भावनात्मक बुद्धिशक्ति:

Daniel Goleman
Yoga classes Soham Yoga

भावनात्मक बुद्धिशक्तिः साम्प्रतं वर्धमानः अन्वेषणक्षेत्रः वर्तते | विशेषतः सकारात्मक मनोविज्ञानक्षेत्रे , तस्य अन्वेषणक्षेत्रेsपि एतत् दृढम भवति - यत् विद्यौन्नत्यां , न्यूनतरम् आक्रमव्यवहारं तथा सामाजिकसम्बन्धेषु सकारात्मक प्रतिक्रियाः दृश्यन्ते भावनात्मक बुद्धिशक्तेः उपयोगः एतेषु क्षेत्रेषु संभाव्यः भवति -यथा विद्याक्षेत्रे , मानवीय सम्पन्मूल निर्वाहणम् ( अत्र अन्यैः सह सङ्घटनकार्यम् तथा सकारात्मक सम्बन्धनिर्माणम् अपि विद्यते) ; राजकीयक्षेत्रे अपि भावानानां प्रयोगः निर्णयसामर्थ्ये तथा व्यवहारे च भवन्ति ; परिवारसम्बन्धेषु अपि अस्य महत्वं दृश्यते |मेयर् तथा सालोवै - एतौ भावनात्मक बुद्धिशक्तेः मनः सृष्टिं प्रतिपादितवन्तौ - तत्पश्चात् एषा डॉनियल गोलमन् महोदयया प्रसिद्धिः प्राप्ता | मेयर् तथा सालोवै- एतत् प्रतिपादितवन्तौ यत् भावनात्मक-बुद्धिशक्तिः एक: प्रज्ञान-सामर्थ्यः भवति यः सामान्यस्य बुद्धिशक्तेः अन्यतरः भवति परम् एषः सामान्यबुद्धिशक्तेः सम्बन्धम् अपि साधयति |अस्यां प्रतिकृत्यां चतस्रः शाखाः वर्तन्ते -यथा भावनानां संवेद: , भावनात्मकी सुकरीकरणम् , भावनानाम् अर्थग्रहणम् तथा भावनानाः च अनुशासनम् |


1) भावनानां संवेद:

स्थूलाक्षरैः युक्तः भागः • भावनानाम् अभिव्यक्तेः अवचयः तथा असाधुत्वम् |

• समीचीनं तथा असमीचीनम् अभिव्यत्योः मध्ये विश्लेषणम् |

• संस्कृतेः तथा प्रसङ्गानुसारेण भावनाः कथं प्रदर्श्यन्ते इति अर्थग्रहणम् |

• भावनानां यथा उचितम् , यथा इष्टं च अभिव्यक्तिः |

• भावनानां अन्तर्गतानां संवेदनं - पर्यावरणे , संगीते तथा दृश्यकलायाः माध्यमे |

• अन्येषां जनानां भवानानां संवेदः - तेषां मुखभावेन, तेषां भाषायाः प्रयोगेन तथा तेषां व्यवहारेण कथं गृहीतुं शक्यते इति |

• भावनानां सायुज्यं - स्वस्य भौतिक स्तरे , मानसिक स्तरे तथा भावनात्मक स्तरे - एतेषु मानुषजीवनस्तरेषु |


2)भावनायाः संयोगेन चिन्तायाः सुकरीकरणम्


• पुरुषस्य प्रस्तुत भावनात्मकस्थितिम् अवलम्ब्य प्रज्ञानस्य सुकरीकरणार्थं जिज्ञासानां चयनम् |

• अन्यस्य मानवस्य अनुभूतेः अपेक्षीकरणार्थं भवनानाम् उत्पादनम् |

• निर्णयक्रियायाः तथा स्मृतेः साहाय्यं कर्तुं भवनानाम् उत्पादनम् |


3)भावनानाम् अर्थग्रहणम्


• भावनानां निरूपणे सांस्कृतिक भेदानां प्रत्यभिज्ञानम् |

• मिश्रित तथा साङ्कीर्णिक भवनानाम् अर्थस्य ग्रहणम् |

• मनोवस्थयाः तथा भावनायाः मध्ये प्रचलितस्य भेदस्य प्रत्यभिज्ञानम् |


मनोविज्ञान शास्त्र - जगति कः न जानाति डॉनियल गोलमन् महोदयस्य नाम?


