चित्रोष्ट्राः बहु उन्नतप्रणिनः । सुन्दरवर्णयुक्तप्राणिनः एते द्रष्टॄन् आकर्षयन्ति । विभिन्नाकारकाः एते प्राणिनः केवल दक्षिणाफ्रिकादेशस्य वने द्र्ष्टुं शक्यन्ते। सामान्यतः अकेशियानामकाः वृक्षाः यत्र भवन्ति तत्र एते वसन्ति इति वदन्ति । चित्रोष्ट्राणां शरीरं चत्वारिमीटर्रमितं दीर्घं भवति । पुच्छं ८६० मि.मीटर् दीर्घम् । भारः सामान्यतया ५५० किलो तः १८०० किलोपर्यन्तं भवति । एतेषां कण्ठस्य पृष्टभागः बहु दृढः भवति । एतेषां वर्णः कपिशः पिङ्गलः वा भवति । शरीरे धूसरवर्णस्य चित्राणि भवन्ति । उदरभागस्य वर्णः किञ्चिदिव मन्दः। यथा यथा एतेषां वर्धनं भवति तथा तथा वर्णः गाढः जायमानः भवति।

चित्रोष्ट्राः

संरक्षणस्थितिः
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Animalia
सङ्घः Chordata
वर्गः Mammalia
गणः Artiodactyla
कुलम् Giraffidae
वंशः Giraffa
जातिः G. camelopardalis
द्विपदनाम
Giraffa camelopardalis
(Linnaeus, 1758)
उपविभागीयस्तरः

9, see text

चित्रोष्ट्राणां पृष्ठे दीर्घं अस्थिद्वयं भवति । शिरसि शृङ्गद्वयम् अस्ति इव चिन्हं दृश्यते । लघ्वाकारकं कर्णद्वयम् अस्ति । एतस्य कर्णौ तीक्ष्णौ । एतेषां गन्धग्राहणशक्तिः विशिष्टा । एतेषां नेत्रे बृहत् । पक्ष्मणि अपि दीर्घे । लघु वेणी इव पृच्छमस्ति । एते सामान्यतया समूहे वसन्ति । स्वभावतः शान्ताः तथा किञ्चित् भीरवः अपि। चित्रोष्ट्र्याः बुद्धिः तीक्ष्णा भवति । सा अपायस्य सन्दर्भं शीघ्रम् अभिजानन्ति ।

चित्रोष्ट्राः एकघण्टाभ्यन्तरे ४८ कि.मी. वेगेन धावन्ति ।एतैः सह धावनसमये कदाचित् अश्वाः अपि पराजयं प्रप्नुवन्ति । एते शत्रुप्राणिनां विषयं शीघ्रम् अभिजानन्ति । एतेषाम् उपरि ये प्राणिनः आक्रमणं कर्तुम् आगच्छन्ति तेषाम् उपरि एते पादग्रेण प्रहरन्ति नोचेत् शिरसि सम्यक् ताडयन्ति । एतेषां ताडनं बहु कठिणं भवति ।

चित्रोष्टाः आहारखादनसमये, जलपानावसरे स्वस्य पादाग्रं नमयन्ति, प्रातः, सायंकाले च अहारान्वेषणार्थं गच्छन्ति । मध्याह्ने विश्रान्तिं स्वीकुर्वन्ति । अकेषिया- वृक्षस्य पर्णं बहु आनन्देन खादन्ति । अन्यवृक्षस्य पर्णानि अपि खादन्ति । एते शाकाहारिप्राणिनः । जलं विना अनेकदिनानि स्थातुम् अपि शक्नुवन्ति । एते सामान्यतया स्थित्वा एव निद्रां कुर्वन्ति । भूमौ शयनं तु बहु विरलम् । चित्रोष्ट्रयः सामान्यतया ४५० दिनानि यावत् गर्भं धरन्ति । ताः सकृत् एकस्य अथवा द्वयोः शावकयोः कृते जन्मं यच्छन्ति । एताः शावकाः जन्म प्राप्य विंशति निमेषेषु स्वयं तिष्ठन्ति। शावकानां मातापितरौ तान् बहु आसक्त्या पालयन्ति समूहे स्थिताः अन्यचित्रोष्टाः अपि शावकान् बहु प्रीत्या पालयन्ति ।

सिंहाः, व्याघ्राः, तरक्षवःइत्यादयः बलिष्ठप्राणिनः चित्रोष्ट्राणां वैरिणः। बहु साधुस्वभावयुतानाम् एतेषां मनुष्यैः अपि आपायः अस्ति । जलपानस्मये, खादनसमये, निद्रासमये एतेषां किञ्चित् आत्मविस्मृतिः भवति । तस्मिन् समये एव एते शत्रुभ्यः बलिभूताः भवन्ति । सामान्यतया एते २० वर्षाणि जीवन्ति ।

विश्वस्य सर्वमृगालयेषु चित्रोष्ट्राणां पालनं भवति । आकर्षकरूपकारणतः ऐतान् प्राणिनः दृष्ट्वा जनाः बालाः च बहु आनन्दम् अनुभवन्ति । मृगालये एतेषां कृते वृक्षस्य शाखाः, शुष्कतृणं, गोधूमतुषं च अहाररुपेण यच्छन्ति । गृञ्जनकं पलाण्डुः, कुळित्थम् इत्येतानि अपि यच्छन्ति ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु
  1. फलकम्:IUCN2012.2
"https://sa.wikipedia.org/w/index.php?title=चित्रोष्ट्रः&oldid=491686" इत्यस्माद् प्रतिप्राप्तम्