’छोटा भीम’ इत्येषा भारतीयबालानां सजीवचित्र(animation)धारावाहिनी वर्तते या कल्पितनगरे धोलकापुरे वसतः नववर्षीयस्य भीमनामकस्य बालकस्य साहसगाथाः वर्णयति । अस्याः धारावाहिन्याः आरम्भः २००९ तमे वर्षे जातः । इयं धारावाहिनी ग्रीन् गोल्ड् अनिमेशन्-संस्थायाः उच्चकार्यनिर्वाहकस्य राजीव चिलकस्य सृष्टिः । अस्याः लेखकाः (सरणिः १, २, ३, ४, ५ – २००८-२०१३) सन्ति – राज् विश्वनाथ, अरुण् शेण्डुर्निकर्, निधि आनन्द्, सोनं शेकावत् च । अस्याः प्रसारः पोगो दूरदर्शनतः जातः । अद्यत्वे अस्याः धारावाहिन्याः १५० प्रसङ्गाः द्वादशाधिकानि चलच्चित्राणि च प्रसारितानि सन्ति । [१]

छोटा भीम
पर्यायनाम लिट्ल् भीम
विभागः हास्यम्, साहसम्
प्रविभागः पि ए एल्
आद्यप्रसङ्गः "छोटा भीम"
अन्तिमप्रसङ्गः "छोटा भीम" (करोके)
मूलदेशः भारतम्
मूलभाषा हिन्दी, तेलुगु, तमिळ्, आङ्ग्ल
कालावधिः
  • गुच्छम् 1 (2008–09)
  • गुच्छम् 2 (2009–10)
  • गुच्छम् 3 (2011–12)
  • गुच्छम् 4 (2012–13)
  • गुच्छम् 5 (2013-14)
  • गुच्छम् 6 (2014-प्रचलति)
प्रसङ्गाः

150+ प्रसङ्गाः, 10+ चलच्चित्राणि, 52 प्रसङ्गाः and 12 चलच्चित्राणि अग्रिमवर्षद्वयस्य कृते चिन्तितं २०१२ तमे वर्षेउद्धरणे दोषः : <ref> दोषपूर्णा शृङ्खला;

अमान्यं नाम, उदा. अत्यधिकम्
निर्माणम्
समयः 11 निमेषात्मकः प्रसङ्गः
निर्माणम् ग्रीन् गोल्ड् अनिमेशन्
निर्मापकः ग्रीन् गोल्ड् अनिमेशन्
प्रसारः
मूलवाहिनी पोगो
प्रसारावधिः 2008 – प्रचलति
बाह्यसम्पर्कतन्तुः
अन्तर्जालम्
निर्माणान्तर्जालम्

अचिरात् प्रसिद्धा जाता इयं धारावाहिनी भारतीय सजीवचित्रप्रदर्शनेषु प्रथमस्थानं प्राप्नोत् । [२]

अस्याः धारावाहिन्याः आधारेण निर्मितं चलच्चित्रं छोट भीम्, दम्यानस्य शापश्च (छोटा भीम् अण्ड् दि कर्स् आफ् दम्यान्) २०१२ तमस्य वर्षस्य मेमासस्य १८ दिनाङ्के लोकार्पितं जातम् । इदं अस्याः धारावाहिन्याः यशः द्योतयति । द्वितीयं चलच्चित्रं छोटा भीम् अण्ड् दि थ्रोन् आफ् बाली २०१३ तमस्य वर्षस्य ग्रीष्मकाले लोकार्पितं जातम् ।

कथावस्तु सम्पादयतु

अत्यन्तं बलशाली भीमः ग्राम्यभारते काल्पनिके धोलकपुरे वसति । अस्याः धारावाहिन्याः कथावस्तु नववर्षीयस्य बलशालिनः दृढस्य बुद्धिमतः भीमस्य विषये विद्यते । [३] भीमस्य शत्रुः अस्ति कालिय पहेल्वान्, असूयापरः दशवर्षीयः बालः यः भीमस्य प्रसिद्धिं द्विषति । कालियः धोलु-भोलु-नामकाभ्यां स्वीयसहचराभ्यां सह सर्वदा भीमं दमयितुं प्रयतते किन्तु कदापि यशस्वी न भवति । धोलकपुरस्य सर्वेऽपि बालाः भीमस्य अभिमानिनः यतः सः सर्वेषां समस्याः परिहरति । अपि च दोलकपुरस्य अन्तः बहिश्च विद्यमानान् किर्मद-कीचक-मङ्गलसिंहादयः बहवः शत्रवः तेन पराजिताः । भीमः धोलकपुरस्य राज्ञः इन्द्रवर्मणः विश्वासपात्रतां गतः, अत्रे तेन राजकुमारी इन्दुमतिः परिणीयेत इति श्रूयते । धारावाहिन्याः कथाः भीमं नायकत्वेन धोलकपुरस्य उत्तराधिकारित्वेन च प्रतिबिम्बयन्ति । महान् लड्डुकप्रियः भीमः सर्वदा लड्डुकान् खादन् गुरुत्वाकर्षणविरुद्धं साहसादिकं प्रदर्शयन् धोलकापुरं तद्वारा जगदिदं रक्षति ।

