गोल्गुम्बज् (Gol Gumbaz) कर्णाटकस्य बिजापुरे विद्यमानं किञ्चन प्रसिद्धं स्मारकभवनम् । बिजापुरनगरस्थेषु भवनेषु गोलगुम्बज्भवनम् अन्ताराष्ट्रियां ख्यातिं प्राप्तवत् अस्ति । एतत् आदिलशाहस्य स्मारकम् अत्यन्तं विस्मयकरं प्रसिद्धं च अस्ति । १६५६ तमे वर्षे एतस्य निर्माणं समाप्तिम् अगच्छत् । उत्तमयवनकलाकारैः विशिष्टेन करकौशल्येन अतीवसुन्दरतया एतस्य निर्माणं कृतम् । भारतस्य एतत् गोलगुम्बज् वास्तुशिल्पेतिहासे विश्वस्य प्रमुखम् अद्भुतम् इति प्रख्यातम् ।

Gol Gumbaz
ಗೋಲ ಗುಮ್ಮಟ
Gol Gumbaz
भौगोलिकस्थितिः १६°४९′४८.११″ उत्तरदिक् ७५°४४′९.९५″ पूर्वदिक् / 16.8300306°उत्तरदिक् 75.7360972°पूर्वदिक् / १६.८३००३०६; ७५.७३६०९७२
अवस्थानम् Bijapur, Karnataka, India
प्ररूपकारः Yaqut of Dabul
प्रकारः Mausoleum
उपादानम् dark grey basalt
औन्नत्यम् 51 meter
कार्यारम्भः(दिनाङ्कः) c. 1626
सम्पूर्णता (दिनाङ्कः) 1656
समर्पितम् Mohammed Adil Shah
Variant Names Gol Gumbad
गोल् गुम्बज़

बिजापुरनगरस्य विजापुरम् इत्यपि अपरं नाम अस्ति। । एतत् नगरं कर्णाटके उत्तरभागे अस्ति (मुम्बयीतः ३०० मैलदूरे) । कर्नाटकस्य प्रमुखमण्डलेषु बिजापुरमण्डलमपि अन्यतमम् । १६ शतके आदिल् शाहिसाम्राज्यस्य राजधानी आसीत् । युसुफ आदिलशाहः बिजापुरप्रदेशं स्वतन्त्रराज्यत्वेन परिकल्पितवान् आसीत् । पूर्वं बिजापुरनगरम् एकः ग्रामः आसीत् । अनन्तरं केचन राजानः एतं ग्रामं नगररूपेण परिवर्तितवन्तः । केचन बिजापुरं तेषां राजधानीम् अकुर्वन् । एतत् नगरं कला- साहित्य- सङ्गीत- वास्तुशिल्पेषु च प्रसिद्धमस्ति । बिजापुरं क्रि.श ५४० तः शतकत्रयं यावत् बादामीचालुक्यमहाराजानां शासने आसीत् । अग्रे क्रि.श. १४८९ तः १६८६ पर्यन्तं सामन्यतः २०० वर्षाणि यावत् आदिलशाहिवंशस्थाः अपालयन् । अस्मिन् मण्डले अनेकानि प्रेक्षणीयस्थानानि सन्ति ।

पूर्वं द्वितीयः इब्राहीम् आदिलशाहिमहाराजः पालयति स्म । तस्य कालः क्रि. १५८० तः १६२६ वर्षपर्यन्तम् । एषः पत्न्याः ताजबेगम् इत्यस्याः नाम्ना बृहत् भवनं निर्मितवान् आसीत् । इब्राहिं रोजा इति तस्य भवनस्य नाम। तत् भवनम् सुन्दरं वैभवोपेतं च इति प्रसिद्धम् ।

गोल् गुम्बज़ २।

रोजा भवनसमुच्चयनिर्माता द्वितीयः इब्राहिम् आदिलशाहस्य पुत्रः महम्मद् अदिलशाहः। महम्मद् आदिलशाहेन स्वस्य स्मारकत्वेन निर्मितं भवनमेव ‘गोलगुम्बज़ ’ । आदिलशाहस्य कालः १६२६तः-१६५६ पर्यन्तम् । बृहत् गात्रयुतस्य एतस्य गोलगुम्बज़स्य औन्नत्यं २०५ पादमितम् अस्ति । २०५ पादमितं दीर्घमस्ति । गुम्बज़स्य अन्तर्भागः १३५ पादमितः दीर्घः, १७८ पादमितः उन्नतः अस्ति । भवनस्य अन्तर्व्यासः १४४ पादमितः अस्ति । भवनस्य भित्तिः १० पादमिता स्थूला अस्ति । मुख्यगोपुरं विकसति कमलपुष्पे स्थितम् इव अस्ति । एकस्य कमलदलस्य दैर्ध्यं सामान्यतया १२ पादमितमस्ति ।

शब्दविस्मयः

सम्पादयतु

गुम्बज़स्य अन्तर्भित्तिः सूक्ष्मस्य अपि शब्दस्य प्रतिध्वनिम् उत्पादयति । वयं भित्तिसमीपं गत्वा शनैः वदामः चेत सः ध्वनिः पुरतः विद्यमानायाः भित्तितः प्रतिध्वनिता भवति । तथैव बहुवारं प्रतिध्वनेः आवर्तनमपि श्रूयते ।

तस्मिन् काले अपि एतादृशं तन्त्रज्ञानं ज्ञातवन्तः तन्त्रज्ञाः आसन् इति आश्चर्यस्य विषयः । भारतस्य वास्तुशिल्पेतिहासे एतत् गोलगुम्बज़ महत्या कल्पनया निर्मितं चिरात् विन्यस्तं च । अतः एव एतत् विश्वस्य प्रमुखाद्भुतेषु अन्यतमम् इति प्रख्यातम् ।

बाह्यानुबन्धाः

सम्पादयतु

निर्देशाङ्कः : १६°४९′४८″ उत्तरदिक् ७५°४४′९″ पूर्वदिक् / 16.83000°उत्तरदिक् 75.73583°पूर्वदिक् / १६.८३०००; ७५.७३५८३

"https://sa.wikipedia.org/w/index.php?title=गोल_गुम्बज&oldid=480261" इत्यस्माद् प्रतिप्राप्तम्