जयापीडः कविः राजा च आसीत्। जयापीडः क्रि.श सप्तमशताब्देः अन्तकाले काश्मीर प्रदेशे बभूव। मुक्तापूडललितादित्यस्य च क्रमदर्शिकायां सञ्जातो बप्पियललितादित्यापरनामा वज्रादित्योऽस्य कवेः पिता। ज्येष्ठभ्रातरं राज्यभ्रष्टं कृत्वाऽयं कश्मीरपालकः समभवत्। राजायं क्षीरस्वामिबुधाल्लुब्धशब्दशास्त्रविद्यः साहित्यचणः कविश्च भूत्वा पण्डितख्यातिमलभत। एतस्य वृत्तान्तं कल्हणस्य राजतरङ्गिण्यां वर्णितम्। एषः यद्यपि कविः इति ज्ञायते तथापि अस्य ग्रन्थः न समुपलब्धः। सुभाषितावल्यां जयापीडश्लोकोऽयं समुपलभ्यते।

पुरो रेवापारे गिरिरिति दुरारोहशिखरः
सरः सव्ये वामे दवदहनदाहव्यतिकरः।
धनुष्पाणिः पश्चातच्छबरहतको धावतितरां
न यातुं न स्थातुं हरिणशिशुरेष प्रभवति॥

जयापीडः कवीनामाश्रयदाता आसीत्। तदप्युक्तं राजतरङ्गिण्यां-

मनोरथः शङ्खदत्तो चटकः सन्धिमास्तथा।
बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः॥
"https://sa.wikipedia.org/w/index.php?title=जयापीडः&oldid=444049" इत्यस्माद् प्रतिप्राप्तम्