चण्डीदासः
कविपरिचयः
सम्पादयतुचन्डिदासय (Chandi Das) जन्म १८०५ तमे ईशवीयाब्दे हरियाणाप्रदेशस्य पुन्डरीग्रामे अभवत् । अस्य पितुर्नाम दुर्गादत्तः इति आसीत् । कविः हृदये सरस्वत्याः प्रेरणामनुभूय जयपुरमागच्छत् । तदुक्त्तं तेन-
- तदैवान्तरयामिन्य सरस्वत्या हृदिस्थया ।
- प्रेरितः पुत्र गच्छ त्वमितो जयपुरं प्रति ॥
- तत्र सुन्दरलालेन कृतो भाषाप्रबन्धकः।
- राधाकृष्णकलो भूयः कुरु त्वं देवभाषया ॥
जयपुरसेनानायकस्य सुन्दरलालकायस्थस्य साहाय्येन कविः राजसभायां प्रवेशं लब्धवान्। ततशचायं जम्मूनरेशस्य रणवीरसिंहस्य आश्रयं प्राप्तवान् ।
रचनापरिचयः
सम्पादयतुकविः त्रीणि महाकाव्यानि राधासुन्दरभक्तिबोध-रामप्रतापोदय-रघुनाथगुणोदयसंज्ञाकानि प्रणीतवान्।
राधासुन्दरभक्त्तिबोधाः
सम्पादयतुइदं पौराणिकं महाकाव्यं खण्डद्वयात्मकं वर्तते । उभयत्र क्रमशो नव षट् च अध्यायाः (सर्गाः) सन्ति । अत्र राधा कृष्णयोः पौराणिकं वृत्तान्तं वर्णितम् । महाकव्यस्य लक्षणानुसारम् ॠतुवर्णनादित्वानां समावेशः कृतः ।
रामप्रतापोदयम्
सम्पादयतुअस्मिन् महाकव्ये ९ सर्गाः सन्ति । अत्रापि रामकथा भड्ग्यन्तरेण वर्णिता । रामायणमनुसरताऽपि कविना मौलिकवर्णनशक्त्या नवातायाः समावेशः कृतः अस्ति ।
काव्यकला
सम्पादयतुचन्डीदासः सुकुमारमार्गस्य कविः । अस्य काव्यशैल्यां रसाभिव्यक्तिपक्षः प्रबलः । अलङ्काराः अपि रसाभिव्यक्तये साहाय्यं कुवन्ति । प्रकृतिचित्राणि प्रायेण सरसानि अलङ्कृतानि च सन्ति । तद्यथा-
- नीलपट्टमिदमस्ति नो घटा
- नाङ्गयष्टिरिति किं तडिल्लता ।
- आननां नवविधुरेष पौर्णिमो
- द्यौरियं घृतवपुर्न कामिनि ॥
रात्रिवर्णनं यथा -
- नायं राकाशशि किन्तु स्थिता सन्दर्शनाया ते ।
- कराग्रे मुकुटे कृत्वा चतुरा रात्रिनायिका ॥
काविना प्रकृतेः आलम्बनोद्दिपनयोः उभयोरपि रूपयोः रमणीयचित्रणि प्रस्तुतानि । अस्य पदयोजना ललिता वर्तते । शैली च प्रसादमाधुर्यगुणन्विता ।