जपापुष्पम्
पुष्पेषु जपायाः विशिष्टं स्थानं विद्यते । विकसितं जपपुष्पं ध्यानमग्नमिव दृश्यते इति कारणेन अस्य नाम जपा इति अन्वर्थकम् इति कथयन्ति । कर्तितशाखायाः रोपणेनैव नूलनसस्यं वर्धते । अस्य विशेषपोषणं नापेक्षितम् । सर्वत्र अधिकप्रयासेन विना एतत् सस्यं वर्धयितुं शक्यते । अस्य मूलं –चीनादेशः इति कथ्यन्ति । अधुना भारते सर्वत्र इदं सस्यं दृश्यते । पूर्वं पादत्राणस्य कान्तिं वर्धयितुं जपापुष्पं धृष्ट्वा पादत्राणस्य संस्करणं कुर्वन्ति स्म । अतः एव ब्रिटिष् जनाः एतत् पुष्पं शू फलवर् इति आह्वयन्ति स्म । जपापुष्णाणि बहुषु वर्णेषु भवन्ति । परं केवलं रक्तं श्वेतं च औषधार्थम् उपयुक्तम् ।
जपापुष्पम्/Hibiscus rosa-sinensis | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
Hibiscus rosa-sinensis 'Brilliant'
| ||||||||||||||||
जैविकवर्गीकरणम् | ||||||||||||||||
| ||||||||||||||||
द्विपदनाम | ||||||||||||||||
Hibiscus rosa-sinensis L. | ||||||||||||||||
उपयोगाः
सम्पादयतु- १) जपा केशानाम् उत्तमं मित्रम् । रक्तपुष्पाणां पेषणशिलायां पेषणं कुर्वन्ति चेत् तत् नीललोहितं (purple) भवति । तस्य लेपनेन केशः कृष्णः भवति ।
- २) केशपतनस्य, केशश्वेतीभवनस्य समस्या अस्ति चेत् जपापुष्पाणि गोमूत्रेण पिष्ट्वा लेपनीयम् । उत्तमः परिणामः दृश्यते ।
- ३) अस्य पुष्पस्य रसस्य लेपनेन व्रणस्य रक्तस्थम्भनं भवति
- ४) अस्मिन् पुष्पे मनोह्लादकगुणः अस्ति । ते विविधमानसिक रोगान् निवारयति ।
- ५) मलेन सह रक्तगमनं, रक्तार्शः (bleeding piles), नासिकायाः , दन्तमूलात् कर्णात् च रक्तं मन्द मन्दं रक्तस्रावः हृद्रोगः , केचन मोहरोगाः –इत्येतेषु जपापुष्पम् उत्तमम् औषधम्
- ६) रक्तप्रदरे जपायाः मुकुलानि पिष्ट्वा क्षीरेण मिश्रिकृत्य पातव्यम्
- ७) जपा उत्तमः गर्भनिरोधकः इति श्रूयते । अतः ग्रामेषु गर्भिण्यः अस्य सेवनम् अल्पप्रमाणे कुर्वन्ति ।
अनेकरोगाणां पुरातनगुडेन सह जपापुष्पं रोगिभ्यः यच्छान्ति । रोगानुगुणम् इतराणि द्रव्याणि अपि योज्यन्ते । सामान्यतः ५-१० ग्रां परिमितं जपापुष्पं सेवितुं शक्यते ।
जपायां विद्यमानाः अंशाः
सम्पादयतुजपायां सारजनकं, वसा सूनं च भवति । तेन सह कयाल्सियं ४.०४% , रञ्जकं २६.६८% अयः १.६९% विटमिन् ए, विटमिन् बि च अस्ति ।