डा एन् एस् रामानुजताताचार्य



डा। एन् एस् रामानुजताताचार्यः भारतस्य आधुनिकसंस्कृतविद्वत्सु अन्यतमः । वेदान्त-मीमांसा-न्याय-व्याकरणं तथान्य शास्त्रेषु ताताचार्यमहोदयः कृतभूरिपरिश्रमः वर्तते । एतस्य ज्ञानं पुरस्कृत्य नैके प्रशस्तयः एतस्मै सप्रदत्ताः। तथा च फ्रान्स् सर्वकारेण प्रदीयमानः Cavalier of Legion D'Honneur'(कावेलिएर् लिजियन् डि होन्नेर्) पुरस्कारःअपि इदमिदानीमेव संप्राप्तवानस्ति।

महोदयस्यस्य पितुः नाम कृष्णस्वामिताताचार्यः माता राजलक्ष्मी च । तमिळनाडुराज्यस्य उत्तरार्कोटमण्डलस्य नवलपक्कंग्रामे प्राप्तजन्मा एषः अधुना 'पुदुचेरि फ्रेन्च् विश्वविद्यालये' संशोधकरूपेण कार्यं कुर्वन्नस्ति । संस्कृतमतिरिच्य तमिऴ्, तेलुगु, हिन्दी,आङ्ग्लभाषासु अपि एतस्य महोदयस्य पाण्डित्यं वर्तते ।

कृतयः सम्पादयतु

१. शाब्दबोधमीमांसा।

२. कतिपयपदानां शक्तिविचारः।

३. शाब्दबोधोपयोगिव्युत्पत्तीनां सोदाहरणं निरूपणम्।

४. तर्कसंग्रहशाब्दबोधः।

५. शाब्दबोधप्रक्रिया।

६. तात्पर्यचन्द्रिका लक्ष्मीनाथतीर्थविरचितसुबोधिनीपाण्डुरङ्गीकेशवाचार्यविरचितबृहद्गुरुराजीयराघवेन्द्रतीर्थविरचितप्रकाशव्याख्याभिरलंकृता, संपादकः पं.वीरनारायणाचार्यः पाण्डुरङ्गी, पूर्णप्रज्ञसंशोधनमन्दिरम्, बेङ्गळूरु, 2010, pp. 76+504, ISBN 976-81-910246-1-6, price 400

७. पञ्चलक्षणी सिंहव्याघ्रलक्षणे च : रघुनाथशिरोमणिकृतया दीधित्या, गदाधरभट्टाचार्यकृतया दीधितिप्रकाशिकया, डा. एन्. एस्. रामानुजताताचार्यकृतया दीधितिप्रकाशिकाव्याख्यया बालबोधिन्या च सहिता। सम्पादकः, एन्. एस्. रामानुजताताचार्यः, केन्द्रीयसंस्कृतविद्यापीठग्रन्थमाला, संख्या २६, केन्द्रीयसंस्कृतविद्यापीठम्, 1979.

८. तत्त्वचिन्तामणिः : धर्मराजाध्वरीन्द्रकृततर्कचूडामणिभूषितेन रुचिदत्तमिश्रविरचितप्रकाशेन अलङ्कृतः अनुमानखण्डस्य द्वितीयो भागः। गङ्गेशोपाध्यायविरचितः ; एन्. एस्. रामानुजताताचार्येण प्रकाशितः, राष्ट्रियसंस्कृतविद्यापीठम् 1999 राष्ट्रियसंस्कृतविद्यापीठग्रन्थमाला।

९. प्रत्यक्षतत्त्वचिन्तामणिविमर्शः : तत्त्वचिन्तामणेः प्रत्यक्षखण्डस्य तुलनात्मकमध्ययनम् : तत्त्वचिन्तामणेः प्रत्यक्षखण्डस्य शेषः। एन्. एस्. रामानुजताताचार्येण विरचितः, राष्ट्रियसंस्कृतविद्यापीठम् 1992 राष्ट्रियसंस्कृतविद्यापीठग्रन्थमाला 59.

१०. तत्त्वचिन्तामणिः : रामकृष्णाध्वरिकृतन्यायशिखामणिभूषितेन रुचिदत्तमिश्रविरचितप्रकाशेन अलंकृतः, गङ्गेशोपाध्यायविरचितः ; एन्. एस्. रामानुजताताचार्येण पाठभेदादिभिः संशोध्य संपादितः ; वे. राघवन् महाशयैः अनुगृहीतेन आमुखेन स्वलंकृतः, केन्द्रीयसंस्कृतविद्यापीठम् 1973- 1. संस्करणम् केन्द्रीयसंस्कृतविद्यापीठग्रन्थमाला 20, संख्या 33.

११. Epistemology of perception : transliterated text, translation, and philosophical commentary of Gaṅgeśa's Tattvacintāmaṇi (Jewel of reflection on the truth) : Pratyakṣa-khaṇḍa : the perception chapter, Stephen H. Philips [i.e. Phillips], N.S. Ramanuja Tatacharya, Motilal Banarsidass Publishers 2009.

बाह्यसंपर्कतन्तुः सम्पादयतु