पात्रधारिणः सम्पादयतु

  • छोटा भीमः – भीमः नववर्षीयः साहसप्रियः विनोदशीलः बालः यः असामान्येन बलेन अनुगृहीतः अस्ति (अस्य पात्रस्य कल्पना महाभारतस्य भीमपात्रात् उद्धृता अस्ति) । सर्वदा विविधैः कष्टैः पीड्यमानस्य धोलकपुरस्य कृते भीमस्य असीमं बलं वरायते । अयं बालः अत्यन्तं दयालुः, दुष्टैः पीडितानाम् असहायकानां रक्षणाय स्वीयं बलम् उपयुङ्क्ते । मुग्धानां निर्धनानां प्राणिनाञ्च रक्षकः इव आचरति । सः जगद्रक्षकः भवितुम् इच्छति । भीमः आहारप्रियः, तत्रापि लड्डुकानि तस्मै नितरां रोचन्ते । लड्डुकानां खादनेन सः असाधारणीं शक्तिम् उत्साहं च प्राप्नोति । एतानि लड्डुकानि चुट्की आनीय यच्छति बहुधा । भीमस्य त्रीणि आत्मीयमित्राणि – चुट्की, जग्गु (कश्चन वानरः), राजु च ।
  • प्यारी चुट्की – चुट्की सप्तवर्षीया बालिका । इयं भीमस्य आत्मीया सखी, तदीयेषु साहसेषु साहाय्यम् आचरति । गृहसम्बद्धानि कार्याणि सर्वाणि समीचीनतया निर्वहन्ती सा अरण्ये सर्वेषां जीविनां प्रिया विद्यते, दुष्करेषु सन्दर्भेषु सा कठिना अपि भवति । ‘ब्रम्भट्टस्य शापः – द्वितीयः भागः’ इत्येतस्मिन् प्रसङ्गे सा स्वर्णाकांक्षिणी इव दर्शितम् । भीमस्य विषये तस्याः हृदयं तुदति स्म इत्यतः अन्याभिः बालिकाभिः सह भीमस्य सम्भाषणं कोपाय भवति तस्याः इति केषुचित् प्रसङ्गेषु दृश्यते । भीमस्य साहसकार्येषु सा नूतनैः उपायैः तं सहकरोति इत्येतत् ’हर्क्युल्स्’ ’नौकायां पैरेट्स्’ इत्यादिषु प्रसङ्गेषु ज्ञायते ।
  • राजु – राजुः चतुर्वर्षीयः कश्चन चतुरः उत्साही बालः यस्य आदर्शजनः भीमः । पितुः प्राप्तः तदीयः लघुकायः तस्य उत्साहं निगूहति स्म । सोपि पिता इव सेनापतिः भवितुम् इच्छति स्म (’चुट्क्याः अभिलाशः’ इत्यस्मिन् प्रसङ्गे ज्ञायते) । धनुर्विद्याप्रवीणः अयं ’अर्जुनप्रशस्तिं’ प्राप्नोत् । सः ’बलशाली राजु’ इत्यस्य चलच्चित्रस्य प्रमुखपात्रधारी विद्यते ।
  • जग्गु बन्दर – जग्गुः कश्चन सम्भाषणसमर्थः वानरः । जग्गुः तद्गणीयैः सह रामस्य साहसकार्याणी प्रदर्शयन्ति यस्मिन् सः भवति रावणः । तदीयैः उपायैः अपूर्वया हास्यप्रज्ञया च जग्गुः विशेषरीत्या समस्याः परिहरति । स्वीयगणेन अरण्यसञ्चरणे वा भवतु जनानां सहाय्याचरणे वा भवतु जग्गुः भीमश्च सर्वदा आनन्देन भवतः । वृक्षेभ्यः उत्प्लवनादीनि उपयुक्तानि तन्त्राणि भीमः जग्गुतः अभ्यसितवान् । बुभुक्षा यदा आधिक्येन बाधते तदा लड्डुकानाम् अपहरणे जग्गुः एव सर्वदा भीमस्य साहाय्यम् आचरति । धोलु-भोलु-कालियानां विनोदपीडनं तस्मै अतीव रोचते । अयम् अरण्यस्य सर्वेषां प्राणिनां रक्षकः भवितुम् इच्छति (’चुट्क्याः अभिलाशः’ इत्यस्मिन् प्रसङ्गे दृश्यते) ।