डॉनियल गोलमन्


७ मार्च १९४६ तमे जन्म लेभे । अर्विंङ तथा फ़ेय् गोलमन् दम्पत्योः पुत्र: अस्ति। तस्य मातुलः अलविन् एम् वेनबर्ग आसीत्। अलविन् एम् वेनबर्ग अण्वस्त्र -भौगोलिक तज्ञः आसीत् । तस्य माता फ़य् गोलमन् सामाजिकविज्ञानस्य अध्यापिका आसीत्। स: मानसिक चिकित्सिा - शास्त्रस्य अध्ययनम् अकरोत् । स: हार्वर्ड महाविश्वविद्यालयस्य मनोविज्ञानशास्त्र- विभागात् विद्यावारिधि पदवीं प्राप्तवान् । स: भावनात्मक-बुद्धिशक्तया: पञ्चलक्षणानाम् भावनात्मकी नेतृशक्ति: , तस्याः विभिन्ना: शैलीः च , एतयोः नवीन - विचारयोः धारयोः सृष्टिकर्ता आसीत् । डॉनियल गोलमन् अनेका: प्राचीनाः पद्धतीः च अधीतवान् । तथा तासां समक्षम् उपस्थितं ध्यान – व्यवस्थायाः परमपरा:, या: हिन्दू / बौद्ध/जैन दर्शनेषु प्रखररूपेण विद्यमानाः दृश्यन्ते ; ध्यान - व्यवस्था तथा तेषां समक्षम् उपस्थितं मानसिक संतुलन - विषये उपलब्धाः विभिन्नाः अभ्यासाः – ता: सर्वा: च समग्र रूपेण अधीतवन् । विद्यावारिधिपदवीं प्राप्य तत्पश्चात् सामाजिकविज्ञान विभागत: सः एतत् अध्ययन अर्थं अनुदानम् अपि प्राप्तवान् । स्वस्य अध्ययनस्य सफलतया , परिश्रमस्य फलं इव स: प्रथमं पुस्तकम् अपि लिखितवान् । एतत् पुस्तकं स्वस्य अध्ययनस्य क्रूढीकरणं- 'ध्यानस्य जिज्ञासायाः अध्ययनम्' इति विषयम् अधिकृत्य लिखितम् अस्ति । एतत् पुस्तकार्यं, अपि च स्वस्य अन्येभ्यः लेखेभ्यः सः बह्वः पुरस्काराः अर्जितवान् ।


भावनात्मक बुद्धिशक्ति: स्वस्य भावनानाम् अर्थग्रहणं उपयोगं च तेषाम् अनुशासनं अपि सकारात्मक रीत्या कर्तुं सामर्तयं भवति। भावनानां बुद्धिशक्ति: एतेषु विश्येषु सहायं करोति । दृधानि सम्बन्धानि विद्यालये तथा कर्मभूमौ सफलता अपि च वृतिजिवने तथा आत्मन: लक्षया: च प्राप्तुम् अतिव सहायकारि भवति । योगः तथा ध्यानं भावनात्मक बुद्धिशक्ति:वर्धयत:।अस्माकं देहिक भावनानां कृते योगः साधक शास्र: भवति । आत्मस्थैर्यस्य वर्धनं तथा विश्वस्य कृते ध्यानं दातुम् अपि योगः अस्माकं सहायक: भवति। योगः स्वस्थ जीवनम् । समत्वं योगः उच्यते ।

श्रीमद्भगवद्गीता

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।

सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।। २:४८॥

"https://sa.wikipedia.org/w/index.php?title=डॉनियल_गोलमन्&oldid=473008" इत्यस्माद् प्रतिप्राप्तम्