'छन्दोमञ्जरी' छन्दोविषयकः ग्रन्थः अस्ति। अस्य रचयिता गङ्गादासः अस्ति। अस्य माता सन्तोषा (सन्तोषी) आसीत्। पिता च वैद्यगोपालदासः आसीत्। अस्य समयः १३००क्रिस्ताब्दतः १५०० क्रिस्ताब्द्याम् आसीत्।

छन्दोमञ्जरी इति षट्स्तबकात्मकः ग्रन्थः अस्ति। प्रथमस्तबके मङ्गलाचरणं, वृत्तपरिचयः, गणविचारः, गुरु-लघुनिर्देशः, यतिविवेकः, उक्थादिगणना इत्यादयः विषयाः सन्ति। द्वितीयस्तबके समवृत्तानां लक्षणानि सन्ति। तृतीयस्तबके अर्धसमवृत्तानां लक्षणानि सन्ति। चतुर्थस्तबके विषमवृत्तानां लक्षणानि सन्ति। पञ्चमस्तबके मात्रावृत्तानां लक्षणानि सन्ति । षष्ठस्तबके गद्यप्रकरणम् अस्ति। छन्दोमञ्जरीग्रन्थः वृत्तरत्नाकरम् अनुकरोति।

"https://sa.wikipedia.org/w/index.php?title=छन्दोमञ्जरी&oldid=434025" इत्यस्माद् प्रतिप्राप्तम्