  • कालिया – कालिया पैल्वान् दशवर्षीयः बालः । लोभी सः वञ्चनामार्गेण वा धनिकः भवितुम् इच्छति स्म । तस्य उभौ मूढौ अनुयायिनौ आस्तां ढोलु-भोलु च । एतौ कदाचित् तस्य साहाय्यं कुरुतः स्तः कदाचित् तं सर्वथा निराकुरुतः स्तः । बहुधा सः आत्मानं ख्यपयति स्म यत् सः एव अत्यन्तं बलशाली उत्साही च इति किन्तु समस्यायाम् आपतितायां सत्यां सः पलायते स्म । भीमस्य पराजयम् इच्छता तेन बहुधा तदीयानां योजनानां पूर्वज्ञानं प्राप्यते स्म । कदाचित् सः भीमस्य साहाय्यमपि आचरति स्म यथा धोलकापुरस्य रक्षणावसरे ।
  • ढोलु भोलु च – ढोलु भोलु सदृशयमलौ, कालिया पैल्वानस्य अनुयायिनौ च । यद्यपि तौ न बलशालिनौ किन्तु तौ कालियस्य बलच्छायायां निवसन्तौ अन्यैः बालैः सह रूक्षतया व्यवहरतः स्म । कदाचित् तौ भीमस्य चुट्क्याः प्रभावेण कालियाविषये निष्ठां न दर्शयतः स्म । तौ यदा कालियासम्बद्धं रहस्यं अन्यत्र स्फोटयः तदा कालियेन निष्करुणं प्रहारं प्राप्नुतः स्म ।
  • कीचक – कीचकः पेहेल्वानपुरस्य मल्लः । धारावाहिन्यां सः अनन्तरकाले प्रविशति । भीमः स्वस्य अपेक्षया अधिकः प्रसिद्धः इत्यतः सः भीमाय असूयति । किन्तु भीमेन सह जातासु वृषभस्पर्धा-क्रिकेट्-हाकि-पादकन्दुकादीषु सर्वासु अपि स्पर्धानु सः भवति पराजितः । चिप्रु, मन्न, मोटु बिर्जु इत्यादयः तदीयानि मित्राणि ये तस्य साहाय्यम् आचरन्ति तेन सह दण्डनमपि प्राप्नुवन्ति । ’गर्ल्स् वर्सस् गर्ल्स्’ इत्यस्मिन् प्रसङ्गे सः मार्गदर्शकस्य साहायकस्य पात्रम् ऊढवान् किन्तु अग्रे पलायितः । ’भीमः अपरितश्च’ इत्यस्मिन् चलच्चित्रे सः भीमस्य साहाय्यं करोति ।
  • छोटा मन्नु – अयमपि पेहेल्वानपुरस्य अभिजनः । अयं कश्चन बलशाली लघुः बालः यः प्रथमवारं ’बाक्सिंग् स्पर्धा’ इत्येतस्मिन् प्रसङ्गे दृष्टः । अयं बलवान् बुद्धिमान् च । तस्य परमशत्रुः राजुः यं सर्वदा अयं पराजयते स्म । अयं कीचकस्य साहाय्यकः अपि आसीत् ।
  • राजकुमारी इन्दुमति – इन्दुमतिः ढोलकपुरस्य राजकुमारी । सा उत्तमा दयापरा च । ’गर्ल्स् वर्सस् गर्ल्स्’ इत्यस्मिन् प्रसङ्गे चुट्क्या सह सा प्रशस्तिं प्राप्नोति ।
  • राजा इन्द्रवर्मा – ढोलकपुरस्य राजा इन्द्रवर्मा । एषः इन्दुमत्याः पिता । यद्यपि सः स्वयं पराक्रमी तथापि राज्यस्य आपत्काले सः भीमस्य पराक्रमम् अवलम्बते । सर्वेषु सन्दर्भेषु सः विवेकेन व्यवहरति । हाकीक्रीडालुः सः हाकिस्पर्धायां भीमस्य विजये प्रमुखं पात्रं वहति । अस्य शत्रुः राजा चन्द्रवर्मा । ’छोटा भीम – किर्मदोदयः’ इत्यस्मिन् चलच्चित्रे ज्ञायते यत् सः अस्ति ३५ वर्षदेशीयः ।
