चेन्नै
चेन्नै (சென்னை) तमिलनाडु राज्यस्य राजधानी अस्ति। चैन्नैनगरं (तस्य पूर्वनाम मदरास्) भारते स्थितेषु महानगरेषु अन्यतममस्ति। अत्र स्थित्वा दर्शनीयानि स्थानानि बहूनि सन्ति।
विजिपि युनिवर्सल् किङ्गडम्संपादित करें
एतत् सागरतीरस्थं विहारधाम अस्ति। विनोदाय विहाराय च अत्र ‘बीचरेसार्ट’ अस्ति एम्यूसमेण्ट् उद्यानमस्ति। वसत्यर्थम् ६५ कुटीराः सन्ति कुटुम्बस्य सर्वे जनाः आगत्य अत्र विरोमदिनेषु सन्तोषम् अनुभवितुम् उत्तमं स्थानमेतत्। मार्गः –चैन्नैतः २९ कि.मी मामल्लपुरम् मार्गः।....
एम. जि. एम. डि.जि. वर्ल्ड्संपादित करें
एतत् मुत्तकाडु इति प्रसिद्धं विश्रामस्थानमस्ति। बालानां वयस्कानां च अत्र अनेकविधक्रीडाः सन्ति। अप्सरालोके (fairy tale) वर्णितानि पात्राणि हम्प्टी, डम्प्टी, ब्याटमन्, क्रूकड् ट्रि, टोरेण्डो कोस्टल् रैड इत्यादीनि सन्ति। पाश्चात्यदेशे दृश्यमानानि कतिचन दृश्याणि अपि अत्र द्र्ष्टुं शक्नुमः। कौबाय् ल्याण्ड् , विण्डमिल् शिप् व्रेक इत्येतानि अतीवसुन्दराणि सन्ति। सुन्दरे प्यारिसमार्गे चलितुं शक्यते। क्रीडासु बम्पर् कार्, स्लैड्, आन्दोलिकाः च सन्ति। अत्र मनोरञ्जनद्वारा शिक्षणमपि साध्यमस्ति। इतरस्थानानि नाम डाष् अण्ड् स्प्ल्याष् तथा किष्किण्ट् (१२२ कि.मी दूरे अस्ति)।
पुलिकाट्लेक्संपादित करें
चैन्नैनगरस्य उत्तरभागे स्थितं प्रेक्षणीयं स्थानम् एतत्। अत्र तरणं मत्स्यग्रहणं च मनोहरं भवति। चैन्नैनगरतः एतेषां प्रवासार्थं दर्शनार्थं व्यवस्था कल्पिता अस्ति। चैन्नैनगरे वासः कर्तुं शक्यते।
देवालयाःसंपादित करें
चेन्नै नगरे अनेके देवालयाः विद्यन्ते। तेषु कपालीश्वर-मरुन्धीश्वर-देवालयौ अन्यतमौ।
चैन्नैनगरस्य सागरतीराणिसंपादित करें
अत्र कोरमण्डलसागरतीरं अत्यन्तं सुन्दरमस्ति। मरिना सागरतीरं अतीवजनप्रियम्। एतत् ४.५ कि.मी दीर्घम्। प्रपञ्चे दीर्घतीरेषु द्वितीयम् इति प्रसिद्धम् अस्ति। प्रतिदिनम् अत्र सहस्रशः जनाः आगच्छन्ति। बिहारं समुद्रस्नानम् च कुर्वन्ति। ईलियट्स् बीच् (बेसेण्ट्नगर), कोवलाङ्गबीच् चैन्नैतः ४० कि.मी. दूरे स्तः। मुत्तुकाडुप्रदेशे सागरपूर्व जले विहारः नौकायानं, मत्स्यग्रहणं च कर्तुम् शाक्यते। मामल्लपुरमपि सागरतीरे एव अस्ति। देशीयानां विदेशीयानां च प्रमुखं आकर्षणकेन्द्रमेतत्। अत्र तरणं कदाचित् अपायाय भवति। तरङ्गाः अत्र वेगेन आगच्छन्ति।
बाह्यग्रन्थय:संपादित करें
विकिमीडियाकोषे चेन्नै अनेन सम्बद्धमाध्यमाः सन्ति। |
- Chennai District - Official government site for Chennai District. Site has history, profile [१], landmarks [२], etc
- Corporation of Chennai - Online corporation service. Site with important phone numbers [३], etc
- SpiritOfChennai.com Information about Chennai City.
- Chennai Online
- Weather Underground: Chennai (Madras), India Forecast - Current weather at Chennai
- City Map