गूलूरुयात्रा (लोकभाषया गूळूरुजात्रा, गूळूरुजात्रे च) इति कर्णाटक-राज्यस्य तुमकूरु-जनपदस्य, गूळूरु इति ग्रामे कार्तिकमासे सम्भूयमानः प्रसिद्धः वार्षिकः कश्चित् ग्रामयात्रोत्सवः । महागणपतेः आराधनाय एषा यात्रा दिनद्वयं प्रचलति । आजनपदं विविधेभ्यः ग्रामेभ्यः अन्य-जनपदेभ्यः च प्रेक्षकाः भक्ताः च उत्सवे यात्रायां च भागं वहन्ति । अत्यन्तं बृहती महागणपतेः मृण्मयी मूर्तिः इति प्रसिद्धम् । यात्रायाः अन्ते सायङ्काले ग्रामसरोवरे मूर्तेः विसृजनावसरे अग्निचूर्णैः पूरिताः अग्निवृक्षाः, अग्निमाला इत्यादीनि विस्फोटकानि विसृज्य अद्भुतं वातावरणं निर्मान्ति । []

कार्तीकमासस्य शुक्लपक्षस्य प्रतिपदि बलिप्रतिपत् दिने बृहत्याः मृण्मय्याः महागणपति-मूर्तेः प्राणप्रतिष्ठापनं क्रियते । कार्तीकमासस्य अन्ते अमावास्यादिने सामान्यतया तस्य प्राणविसर्जनम् । तत्पश्चात् वृष्टिशङ्कां परिशील्य मार्गशीर्षमासस्य शुक्लपक्षे द्वितीये यात्रायाः प्रारम्भः । []

गूळुरु-ग्रामः कर्णाटकराज्यस्य तुमकूरु-महानगरात् समीपस्थः, तस्य गणेशमन्दिरस्य गणेशोत्सवस्य कारणात् प्रसिद्धः । भृगुमहर्षिणा एतस्य उत्सवस्य प्रारम्भम् अकरोत् इति ऐतिह्यम् । ग्रामे तस्मिन् विजयनगरस्थस्य कर्णाटराज्यस्य कालात् एव एषा यात्रा आचर्यते स्म इति कथ्यते ।

महागणपति-मूर्तिः

सम्पादयतु

अत्र उपयुज्यमानायाः महागणपतेः बृहत्याः मूर्तेः १२ पादं यावत् औन्नत्यं ५ पादं यावान् व्यासः । तावद्गात्रस्य मूर्तिनिर्माणे एकमासात् अधिकः कालः स्वीक्रियते । विनायकचतुर्थ्याः अग्रिमे दिने ग्रामस्थाः सम्भूय वाद्यगोष्ट्या सह ग्रामसरोवरं गत्वा गङ्गापूजाम् आचर्य ततः संशोधतं पङ्कं दर्भान् च संगृह्य आनयन्ति देवमन्दिरम् । देवमन्दिरस्य प्राङ्गणे वंशदण्डैः मूर्तेः अस्थिपञ्जरं क्रमशः निर्माय, तस्य कुशतृणादिभिः सुमिश्रितस्य पङ्कस्य लेपनेन महागणपतेः रूपं निर्मान्ति । एवं निर्मितां मूर्तिं वर्णरञ्जितां च कारयन्ति । विजयदशम्याः दिने गणेशस्य लघ्वीम् एकां प्रतिमां बृहन्मूर्तेः उदरे निवेशयन्ति । ततः पश्चात् प्रतिदिनं पूजा आरभते ।

अस्याः मूर्तेः वाहनं बहुदुष्करम् । बहुभिः कार्यकर्तृभिः महादण्ड-रज्जु-शलाकाभिः तस्याः रथस्य उपरि स्थापनं, पुनः सरोवरे विसर्जनं च करणीयं भवति ।

बलिप्रतिपत् दिने महागणपतेः प्राणप्रतिष्ठापनम् । तां विधिं नेत्रधारणं कथ्यते । पश्चात् आमासं नित्यपूजनम् अनुतिष्ठन्ति । अस्मिन् समये परितः ग्रामस्थाः देवतादर्शनाय अर्चनाय च आगच्छन्ति । ग्रमस्थैः गणेशमन्दिरस्य अर्चकैः एव पूजा ।

नित्यं रात्रौ नववादने महानीराजनम् । तत्समये उपपञ्च शतानां ग्रामस्थानां महासम्मर्दः । प्रतिदिनं विविधैः ग्रामकुलजनैः प्रसादस्य सेवा । रात्रौ महानीराजनानन्तरं प्रसादविनियोगः । कृष्णपक्षे नित्यं हरिकथाः सङ्गीतगोष्ट्यः वा आयोज्यन्ते ।

यात्रा दिनद्वयात्मिका भवति । सहस्रशः जनाः आगत्य यात्रायां भागं वहन्ति । प्रथमदिने सायङ्काले मूर्तिं रथे संस्थाप्य ग्रामवीथिषु महागणपतेः यात्रा चलति । नन्दीध्वजैः नर्तकाः, घोटकनर्तकाः, वाद्यवादकाः च यात्राम् अलङ्कुर्वन्ति । मध्यरात्रौ त्रिवादने यात्रायाः विश्रान्तिः । पुनः अग्रिमे दिने नाटकप्रदर्शनानि प्रेक्षकाणां यात्रिकाणां मनोरञ्जयन्ति । सायङ्काले रथं सरोवरं प्रति नयन्ति । तत्र महानीराजनेन पूजादिभिः कृत्वा प्राणविसर्जनं सरोवरजले विर्जनं च ।

विस्फोटकप्रदर्शिनी

सम्पादयतु

महागणपतेः विसर्जनस्य पश्चात् सरोवरस्य एकस्मिन् भागे विस्फोटकानां प्रदर्शिनी भवति । सहस्रशः प्रेक्षकाः सरोवरस्य अपरस्मिन् पार्श्वे स्थित्वा प्रदर्शिनीं पश्यन्ति ।

प्रसिद्धिः

सम्पादयतु

बाह्यतन्तुः

सम्पादयतु
  1. "प्रजावाणी-पत्रिकायां कन्नडभाषालेखः" (in Kannada). 
  2. "इण्डियन् न्यूस् पत्रिकायां स्थलीयेन ग्रामस्थेन लिखितः लेखः" (in English). 
"https://sa.wikipedia.org/w/index.php?title=गूलूरुयात्रा&oldid=456801" इत्यस्माद् प्रतिप्राप्तम्