जालौरमण्डलम्
जालौरमण्डलं (हिन्दी: जालौर जिला, आङ्ग्ल: Jalore district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति जालौरनामकं नगरम् ।
जालौरमण्डलम् | |
---|---|
मण्डलम् | |
राजस्थानराज्ये जालौरमण्डलम् | |
Country | भारतम् |
States and territories of India | राजस्थान |
Area | |
• Total | १०,६४० km२ |
Population (२००१) | |
• Total | १८,३०,१५१ |
Website | http://jalore.nic.in |
भौगोलिकम्
सम्पादयतुजालौरमण्डलस्य विस्तारः १०६४० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तरे बाडमेरमण्डलं, पालीमण्डलं च, दक्षिणे सिरोहीमण्डलं, गुजरातराज्यं च अस्ति । अस्मिन् मण्डले ४५९.८ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अत्र सुक्री इत्येका एव नदी प्रवहति ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं जालौरमण्डलस्य जनसङ्ख्या १८३०१५१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २६.३१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५१ अस्ति । अत्र साक्षरता ५५.५८ % अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-
- अहौर
- जालौर
- भीनमाल
- रानीवाडा
- साञ्चोर
वीक्षणीयस्थलानि
सम्पादयतुअस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
- कैलाशधाम
- हनुमानमन्दिरम्
- सुन्धा मटा
- भद्रार्जुन किला
बाह्यानुबन्धाः
सम्पादयतु- Jalore district Official Website Archived २०११-१०-०७ at the Wayback Machine