टङ्कनयन्त्रं तु कश्चित् यान्त्रिकी अथवा वैद्युतयान्त्रिकी युक्तिः यस्यां कुञ्जिकाः वर्तन्ते, येषां नोदनेन माध्यमे एकस्मिन् मुद्रणं भवति, प्रायेण कर्गदे। प्रायेण एके कुञ्जिकानोदने एकं वर्णं मुद्र्यते। एतत्तु टङ्कनावयवानां मसिप्रतिबिम्बद्वारा प्राप्यते।

Mechanical desktop typewriters, such as this Underwood Five, were long-time standards of government agencies, newsrooms, and offices.
Old style Hermes typewriter with jammed typebars

१८६० तमे ख्रिष्टाब्दे आविष्कारानन्तरम् एतानि टङ्कनयन्त्राणि सर्वेभ्यः लेखनकार्येभ्यः अनिवार्योपकरणानि अभवन्। वृत्तिपरकेभ्यः लेखकेभ्यः एतानि व्यापकतया प्रयुक्तानि, अपि च कार्यालयेषु, व्यापारिकपत्रव्यवहारेषु च। १९८० तमात् ख्रिष्टाब्दात् पश्चात् बहुसु उपयोगेषु वैयक्तिकसङ्गणकानि शब्दसंसाधकानि च एतेषां स्थानं गृहीतवतः।

टङ्कनयन्त्रनिर्मापकाः प्रमुखास्तत्र समवायाः सन्ति- ई.रैमिङ्ग्टन् एण्ड् सन्स्, ऐ.बी.एम्., इम्पीरियल्-टैपरैटर्स्, ओलिवर् टैपरैटर् कम्पनी, ओलिवेट्टि,रोयल्-टैपरैटर्-कम्पनी, स्मिथ्-कोरोना तथा च अन्डर्वुड्-टैपरैटर्-कम्पनी।

Peter Mitterhofer, typewriter prototype 1864 Technisches Museum Wien
हैन्सन् राइटिंग् बॉल्, 1870, व्यावसायिकतया निर्मापितं प्रथमं टङ्कनयन्त्रम्
Christopher Latham Sholes
शोल्स् एण्ड् ग्लिडेन् टङ्कनयन्त्रस्य प्रतिरूपम्, १८७३ तमे ख्रिष्टाब्दे, प्रथमं व्यावसायिकतया सफलं टङ्कनयन्त्रं, प्रथमं च क्वर्टिनाम्ना कुञ्जिपटलेन सहितं टङ्कनयन्त्रम्।
"https://sa.wikipedia.org/w/index.php?title=टङ्कनयन्त्रम्&oldid=425601" इत्यस्माद् प्रतिप्राप्तम्