चिमाजीअप्पः पेश्वाबाळाजीविश्वनाथस्य पुत्रः, पेश्वाबाजिरावस्य अनुजश्च आसीत्। तेन युद्धविशारदेन पुर्तुगल्साम्राज्यतो भारतस्य पश्चिमभागम् विमुक्तमभवत्। वसयीविजयं विशिष्टम्।

चिमाजी अप्पा
Statue of Chimaji Appa.jpg
जन्म 1707 तमवर्षम्
भारतम्
मृत्युः १७४१ Edit this on Wikidata
वृत्तिः मराठासेनापतिः
कृते प्रसिद्धः युद्धविशारदः पेश्वाकुटुंबसदस्यः च
धर्मः हिन्दुधर्मः
भार्या(ः) रख्माबायी, अन्नपूर्णाबायी
अपत्यानि सदाशिवरावभाउ
पितरौ राधाबायी बालाजीविश्वनाथः च

पृष्ठभागम्संपादित करें

तदानीम् आंग्ल-फ़्रान्स्-ड्च्-इत्यदीनां देशानां नौसैन्यानाम् प्रहारैः पुर्तुगल्-देशस्य नौकबलम् नष्टमभवत्, एवमपि पुर्तुगल्-नौकबलं गुजरातोत्तरमलाबारकोङ्कन्-इत्यादीनां क्षेत्राणां समुद्रतटेषु महदासीत्। पुर्तुगल् राज्यशासनेन विविदेषु द्वीपेषु नौकाश्रयेषु दुर्गाः निर्मिताः। गोवादामन्दिवुमङ्गलोरक्षेत्रेषु पुर्तुगल् राज्यशासनेन हिन्दुप्रजा उत्पीडिता। हिन्दुप्रजायाः बलात्धर्मान्तरार्थम् बहवः अत्याचाराः कृताः।

पुर्तुगल्साम्राज्यविर्रुध्य अभियानम्संपादित करें

 
पूणे नगरे पार्वतीमन्दिरे चिमाजीअप्पस्य चित्रम्

छत्रपतिशिवाजीमहाराजः "हिन्दु स्वराज्यम्" इति घोषित्वा, मराठासाम्राज्यम् स्थापितवान्। यदा पेश्वाबाजीरावः मुगलसाम्राज्येन युद्धम् कुर्वन् आसीत्, तदा भ्राताऽपि पुर्तुगल्साम्राज्येन युद्धमारब्धवान्। यस्मात् वसयि पुर्तुगल्साम्राज्यस्य उत्तरभागस्य केन्द्रम् आसीत्, तस्मात् चिमाजीअप्पस्य लक्ष्यं वसयिदुर्गः अभवत्।

बेलापूरदुर्गजयम्संपादित करें

1733 तमे वर्षे मराठासेना चिमाजीशङ्करबुवाशिन्देनायकाभ्याम् सह पुर्तुगल्सैन्यात् बेलापुरदुर्गं जितवती। जाङ्कोजिरावशिन्दे युद्धम् आरब्धवान्। यदि विजयी भवामि तर्हि तत्र अमृतेश्वरमन्दिराय बिल्वपत्रमालाम् प्रददामि इति सः प्रतिज्ञाम् अकरोत्।

वसयीविजयम्संपादित करें

आदृतानुसन्धानन्तरं 1737 तमे वर्षे चिमाजी मराठासेनाम् पुर्तुगल् राज्यक्षेत्रे नीतवान्। सः दुर्बलभागान् प्रहृत्य युद्धम् आरब्धवान्। 1737 वर्षे मार्चमासे 28 दिनाङ्के रणक्षेत्रे शिन्देकुटुम्बसदस्यानां धैर्यसाहसप्रदर्शनं विशिष्टम्। शङ्करबुवाशिन्देसेनापतिना अर्नाळादुर्गः जितवान्, ततः वसयिदुर्गस्य रक्षणार्थम् सैन्यसाहाय्यम् कष्टमभवत्। ठाणेसलशेतद्वीपौ मराठासेना अमुञ्चत्।