  • ढाकु मङ्गलसिंह – मङ्गलसिंहः कश्चन लुण्ठाकः यः ढोलकापुरस्य जनान् भाययति स्म । अस्वस्थायाः इन्दुमत्याः कृते औषधसस्यानाम् आनयनावसरे भीमेन अयं हठात् गृहीतः जातः । किन्तु अचिरात् स्वीयानुयायिनां साहाय्येन पलायितः सः राजकुमारम् अपहृतवान् । परन्तु पुनः भीमेन गृहीतः । ’पूर्वशत्रवः’ इत्यस्मिन् प्रसङ्गे सः प्रत्यागत्य धनकोशम् अपहृतवान् किन्तु पुनः सः भीमेन गृहीतः । ’लोभ’ इत्यस्मिन् प्रसङ्गे सः चोरपात्रम् ऊढवान् अस्ति ।
  • धूनि बाबा – धूनी बाबा गुहायां जीवन् कश्चन साधुः । आदिमेषु प्रसङ्गेषु अयं ’बाबा बोल् बच्चन’ नामकः भस्मभूषितः सूचीनाम् उपरि ध्यायमानः जनः आसीत् । अग्रे तस्य भस्मलेपनं न दृश्यते, सः दण्डसाहाय्येन चलति स्म । सर्वज्ञः सः भीमाय तन्मित्रेभ्यश्च मार्गदर्शनं परिहारान् च यच्छति स्म । ’सूपर्-हीरोस्’ इत्यस्मिन् प्रसङ्गे सः भीमाय तन्मित्रेभ्यश्च दिनात्मकं मान्त्रिकशक्तिं प्रदत्तवान् आसीत् । ’ब्रह्मभट्टस्य शापः’, छोटा भीम कृष्णश्च’, ’ढाकु मङ्गलसिंह’, ’राजा चन्द्रवर्मा’ इत्यादिषु सर्वेषु अपि प्रसङ्गेषु अयं भीमस्य साहाय्यम् आचरितवान् ।
  • टुन्-टुन् मौशी – टुन्-टुन् चुट्क्याः माता । सा लड्डु-आपणस्य स्वामिनी । भीमः तस्याः आपणतः लड्डुकानि अपहरति इत्यतः सा सर्वदा कुपिता भवति । कालियस्य विषये अपि सा कुपिता, तं वेल्लन्या ताडयति स्म ।
  • प्रोफेसर शास्त्री धूमकेतू – ज्ञानपुरे निवसन् कश्चन संशोधकः । सर्वदा सः संशोधनसम्बद्धाभिः समस्याभिः बाधितः भवति यथा तदीयानि संशोधनानि अपहृतानि भवन्ति अथवा निष्क्रियानि भवन्ति । समययन्त्रं, उष्णवायुवाताटः, अतिवेगीद्विचक्रिया इत्यादयः तदीयाः केचन आविष्काराः । राजु तदीयानाम् आविष्काराणां दुरुपयोगं करोति । प्रोफेसर् आवि इत्यस्य स्थानं प्रोफेसर् धूमकेतुः समलङ्करोत् ।
  • बेहेन शिवानी – शिवानी भीमस्य धात्रेया । पेहेल्वानपुरे सा ’शिवान्याः डाबा’ इति नामकम् उपाहारमन्दिरं चालयति स्म । तस्याः पिता कारागृहे आसीत् यस्य मोचनाय ५०० नाणकानि तया अपेक्षितानि आसन् । किन्तु पैल्वान् डब्बु तदीयां डाबां स्वायत्तीकर्तुं प्रयतते । भीमः तस्याः सहाय्याय आगच्छति, तदीयं पितरं कारागृहात् विमोचयति च । ’ट्वेण्टि ट्वेण्टि क्रिकेट्’ इत्यस्मिन् प्रसङ्गे ’छोटा भीम – भीमः अपरिचितश्च’ इत्यस्मिन् चलच्चित्रे च सा भीमस्य गणस्य साहायिका आसीत् ।
  • आवि चाचा – एषोऽपि कश्चन संशोधकः । केषुचित् प्रसङ्गेषु अयं दृश्यते । अग्रे अस्य स्थाने प्रा.धूम् के टू आगतः ।

टिप्पणी सम्पादयतु

  1. "Chhota Bheem comes of age". DNA India. August 28, 2011. आह्रियत May 20, 2012. 
  2. "'I don't think IPL is as popular as Chhota Bheem". Rediff.com. May 17, 2012. आह्रियत May 20, 2012. 
  3. "10 Life Lessons to Learn from Chhota Bheem". Success Stories. November 30, 2013. 
"https://sa.wikipedia.org/w/index.php?title=छोटा_भीम&oldid=282195" इत्यस्माद् प्रतिप्राप्तम्