प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तेलुगुभाषा (Telugu) द्राविडभाषा परिवारस्‍य एका भाषा अस्ति । एषा दक्षिणभारते विद्यमानस्य आन्ध्रप्रदेश,तेलंगाणा राज्ययोः यानाम्(पुदुचेरी) केन्द्रशासित प्रदेशस्य च अधिकारभाषा वर्तते । इयं भाषा भारतस्य प्रान्तीयभाषासु प्रथमे स्थाने, तथा च विश्वस्तरे लोकैः भाष्यमाणासु भाषासु त्रयोदशे स्थाने च तिष्ठति । अपि च भारते राष्ट्रभाषायाः हिन्द्याः अनन्तरं द्वितीयं स्थानम् आवहति । अस्मिन् जगति उपसार्धनवकोटि (९.३२ कोटिः ) जनाः ( प्रमाणम् अपेक्ष्यते ) इमां तेलुगुभाषां भाषन्ते । ३१-१०-२००८ तमे दिनाङ्के भारतीयसर्वकारेण अतिप्राचीनासु राष्ट्रीयभाषासु संस्कृततमिलभाषाभ्यां सहैव तेलुगुभाषा अपि अन्तर्भाविता।

अन्तर्विषयाः

तेलुगु तदवलोकनं चसम्पाद्यताम्

भाषाशास्त्रकाराः तेलुगुभाषां द्राविडभाषावर्गे अन्तर्भावितवन्तः । अनेन भाषेयं भारतार्यभाषा-वर्गस्य भाषा न भवति, यत्र हिन्दी, संस्कृतं, लाटिन्, ग्रीक् इत्यादिभाषाः वर्तन्ते । तेलुगुभाषा तु तमिल, कन्नड, मलयाल, तोड, तुळु, ब्रहुयी इत्यादिभाषाभिः सह द्राविडभाषावर्गे स्थानमाप्नोति । तेलुगुभाषा “मूलमध्यद्राविडभाषा” तः समुद्भूता अस्ति । अस्मिन् भाषाकुटुम्बे तेलुगुभाषया सार्धं कुयी, कोय, कोलमी इत्यादिभाषाः अपि सन्ति ।

साम्प्रतं षड्विंशतिः (२६) द्राविडभाषाः व्यवहारे उपयुज्यमानाः सन्ति । तत्र प्राग्दिशि कूरसा मान्तो च भाषे, वायव्यदिशि पाकिस्तानस्य बलूचिस्तने ब्रहूयी भाषा, दक्षिणदिशि च तेलुगु- तमिल- कन्नड- मलयालादयः भाषाः सन्ति । केषाञ्चन भाषावैज्ञानिकानां विश्वासः यत् आर्यभाषाणां भारतस्य प्रवेशात् प्रागेव द्राविडभाषाः आ भारतं व्याप्य स्थिताः आसन् इति । यद्यपि सिन्धुनागरिकाणां भाषाविषये निर्दिष्टप्रमाणानि नोपलभ्यन्ते, तथापि तत्रत्या भाषा द्राविडा एव इति वक्तुं सम्भवः अधिकः इति भाषाविदाम् अभिप्रायः । तेलुगुभाषा इतरभाषापदानि सुलभतया स्वीकरोति । तेलुगुसाहित्ये संस्कृतस्य प्रभावः महान् एव अवलोक्यते । संस्कृतस्य यावान् प्रभावः तेलुगुभाषायाम् अस्ति, न तावान् अन्यस्याः भाषायाः अस्ति । वस्तुतः तेलुगुलिप्यां विद्यमानाः अनेके वर्णाः, विशिष्य महाप्राणव्यञ्जनानि (aspirated) संस्कृतनिमित्तं केवलं लिप्यां स्वीकृतानि । “उत्तमं संस्कृतोच्चारणं कोस्तान्ध्राप्रान्तस्य पण्डितानां मुखात् श्रोतुं शक्यम्” इत्यत्र न कापि अतिशयोक्तिः वर्तते । वैदिककर्मणां विधानार्थम् अन्यरज्येभ्यः अत्रत्यानां वेदपण्डितानां विशेषाह्वानं भवति स्म इति प्रसिद्धिः वर्तते । तेलुगुभाषायाः संस्कृतस्य च सम्बन्धः अतीव निकटः इत्यतः तेषाम् उच्चारणं स्फुटं भवति इत्यत्र नास्ति अतिशयः । अद्यापि तेलुगुभाषायां संस्कृतपदानि बाहुल्येन अवलोकयितुं शक्यानि । संस्कृतभाषाप्रभावः भारतीयासु सर्वास्वपि भाषासु वर्तते एव । परन्तु तेलुगुभाषाम् अवलोकयामः चेत् संस्कृतं तस्याः मातृमूर्तिः इति प्रतिभासते । यतो हि तदीयम् उच्चारणं भावश्च संस्कृतमेव स्मारयतः ।

