जातीवृक्षः
Myristica fragrans
Myristica fragrans
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Magnoliids
गणः Magnoliales
कुलम् Myristicaceae
वंशः Myristica
Gronov.

परिचयः सम्पादयतु

 
जातीवृक्षः

जाती इति सस्यं कथ्यमानम् एतत् उष्णप्रदेशस्य कश्चित् वाणिज्यफलचयः । भारतीयाहारक्रमे अनिवार्यः सम्बारः जातिफलम् । आङ्ग्लभषया Nutmeg इति कथयन्ति । कर्णाटके अन्यदेशेभ्यः अयातं कृत्वा प्ररोहणम् आरब्दम् ।

सस्यशास्त्रीयवर्गीकरणम् सम्पादयतु

जातीसस्यं मैरिस्टिकासि (Myristicaceae) इति कुटुम्बसम्बद्धं मैरिस्टिक फ्राग्रन्स (Myristica Fragrans) इति सस्यशास्त्रीयनामयुक्तम् ।

सस्यस्य गुणलक्षणानि सम्पादयतु

एषः मध्यमप्रमाणस्य नित्यहरिद्वर्णः वृक्षः । पत्राणि सामान्यतः आम्रपत्राणि इव लम्बानि भवन्ति । अतिलघुपुष्पाणि फलानि मन्दपीतवर्णितानि च भवन्ति ।

 
पक्वं जातीफलम्

फलम् सम्पादयतु

मुख्यलेखः : जातीफलम्

एतत् जातीफलम् अपि सस्यजन्यः आहारपसार्थः । एतत् जातीफलम् आङ्ग्लभाषायां Nutmeg इति उच्यते । एतत् जातीफलम् आहारत्वेन तथा औषधत्वेन अपि उपयुज्यते । आहारत्वेन उपयोगस्य समये मितिम् अतिक्रम्य न उपयोक्तव्यम् । मधुराणां भक्ष्याणां निर्माणे अस्य जातीफलस्य उपयोगः क्रियते ।

“जातीफलं सशब्दं च स्निग्धं गुरु च शस्यते । लघुकं शब्दहीनं च रूक्षाङ्गमतिनिन्दितम् ॥“

पत्रम् सम्पादयतु

मुख्यलेखः : जातीपत्रम्
“जातीपत्री कटूष्णा स्यात् सुरभिः कफनाशिनी ।
वक्त्रदौर्गन्ध्यहृद्वर्णा विषहृत् कायकान्तिका ॥“

एतत् जातीपत्रम् आङ्ग्लभाषायां Nutmeg Leaves इति उच्यते । एतत् जातीपत्रम् आहारत्वेन तथा औषधत्वेन अपि उपयुज्यते । आहारत्वेन उपयोगस्य समये मितिम् अतिक्रम्य न उपयोक्तव्यम् । मधुराणां भक्ष्याणां निर्माणे अस्य जातीपत्रस्य उपयोगः क्रियते ।

प्रयोजनानि सम्पादयतु

अस्य फलस्य भागद्वयं भवति । अन्ततः विद्यमानं बीजं बहिस्थं फलम् । फलभागस्य विपणिषु विशेषमौल्यं नास्ति । किन्तु बीजस्य तदावृतस्य गदायाः च अधिकं मौल्यं भवति । सुगन्धद्रव्यनिर्माणे आयुर्वेदीयौषधक्रमे च एतेषाम् उपयोगः अतीव भवति । अस्य फलबीजं सुगन्धितं उत्तेजकं वातहरं च भवति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=जाती&oldid=436285" इत्यस्माद् प्रतिप्राप्तम्