रामपाणिवादविरचिता वीथी भवति चन्द्रिका । अङ्गराजा चन्द्रसेनः मणिरथनाम्ना प्रथितस्य विद्याधरस्य पुत्र्यां चन्द्रिकायाम् अनुरक्तो भवति । चण्डनामा राक्षसः ताम् अपहरति । विघ्नेश्वरस्य अनुग्रहेण चण्डं हत्वा चन्द्रसेनः चन्द्रिकायाः पाणिग्रहणं करोति । एतदेव वीथ्याः अस्याः इतिवृत्तम् । अस्याः सम्पादनं प्रथमतया पुन्नश्शेरि नीलकण्ठशर्मा-महोदयेन पट्टाम्पि विज्ञानचिन्तामणिः मुद्रणशालातः १८९७ तमे संवत्सरे कृतम् । पुनः के. रामपिषारटीमहोदयेन १९१३ तमे संवत्सरे bulletin of Rama Varma Research Institute Trissur, No 13, एवं केरलसर्वकलाशालातः हस्तलिखितपत्रिकायाः २६ तमे पुस्तके १९८५ तमे संवत्सरे के. विश्वेश्वरि-अम्मा- महाभागया च प्रकाशमानीतम् ।

"https://sa.wikipedia.org/w/index.php?title=चन्द्रिका&oldid=362837" इत्यस्माद् प्रतिप्राप्तम्