यथा संस्कृतभाषा तेलुगुसाहित्यप्रपञ्चे किञ्चन शाश्वतं स्थानम् आक्रान्तवती, तथैव पारशीक (पर्षिया) – उर्दूपदानि अपि कार्यनिर्वाहकपदबन्धेषु विलसन्ति । ब्रिटिषाणां परिपालनप्रभावात्, साङ्केतिकान्दोलनवशात् च अद्य यौ कावपि द्वौ तेलुगुजनौ परस्परम् एकनिमेषकालात् अधिकम् आङ्ग्लपदरहितां वार्तां कर्तुं न शक्नुतः इति नास्ति सत्यदूरम् । भारते निवासेन स्थिरतां गतः प्रमुखः जन्यु (genetic) शास्त्रज्ञः जे.बि.एस्. हाल्डेन् महाशयः कस्मिंश्चित् सन्दर्भे अवदत् – “भारतस्य राष्ट्रियभाषास्थानम् अलङ्कर्तुं तेलुगुभाषायाः अपेक्षिताः सर्वाः अर्हताः सन्ति” इति । अस्य कथने न वर्तते आश्चर्यस्य किमपि स्थानम् ।

यद्यपि आन्ध्रीयाणाम् आङ्ग्लभाषायां रुचिः अधिका वर्तते तथापि भाषाशास्त्रपरतया, संस्कृतिपरतया, व्याकरणपरतया च द्वयोः भाषयोः मध्ये महदन्तरं विद्यते । तेलुगुवाक्यनिर्माणं कर्ता, कर्म, क्रिया इत्येतेन क्रमेण प्रचलति । आङ्ग्लवाक्येषु तु कर्ता, क्रिया, कर्म इति क्रमशः आयान्ति । अतः आङ्ग्लभाषिणः तेलुगुपदपङ्क्तिषु व्युत्क्रमताम् अनुभवन्ति । भावाभिव्यक्तीकरणविषये तेलुगुभाषा विश्वभाषाभिः सह स्पर्धतेतराम् । अत्युत्कृष्टक्रमेण सुव्यवस्थीकृतासु अत्यल्पसङ्ख्याकासु च विश्वभाषासु तेलुगुभाषा अन्यतमा अस्ति । तेलुगुव्याकरणम् अत्यन्तं सरलं, निर्माणपरतया अतीव शुद्धं च भवति । अत्रत्यः सर्वोऽपि विषयः स्वरेण एव परिसमाप्तिं(अजन्त भाषा) याति इत्यतः इयं भाषा सङ्गीतपरतया सङ्गीतकाराणां प्रियतमा वर्तते । विशिष्य कर्णाटकसङ्गीतस्य नैकाः कृतयः तेलुगुभाषायाम् एव सन्ति । त्यागराजः, भद्राचलरामदासः, क्षेत्रय्यः, अन्नमाचार्यः च इत्यादयः स्वकीयकृतिरचनया सङ्गीतक्षेत्रे तेलुगुभाषां सुसम्पन्नताम् अगमयन् । नवदशशताब्दीयाः यूरोपीयाः तेलुगुभाषाम् इटालियन् आफ् दि ईस्ट् ( Italian of the East ) इति आख्यातवन्तः । तेलुगुभाषायाः ( अन्यभारतीयभाषाणां च ) प्रमुखः विषयः नाम सन्धिः । तत्र द्वयोः पदयोः अत्यन्तं संनिहिततया उच्चारणात् नवीनं तृतीयं पदम् आविर्भवति ।

