चिक्रोडः
चिक्रोडाः मध्यमगात्रीयाः प्राणिनः दंशक परिवारस्य सदस्याः । अस्मिन् वर्गे वृक्षवासी , भूवासी, नभगामी चिक्रोडाः इत्यादि भेदाः भवन्ति । अमेरिका युरेशिया तथा आफ्रिका भूखण्डानां मूलनिवासिनः चिक्रोडाः ४ कोटि वर्षेभ्यः पूर्वं भूमौ जाताः । ते आनित्यहरिद्वर्णप्रदेशात् मरुभूमि पर्यन्तं सर्वेषु भूप्रदेशेषु वस्तुं शक्यन्ते । ध्रुवप्रदेशः तथा अतिशुष्कभूभागाः तैः न वासयोग्याः । रामायणे सेतुबन्धनाख्याने विक्रोडस्य उल्लेखः अस्ति । सेतुबन्धनेन सदृशं महाकार्ये लघुजीवेन चिक्रोडेन अपि भागः गृहीतः । अन्य भारतीय भाषासु तमिळु- अनिल्, तेलुगु- वुदुत, मलयाली- अन्नन्, कन्नड- अळिलु, - इति नामनि संबोध्यते।
Squirrels | ||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|
Various members of the family Sciuridae
| ||||||||||||
जैविकवर्गीकरणम् | ||||||||||||
| ||||||||||||
उपविभागीयस्तरः | ||||||||||||
and see text | ||||||||||||
शरीररचना
सम्पादयतुचिक्रोडाः लघुजीवाः । कुब्जे शरीरे केशसमृद्धः पुच्छः, विशालानि नेत्राणि च भवन्ति । केशाः मृदुदुकूलमिव भासन्ते । प्रत्येकेपादे ५ अंगुल्यः विद्यन्ते । पादाग्रः यः वृक्षारोहणे सहायकः, मृदु भूत्वापि दृढः वर्तते । तेषां हृदयभागे तथा अन्य निम्नाङ्गेषु स्थितेभ्यः स्पर्शाङ्गेभ्यः उत्कृष्टं स्पर्शज्ञानं ते प्रदर्शयन्ति । विशालनेत्रयुक्ताः चिक्रोडाः तीक्ष्णं दृष्टिसामर्थ्यमपि आप्नुवन्ति । चिक्रोडानां दन्ताः शक्तिशाली भवन्ति आजीवनपर्यन्तं वर्धन्ते च ।आहारकर्तनार्थं मुखस्य अन्ते स्थलावकाशः विद्यते । चिक्रोडानां आयुः षट् वर्षाणि । नगरवासी चिक्रोडाः वाहनाघातेन ग्रामवासिनः आहाराभावेन च आकालमरणं प्राप्नुवन्ति ।
आहारम्
सम्पादयतुमूलतः चिक्रोडाः शाकाहारिणः शुष्कफलानि बीजानि शाकानि च खादन्ति । यदा शाकाहारः अलभ्यः तदा कीटान् अण्डानि पक्षिशावकान् सर्पशावकान् च खादन्ति । समशीतोष्णप्रदेशे ग्रीष्मः तेषां कृते कठोरकालः । यतः भूमौ स्थितानि बीजानि अङ्कुरितानि । अपिच नवाहारोत्पादनं यावत् न संभवति । शीतप्रदेशेषु अधिकशः कीटानेव भक्षयन्ति ।
व्यवहारः
सम्पादयतुचिक्रोडानां सन्तानोत्पत्तिः वर्षे एक या द्विवारं भवति । गर्भावस्था त्रि – षट् सप्ताहात्मकी । जात्यानुसारेण सन्तानसंख्यासु भेदाः सन्ति । नवजातः चिक्रोडः दन्तहीनः दृष्टिहीनः च वर्तते । चिक्रोडा षट्- दशसप्ताह पर्यन्तं स्तन्यपानं कुर्वती शिशून् पालयति । प्रथमवर्षान्ते चिक्रोडशिशुः यौवनावस्थां प्राप्नोति । भूवासिनः चिक्रोडाः समाजपेमिणः किन्तु वृक्षवासिनः एकाकिनः भवन्ति । भू तथा वृक्षवासी चिक्रोडाः दिनचराः किन्तु नभगामीचिक्रोडाः निशाचराः वर्तन्ते
बाह्यसम्पर्कतन्तुः
सम्पादयतु- Tree of Lifeः Sciuridae Archived २०१०-०६-१२ at the Wayback Machine
- Squirrel Tracksः How to identify squirrel tracks in the wild
- National Geographic link on Squirrels Archived २००७-०६-१४ at the Wayback Machine
- List of names of squirrel taxa Archived २००७-०३-२९ at the Wayback Machine