्णोऽपि नाना-नाम्नाऽत्र प्रसिद्धः । अर्थात् : कन्नन, उन्नी-कन्नन (बालकृष्णः), उन्नी-कृष्णन, बालकृष्णन, एवं च गुरुवायुरप्पन ।
मन्दिरस्यास्य गर्भगृहस्य प्रधानदेवता महाविष्णुः अस्ति । आदिशङ्कराचार्येण विहितस्य नित्यपूजाविध्यनुसारेण महाविष्णुः अत्र पूज्यते | पश्चात् तन्त्री-चेन्नस-नारायण-नाम्बूदिरी (जन्म १४२७ ई.) इत्यनेन औपचारिकरूपेण एतस्याः पूजायाः पद्धतयः अभिलेखः कृतः । चेन्नस-नाम्बूदिरी इत्यादयाः एव उत्तराधिकारसूत्रेण मन्दिरस्य तन्त्रीरूपेण नियुक्ताः भवन्ति स्म। [१] नित्यं पूजायाः समयसारणीं मर्यादया परिपाल्यते । समयसारणिविषये निरीक्षणार्थं मन्दिरे पूर्णकालिका एका तन्त्री नियोजिता भवति ।
रात्रौ सार्धद्विवादने मेलसान्तिः (मुख्यपुरोहितः) श्रीकोभिले (गर्भगृहे) प्रविशति । ततः आरभ्य दिवसे सार्धद्वादशवादनपर्यन्तं नाम पूजायाः समाप्तिकालपर्यन्तं मेलसान्तिः नाम मुख्यपुरोहितः जलमपि न पिबति ।
प्रतिदिनं मन्दिरेऽस्मिन् परमनिष्ठया वैदिकसंस्काराः आचर्यन्ते । अस्मात् संस्कारपरिपालनकारणादेव गुरुवायुरमन्दिरं प्रसिद्धमस्ति ।
चित्राणि
सम्पादयतु-
अग्निदहनस्य पश्चात् निर्मितं भिलाक्कुमातम्
-
मुख्यमन्दिरस्य प्रवेशद्वारम्
-
दैनिकपूजासमयसारणि
सन्दर्भः
सम्पादयतु- ↑ "সংরক্ষণাগারভুক্ত অনুলিপি". Archived from the original on ১৯ আগস্ট ২০১০. आह्रियत ৬ ডিসেম্বর ২০০৯.
बाह्यसंयोगः
सम्पादयतुफलकम्:Krishnaটেমপ্লেট:Famous Vishnu temples টেমপ্লেট:Famous Hindu temples in Keralaफलकम्:Krishna