इतिहासःसम्पाद्यताम्

यथा अन्यद्राविडभाषाणाम् आविर्भावकालसम्बन्धीनि प्रमाणानि समुपलभ्यानि सन्ति, न तथा तेलुगुभाषायाः मूलान्वेषणाय सन्तृप्तिकराणि, निर्णेयाणि च प्रमाणानि लभ्यन्ते । तथापि क्री.श. प्रथमशताब्द्यां शातवाहनराजैः सृष्टे “गाथासप्तशती” इत्यस्मिन् महाराष्ट्रीयप्राकृतगद्य- सङ्कलने सर्वप्रथमं तेलुगुपदानि अदृश्यन्त । अतः तेलुगुभाषाभाषिणः शातवाहनवंश्यराजानाम् आगमनात् पूर्वं कृष्णागोदावरीनदीभ्यां मध्यभूभागे निवसन्ति स्म इति निर्णेतुं शक्यते । तेलुगुभाषायाः मूलपुरुषाः यानादयः । पुरातत्त्वपरिशोधकानां दृष्ट्या तेलुगुभाषायाः २४०० वर्षाणां प्राचीनता वर्तते ।

आदिमद्राविडभाषाणां चरित्रादिकं क्रीस्तोः पूर्वं कतिचनशताब्दीनां पृष्ठतः ज्ञातुं शक्यते । परन्तु तेलुगुभाषाचरित्रं क्री.श. षष्ठशतब्दीतः विद्यमानप्रमाणैः निर्णेतुं साध्यम् । तेलुगुभाषायाः सर्वप्रथमम् अतीव स्फुटं च प्राचीनशिलाशासनं सप्तमशताब्द्याः वर्तते । शासनेषु उपलब्धम् आदिमं तेलुगुपदं “नागबु” इति पदम् । क्री.श. एकादशशताब्दीतः ग्रन्थस्थीकृतं स्पष्टं तेलुगुभाषाचरित्रम् अवलोकयितुं शक्यते ।

तेलुगु, तेनुगु, आन्ध्रम् - एतेषां त्रयाणां पदानां मूलस्य, तन्मध्ये स्थितस्य परस्परसम्बन्धस्य च विषये चरित्रकाराणां भिन्नाभिप्रायाः सन्ति । क्री.पू. ७०० तमे वर्षे ऋग्वेदस्य ऐतरेयब्राह्मणे प्रथमतया “आन्ध्र” इति पदं जातिवाचकत्वेन प्रयुक्तम् । अतः अस्माकं ज्ञानानुसारम् इयमेव प्रचीनतमा प्रस्तुतिः । ततः पश्चात् बौद्धशासनेषु अशोकचक्रवर्तिनः शासनेषु च आन्ध्रीयाणां प्रस्तुतिः आसीत् । क्री.पू. चतुर्थशताब्द्यां मेगस्तनीसः इति ग्रीकराष्ट्रदूतः “आन्ध्रीयाः महासैनिकबलसम्पन्नाः” इति अवर्णयत् ।

