चौधरी चरणसिंह
चौधरी चरणसिंह | |
---|---|
5th Prime Minister of India | |
In office 28 July 1979 – 14 January 1980 | |
President | Neelam Sanjiva Reddy |
Deputy | Yashwantrao Chavan |
Preceded by | Morarji Desai |
Succeeded by | Indira Gandhi |
Minister of Finance | |
In office 24 January 1979 – 28 July 1979 | |
Prime Minister | Morarji Desai |
Preceded by | Hirubhai M. Patel |
Succeeded by | Hemvati Nandan Bahuguna |
3rd Deputy Prime Minister of India | |
In office 24 January 1979 – 28 July 1979 Serving with Jagjivan Ram | |
Prime Minister | Morarji Desai |
Preceded by | Morarji Desai |
Succeeded by | Yashwantrao Chavan |
Minister of Home Affairs | |
In office 24 March 1977 – 1 July 1978 | |
Prime Minister | Morarji Desai |
Preceded by | Kasu Brahmananda Reddy |
Succeeded by | Morarji Desai |
5th Chief Minister of Uttar Pradesh | |
In office 3 April 1967 – 25 February 1968 | |
Preceded by | Chandra Bhanu Gupta |
Succeeded by | President's rule |
In office 18 February 1970 – 1 October 1970 | |
Preceded by | Chandra Bhanu Gupta |
Succeeded by | President's rule |
व्यैय्यक्तिकसूचना | |
Born |
Chaudhary Charan Singh २३ १९०२ Noorpur, Meerut district, United Provinces of Agra and Oudh, British India (present-day Hapur district, Uttar Pradesh, India) |
Died |
२९ १९८७ New Delhi, Delhi, India | (आयुः ८४)
Political party | Janata Party (Secular) (1979–1987) |
Other political affiliations |
Indian National Congress (Before 1967) Bharatiya Lok Dal (1967–1977) Janata Party (1977–1980) Lokdal (1980–1987) |
Spouse(s) | Gayatri Devi (died in 2002) |
Children | 6; including Ajit Singh |
Alma mater | Agra University |
साधना
सम्पादयतुसा.श.१९३७ तमे वर्षे फ़ेब्रवरी मासे उत्तरप्रदेशराज्यसभानिर्वचने स्पर्धयित्वा जयं प्राप्तवान् । सा.श.१९३८ तमे वर्षे व्यवसायोत्पन्नविपणीनाम् अधिनियमं राज्यसभायां प्रस्तुतवान् । एषः अधिनियमः सा.श.१९३८ तमे वर्षे मार्चमासस्य ३१ दिनाङ्के देहल्याः हिन्दुस्थानटाइम्स् पत्रिकायां प्रकाशितः । सा.श.१९४० तमे वर्षे ऐदम्प्राथम्येन पञ्जाबराज्ये अन्यराज्येषु च अपि अनुष्ठितम्म् । सा.श.१९५२ तमे वर्षे उत्तरप्रदेशस्य राज्यसभानिर्वाचने जयं प्राप्तवान् एषः करविभागस्य मन्त्री अभवत् । तस्मिन् काले भूस्वामित्वपद्धतिः आसीत् । भूस्वामितायाः पद्धतिं स्थगितवान् तथैव भूसुधारणानियमस्य अनुष्ठानं कर्तुं प्रयत्नं कृतवान् । चौधरीचरणसिंहः तस्य कालस्य प्रधानिना जवाहरलालमहोदयेन यथा उक्तम् आसीत् तथा सोवियतसङ्घरीत्या आर्थिकप्रगतेः मण्डनं कृतवान् ।किन्तु स्वयं कृषिकस्य पुत्रः एषः यः भूम्यां कृषिं करोति सः एव भूस्वामी भवेत् इति विश्वसिति स्म । तस्मिन् काले जवाहरलालनेहरूमहोदयस्य अभिप्रायं कोऽपि न आक्षिपति स्म । अतः चौधरी चरणसिंहः सा.श.१९६७ तमे वर्षे काङ्ग्रेस् पक्षं त्यक्तवान् । सा.श.१९६७ तः सा.श.१९७० पर्यन्तम् उत्तरप्रदेशस्य अल्पकालीनमुख्यमन्त्री आसीत् ।
प्रधानमन्त्री चरणसिंहः
सम्पादयतु१९७७ तमे वर्षे यदा काङ्ग्रेस्पक्षः अतिहीनपराजयं प्राप्नोत् तदनन्तरं जनतापक्षस्य सर्वकारः रचितः । जनतापक्षस्य मित्रपक्षेषु अन्यतमस्य भारतीयलोकदलपक्षस्य नायकः चौधरी चरणसिंहः तदा प्रधानमन्त्री भवितुम् योग्यः आसीत् । किन्तु जयप्रकाशनारायणः मोरारजी देसायीवर्यं प्रधानमन्त्रिरूपेण चितवान् । किन्तु जनतापक्षस्य आन्तरिककलहकारणतः मोरार्जी महोदयः १९७९ तमे वर्षे त्यागपत्रं दत्तवान् । श्रीमत्याः इन्दिरागान्ध्याः सूचनानुसारेण चौधरी चरणसिंहः जनतापक्षाय दत्तं सहकारं प्रतिस्वीकृत्य काङ्ग्रेस्पक्षं प्रति दत्तवान् । अतः १९७९ तमे वर्षे जुलै २८ दिनाङ्के एषः ६४ जनानां लोकसभासदस्यानां सहयोगेन भारतस्य पञ्चमः प्रधानमन्त्री अभवत् ।
चौधरी चरणसिंहः महत्या आकाङ्क्षया प्रधानमन्त्री स्थानं प्राप्तवानासीत् । प्रधानमन्त्री सन् इतोऽपि एकं लोकसभाकलापमपि न कृतवानासीत् । तस्य प्रथम लोकसभाकलापः १९८० तमे वर्षे जनवरीमासस्य १५ दिनाङ्के करणीयः आसीत् । तन्निमित्तं बहु सज्जता अपि प्रचलन्ती आसित् । किन्तु दुर्दैववशात् ततः पूर्वदिने एव श्रीमती इन्दिरागान्ध्याः नेतृत्वस्य काङ्ग्रेस्पक्षः चरणसिंहस्य भारतीयलोकदलपक्षात् सहयोगं प्रतिस्वीकृतवान् । १९८० तमे वर्षे जनवरीमासस्य १४ दिनाङ्के स्पष्टबहुमतं प्रमाणीकर्तुम् अशक्यः एषः पदव्याः कृते त्यागपत्रं दत्तवान् ।
१९८७ तमे दिनाङ्के चरणसिंहस्य मरणानन्तरम् एतस्य पुत्रः अजितसिंहः चरणसिंहेन स्थापितस्य भारतीयलोकदलपक्षस्य नायकः अभवत् । चौधरी चरणसिंहः कृषिकजनानां बहु आत्मीयः आसीत् । अतः नवदेहल्यां विद्यमानस्य तस्य स्मारकं 'किसान् घाट्’ इति निर्दिश्य गौरवं प्रदर्शितवन्तः । उत्तरप्रदेशसर्वकारेण एतस्य स्मरणार्थं मीरट् विश्वविद्यालयस्य चौधरी चरणसिंहविश्वविद्यालयः इति पुनर्नामकरणं कृतम् ।
|