तिरुवारूरुमण्डलम्
तिरुवारूरुमण्डलं (Tiruvarur District) (तमिऴ्: திருவாரூர் மாவட்டம்) भारतस्य तमिऴ्नाडुराज्यस्य ३२ मण्डलेषु अन्यतमम्। अस्य केन्द्रस्थानं तिरुवारूरुपत्तनम्।
तिरुवारूरुमण्डलम् திருவாரூர் மாவட்டம் | |||||||
— मण्डलम् — | |||||||
निर्देशाङ्काः | |||||||
देशः | भारतम् | ||||||
राज्यम् | तमिळ्नाडु | ||||||
उपमण्डलम् | कूडवासल्, मन्नार्गुडिः, नन्निलम्, नीडमङ्गलम्, तिरुत्तुरैपूण्डिः, तिरुवारूरुः, वलङ्गैमन् | ||||||
Collector | एस्. नटराजन्, IAS | ||||||
व्यावहारिकभाषा(ः) | तमिळ् | ||||||
---|---|---|---|---|---|---|---|
समयवलयः | IST (UTC+05:30) | ||||||
Central location: | १०°४६′ उत्तरदिक् ७९°३८′ पूर्वदिक् / 10.767°उत्तरदिक् 79.633°पूर्वदिक् | ||||||
सङ्केताः
| |||||||
जालस्थानम् | Official website of Tiruvarur District |
भौगोलिकम्
सम्पादयतुतिरुवारूरुमण्डलस्य विस्तारः २१६१ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य पूर्वभागे उत्तरभागे च नागपट्टिनमण्डलं, पश्चिमे तञ्जावूरुमण्डलम्, ईशान्ये पुदुच्चेर्याः कारैकल्मण्डलं च अस्ति । दक्षिणभागे पाक् जलसङ्क्रमः अस्ति ।
इतिहासः
सम्पादयतु१९९१ तः प्राक् तिरुवारूरुमण्डलं नागपट्टिनमण्डलं च तञ्जावूरुमण्डलस्यभागः आस्ताम् । ततः तञ्जावूरुमण्डलं त्रेधाविभक्तम् । ततः भागान् स्वीकृत्य नागपट्टिन, तिरुवारूरुमण्डले निर्मितम् । तिरुवारूरुमण्डलस्य मुख्यानि पत्तनानि तिरुवारूरुः, तिरुत्तुरैपूण्डिः, नच्चिकुळं, मुत्तुपेट्टै, मन्नार्गुडिः च।
जनसंख्या
सम्पादयतु२०११ वर्षस्य जनगणनानुगुणं तिरुवारूरुमण्डलस्य जनसंख्या १,२६८,०९४ अस्ति। भारतस्य ६४० मण्डलेषु जनसंख्या दृष्ट्या अस्यमण्डलस्य ३८२ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ५३३ (१३८० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्ह्या वृद्धेः प्रमाणं ८.४३% आसीत्। मण्डले पुं, स्त्री अनुपातः १०००:१०२०, साक्षरताप्रमाणं च ८३.२६% अस्ति।
उपमण्डलानि
सम्पादयतुतिरुवारूरुमण्डले सप्त उपमण्डलानि सन्ति । तानि-
- * कूडवासल्
- * मन्नार्गुडिः
- * नन्निलम्
- * नीडमङ्गलम्
- * तिरुत्तुरैपूण्डिः
- * तिरुवारूरुः
- * वलङ्गैमन्
वीक्षणीयस्थलानि
सम्पादयतुतिरुवारूरुः
सम्पादयतुतिरुवारूरुपत्तने श्रीत्यागराजस्वामिनः देवालयः अस्ति । इदं पवित्रं क्षेत्रं कर्णाटकसङ्गीतसम्प्रदायस्य त्रिमूर्तित्वेन ख्यातानां त्यागराज, मुत्तुस्वामिदीक्षित, श्यामशास्त्रिणां जन्मस्थानम् । अस्मिन् पत्तने प्रतिवर्षम् ‘अऴऴितेरु’ इत्याख्यः रथोत्सवः आचर्यते ।
मन्नार्गुडिः
सम्पादयतुइदं पत्तनं तिरुवारूरुतः २८ किलोमीटर् दूरे अस्ति । अत्र श्रीराजगोपालस्वामि देवालयः अस्ति । अयं देवालयः प्रथमद्वितीयकुलोत्तुङ्गचोळाभ्यां क्रिस्तीये द्वादशशतके निर्मितः । ततः सप्तदशशतके नायकराजैः अभिवर्धितः । अस्य देवालयस्य गोपुरं १५४ पादोन्नतम् अस्ति । इदं क्षेत्रं ‘दक्षिणद्वारका’ इत्यपि प्रसिद्धम् अस्ति । प्रतिवर्षं मार्च्-मासे अत्र ‘पर् पुगळुम् पङ्गुनी तिरुविऴा’ इत्याख्यः उत्सवः भवति ।
एङ्गन्
सम्पादयतुतिरुवारूरुतः १३ किलोमीटर् दूरे स्थिते अस्मिन् पत्तने मुरुगस्य देवालयः अस्ति ।
तिल्लैविलगम्
सम्पादयतुअयं ग्रामः तिरुत्तुरैपूण्डि उपमण्डले तिरुत्तुरैपूण्डितः २० किलोमीटर् दूरे अस्ति । अत्र श्रीकोदण्डरामस्वामिनः देवालयः अस्ति । श्रीवैष्णवानां पवित्रेषु अभिमानदेशक्षेत्रेषु इदम् अन्यतमम् । श्रीरामस्य देवालयस्य समीपे एव नटराजस्य मन्दिरम् अपि अस्ति।
कूतनूरुः
सम्पादयतुतिरुवारूरुतः २२ किलोमीटर् दूरे स्थिते नन्निल उपमण्डलस्य कूतनूरुक्षेत्रे सरस्वतीदेव्याः मन्दिरम् अस्ति ।
जम्बवनोदै दर्गा
सम्पादयतुतिरुत्तुरैपूण्डि उपमण्डले विद्यमानम् इदं मुस्लिमसमुदायस्य जनानां पवित्रक्षेत्रम् । इदं तिरुवारूरुतः ५३ किलोमीटर् दूरे, तिरुत्तुरैपूण्डितः २५ किलोमीटर् दूरे च अस्ति।
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये Tiruvarur (district) सम्बन्धिताः सञ्चिकाः सन्ति। |
- Tiruvarur District Archived २००६-०१-१३ at the Wayback Machine
- About Tiruvarur & Sri Thiyagaraja Temple Tiruvarur Archived २०१३-०७-१९ at the Wayback Machine
- Adiyakkamangalam Archived २०२१-०२-२७ at the Wayback Machine
- www.MyTiruvarur.com Archived २०२१-०१-२७ at the Wayback Machine