आन्ध्रीयैः भाष्यमाणायाः भाषायाः आन्ध्रं, तेलुगु, तेनुगु इत्याख्याः सन्ति । केषाञ्चन अभिप्रायोऽयं यत् आन्ध्रं तेलुगु इत्येतत् पदद्वयं भिन्नजातिद्वयम् इति, कालक्रमेण च तद्द्वयं सम्मिलितं जातम् इति । परम् अस्याभिप्रायस्य जन्युशास्त्रपरतया भाषाशास्त्रपरतया वा सबलानि प्रमाणानि नोपलभ्यन्ते । वैदिकवाङ्मयानुसारेण आन्ध्रीयाः नाम साहसोपेता सञ्चारजातिः । भाषाशास्त्रदृष्ट्या तेलुगुभाषा कृष्णागोदावर्योः नद्योः मध्यभागे निवसतां स्थिरवासिनां भाषा वर्तते । यस्मिन् प्रान्ते तेलुगु भाषा भाष्यमाणा आसीत् तत् प्रान्तम् आदौ अन्ध्रराजैः पालितम् इत्यतः आन्ध्रं, तेलुगु इति द्वे पदे समानार्थवचके सञ्जाते इति केषाञ्चित् अध्याहारः । दशमशताब्द्याः पारशीकचरित्रकारः श्रीमान् अल्बरूनिः तेलुगुभाषाम् “आन्ध्री” इति अभ्यवर्णयत् । क्री.श. १००० तमवर्षात् पूर्वशासनेषु वङ्मये वा “तेलुगु” इति शब्दः कुत्रापि न दृश्यते । एकादशशताब्द्याः आरम्भतः ’तेलुङ्गु भूपालुरु’, ’तेल्गरमारि’, ’तेलिङ्गकुलकाल’, ’तेलुङ्ग नाडोलगण माधविकेरिय’ इत्यादीनि पदानि शासनेषु प्रयुक्तानि । एकादशशताब्द्यां नन्नयभाट्टारकस्य काले तेलुगुशब्दस्य रूपान्तरत्वेन “तेनुगु” इति शब्दः व्यवहारपथमागतः । त्रयोदशशताब्द्यां महम्मदीयचारित्रकाः एतं देशं “तिलिङ्ग्” इति व्यवहृतवन्तः । पञ्चदशशताब्द्याः पूर्वभागे विद्वान् विन्नकोट पेद्दन्नः स्वकीये काव्यालङ्कारचूडामणौ आन्ध्रदेशं त्रिलिङ्गनाम्ना व्यपदिष्टवान् ।

श्रीशैलं, कालेश्वरं, द्राक्षारामः च इत्येतेषां त्रयाणां शिवलिङ्गक्षेत्राणां मध्ये विद्यमानः भूभागः त्रिलिङ्गदेशः इति तच्च “त्रिलिङ्ग” इति पदं गच्छता कालेन “तेलुगु” इति रूपान्तरं प्राप्नोत् इति एकः पक्षः । अन्यच्च गाम्भीर्यप्रकाशनार्थमेव “त्रिलिङ्ग” इति संस्कृतीकृतमिति, तेलुगु इति पदं तु प्राचीनरूपमेव इति चरित्रकाराणाम् अभिप्रायः । द्वादशशताब्द्यां पाल्कुरिकि सोमनाथः “नवलक्षतेलुङ्गु” इति अर्थात् नवलक्षग्रामैः विस्तीर्णः तेलुगुदेशः इति वर्णितवान् । निष्कर्षः अयमेव यत् तेलुगु, तेनुगु, आन्ध्रम् इति त्रीणि पदानि भाषायाः जातेश्च पर्यायवाचकत्वेन स्वरूपं प्राप्नुवन् ।

भाषास्वरूपम्सम्पाद्यताम्

स्वराःसम्पाद्यताम्

Vowels - acchulu (అచ్చులు)
అ (अ) ఆ (आ) ఇ (इ) ఈ (ई)
ఉ (उ) ఊ (ऊ) ఋ (ऋ) ౠ (ॠ)
ఌ (लृ) ౡ (लॄ) ఎ (ए१ ) ఏ (ए२)
ఐ (ऐ) ఒ (ओ१) ఓ (ओ२) ఔ (औ)
అం (अं) అః (अः)