1738 संवत्सरे नवम्बर् मासे डहाणूदुर्गं चिमाजी अमुञ्चत्, जनवरी20 तमे दिनाङ्के 1739 तमे संवत्सरे माहिमनगरम् अमुञ्चत्। चेङ्गोजीरावशिन्दे माहिमकेल्वेदुर्गौ अमुञ्चत्। रानोजीरावशिन्दे सिरगाओनगरम् अमुञ्चत्। जानोजीरावशिन्दे तारापुरम् अमुञ्चत्। फब्रवरी 13 तमे दिनाङ्के चिमाजी अशेरीनगरम् अमुञ्चत्। 28 मार्च दिनाङ्के रावलोजी शिन्दे कारंजाद्वीपदुर्गौ अमुञ्चत्।

फरवरीमासे चिमाजी वसयिदुर्गं जेतुम् अभियानम् आरब्धवान्। प्रथमम् मढदुर्गम्, धारावीनगरं च अमुञ्चत्, वसयेः नदिकायां दिग्बन्धनं कृतवान्। तदनन्तरम् दुर्गस्य कन्थानाम् अधः विविदेषु स्थानेषु मराठासैनिकैः विस्फोटकाः स्थापिताः। कन्थाभेदनन्तरं मराठासैनिकाः दुर्गम् अप्रविशन्। पुर्तुगल्सेनायाः उन्नतहथियारैः बहवः मराठासैनिकाः हताः जाताः। शनैः मराठासैनिकैः दुर्गः विजितः। यदा सेबाष्टियनस्य गोपुरः अपातयत्, तदा पुर्तुगल्सेनायाः पराजयः निश्चितो जातः।

16 मै तमे दिनाङ्के पुर्तुगल्सेना आत्मसमर्पणम् अकरोत्। यस्मात् पुर्तुगल्सेनापतयः मारिताः अभवन्, तस्मात् कैतानो-दिसूसा-पेरेरा-नाम्ना पुर्तुगल्राज्यस्य उपसेनानायकः आत्मसमर्पणस्य पत्रे हस्ताक्षरम् अकरोत्।

चिमाजीअप्पः विपुलहृदयः आसीत्। तेन पुर्तुगल्प्रजा न पीडिता। सः शिवछत्रपतिसदृशः शत्रुपक्षशासकस्य पुत्रीम् सादरपूर्वकम् प्रेषितवान्। अष्टदिनान्तरे पुर्तुगल् जनता सानुबन्धम् अपगच्छतु इति चिमाजीअप्पः आज्ञापितवान्। एवमेव वसयिरणं मराठासेना जितवती।

मार्टिनयो डासिल्वेरा, पेड्रो डीमेलो, जो मल्यो सेनाधिकारिणः मानाजिरावशिंदेसेनापतिः हतवान्। मराठाराष्ट्रम् पुर्तुगल्राज्यस्य उत्तरभागम् अथवा अष्टनगराणि, चतुर्नौकाश्रयान्, द्वौ दुर्गौ, 340 ग्रामान् च विजितवत्। चिमाजि तस्य वज्रेश्वरीदेव्यै कृते प्रतिज्ञानुसारे, अत्र सुन्दरं मन्दिरं निर्मितवान्।

1740 तमे वर्षे चिमाजी मृतोऽभवत्। बाजीरावचिमाजीभ्रात्रोः सामर्थ्येन सह एवं बान्धव्येन सह मराठाराष्ट्रं विस्तारम् प्राप्नोत्।

कुटुम्बम्संपादित करें

चिमाजी अप्पः पेठेकुटुम्बसदस्यया रख्माबाय्या विवाहम् अकरोत्, सदाशिवरावभाउ तस्य पुत्रः। रख्माबाय्याः निधनान्तरम् अन्नपूर्णबाय्या विवाहितः।

अन्यज्ञापकानिसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=चिमाजी_अप्पा&oldid=452905" इत्यस्माद् प्रतिप्राप्तम्