चन्द्रपुरमण्डलम्


चन्द्रपुरमण्डलं (मराठी: चन्द्रपुर जिल्हा, आङ्ग्ल: Chandrapur District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं चन्द्रपुरम् इत्येतन्नगरम् ।

चन्द्रपुरमण्डलम्

Chandrapur District

चन्द्रपुर जिल्हा
मण्डलम्
महाराष्ट्रराज्ये चन्द्रपुरमण्डलम्
महाराष्ट्रराज्ये चन्द्रपुरमण्डलम्
देशः  India
मण्डलम् चन्द्रपुरमण्डलम्
उपमण्डलानि चन्द्रपुर, वरोरा, भद्रावती, चिमुर, नागभीड, ब्रम्हपूरी, सिंदेवाही, मूल, गोण्डपिम्परी, पोम्भुर्णा, सावली, राजुरा, कोरपन, जिवती, बल्लारपूर
विस्तारः १०,६९० च.कि.मी.
जनसङ्ख्या(२०११) २०,७१,१०१
Government
 • मण्डलसङ्गाहकः
(District Collector)
एन्.नवीन सोना
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://chanda.nic.in

भौगोलिकम्संपादित करें

चन्द्रपुरमण्डलस्य विस्तारः १०,६९० च.कि.मी. मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि गडचिरोलीमण्डलं, पश्चिमदिशि यवतमाळमण्डलम्, उत्तरदिशि नागपुरमण्डलं, भण्डारामण्डलं, वर्धामण्डलं च, दक्षिणदिशि आन्ध्रप्रदेशराज्यम् अस्ति । अस्मिन् मण्डले वैनगङ्गा, वर्धा, इरई, अन्धारी, पैनगङ्गा इत्येताः प्रमुखनद्यः सन्ति ।

कृषिःसंपादित करें

मण्डलेऽस्मिन् ८०% जनाः कृषिक्षेत्रे रताः । तण्डुलः अस्य मण्डलस्य प्रमुखसस्योत्पादनम् । 'सोयाबीन', यवनालः(ज्वारी), कार्पासः, 'तूर' इत्यादीनि अपि अत्र उत्पाद्यन्ते ।

जनसङ्ख्यासंपादित करें

चन्द्रपुरमण्डलस्य जनसङ्ख्या(२०११) २०,७१,१०१ अस्ति । अस्मिन् मण्डले प्रति च.कि.मी. मिते क्षेत्रे १९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. १९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ५.९५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५९ अस्ति । अत्र साक्षरता ८१.३५% अस्ति ।

 
इक्षु-निर्मितानि वस्तूनि
 
आमटेवर्यः

उपमण्डलानिसंपादित करें

अस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि-

  • चन्द्रपुरम्
  • वरोरा
  • भद्रावती
  • चिमुर
  • नागभीड
  • ब्रम्हपूरी
  • सिन्देवाही
  • मूल
  • गोण्डपिम्परी
  • पोम्भुर्णा
  • सावली
  • राजुरा
  • कोरपन
  • जिवती
  • बल्लारपूर

लोकजीवनम्संपादित करें

मण्डलस्य ७३.०७% जनाः ग्रामेषु निवसन्ति, २६.९३% जनाः नगरेषु निवसन्ति । जनाः कृषिकार्ये, गृहोद्योगे, इतरसेवाकार्येषु रताः दृश्यन्ते । खनिजसम्पतिदृष्ट्या मण्डलमिदं समृद्धम् अस्ति, अतः तत्सम्बद्धाः उद्यमाः प्रचलन्ति अत्र । कर्गजोद्यमः, कृष्णाङ्गारस्य आकराः, 'सिमेण्ट्' उद्यमाः प्रचलन्ति । मण्डलस्य वरोराभागे 'आनन्दवन' इति बाबा आमटेवर्याणां सेवाप्रकल्पः प्रचलति । ग्रामीणविभागे हस्तोद्योगाः प्रचलन्ति ।

व्यक्तिविशेषाःसंपादित करें

मण्डलमिदं बहूनां व्यक्तिविशेषाणां जन्मस्थलं, कार्यस्थलम् वा अस्ति । तेषु केचन सन्ति - महाराष्ट्रभूषण बाबा आमटे, प्रकाश आमटे, विक्रम गोखले, मारुतीराव कण्णम्वार, विलास मुत्तेमवार इत्यादयः ।

 
ताडोबा अभयारण्ये व्याघ्रः

वीक्षणीयस्थलानिसंपादित करें

  • रामाला, जुनोना टेंक
  • महाकालीमातामन्दिरम्
  • घोडाझारी
  • सातवाहिनी
  • ताडोबा-अन्धारी अभयारण्यम्
  • चन्द्रपुर औष्णिक-विद्युत्-उद्यमः

बाह्यसम्पर्कतन्तुःसंपादित करें

शासकीय सङ्केतस्थलम् मण्डलप्रशासनस्य सङ्केतस्थलम्

"https://sa.wikipedia.org/w/index.php?title=चन्द्रपुरमण्डलम्&oldid=458991" इत्यस्माद् प्रतिप्राप्तम्