व्यञ्जनाक्षराणिसम्पाद्यताम्

तेलुगु व्यञ्जनोच्चारणपट्टिका [१]
Prayatna Niyamāvali कण्ठ्याः तालव्याः मूर्धन्याः दन्ताः दन्तौष्ठः औष्ठ्याः
, tenuis క (क) చ (च) ట (ट) త (त) - ప (प)
Plosive, aspirated ఖ (ख) ఛ (छ) ఠ (ठ) థ (थ) - ఫ (फ)
Plosive, voiced గ (ग) జ (ज) డ (ड) ద (द) - బ (ब)
Plosive, breathy voiced ఘ (घ) ఝ (झ) ఢ (ढ) ధ (ध) - భ (भ)
Nasal ఙ (ङ) ఞ (ञ) ణ (ण) న (न) - మ (म)
Liquid - య (य) ర (र) (Rhotic)
ళ (ळ) (Lateral)
ల (ल) (Lateral)
ఱ (Ra) (Trill)
వ (व) -
Fricative హ (ह) శ (श) ష (ष) స (स) - -

शब्दःसम्पाद्यताम्

तेलुगु अजन्तभाषा, अर्थात् प्रायः सर्वोऽपि तदीयशब्दः स्वरेणैव अन्ततां याति । इदम् अवलोक्य एव (१५) पञ्चदशशताब्द्याम् इटलीदेशीययात्रिकः श्रीमान् निकोलो डा काण्टी तेलुगुभाषां “प्रागिटलीयभाषा” (Italian of the East) इति अभिवर्णितवान् । तेलुगुभाषा साधारणतया तत्रत्यपदानि अन्यपदैः साकं संमिलितानि भवन्ति इति परिगण्यते । अत्र नामवाचकस्य तदावश्यकतानुसारम् अन्यानि विशिष्टाक्षराणि संयोज्यन्ते । व्याकरणदृष्ट्या तेलुगुभाषायां कर्ता कर्म क्रिया इत्येतानि त्रीणि क्रमशः एकस्य अनन्तरम् एकम् इति क्रमेण वाक्येषु प्रयुज्यन्ते ।

सङ्ख्यासङ्केताःसम्पाद्यताम्

0
0

भाषायाः माण्डलिकाःसम्पाद्यताम्

अङ्कति, आन्ध्र, बुडबुक्कल, डोक्कल, चेञ्चु, एकिडि, गिडारि, बेरादि, दासरि, दोम्मर, गोलारि, कम्मरि, कामादि, काशिकापिडि, कोडुव, मेदरि मालबास, मातङ्गि, नगिलि, पद्मसालि, जोगुल, पिच्चुकुण्ट्ल, पामुल, कोण्डारेड्डी, तेलङ्गाणा, तेलुगु, सगर, वडग, वडरि, वाल्मीकि, यानादि, बगट, श्रीकाकुलं, प्राग्गोदावरी, पश्चिमगोदावरी, रायलसीमा, नेल्लूरु, गुण्टूरु, मद्रासु (वडुग), ओरिस्सा (बडग), बञ्जारा (लम्बाडी) इत्यादयः ।

लिपिःसम्पाद्यताम्

यथा अन्यभारतीयभाषालिपयः तथैव तेलुगुभाषालिपिः अपि ब्राह्मीलिपितः समुद्भूता । अशोकचक्रवर्तिनः काले मौर्यसाम्राज्यस्य सामन्तराजाः शातवाहनाः दक्षिणभारतं प्रति ब्राह्मीलिपिं समानयन् । अतः कारणादेव सर्वाः अपि दक्षिणभारतीयभाषाः यद्यपि मूलद्राविडभाषातः समुद्भूताः तथापि तत्तद्भाषायाः लिपयः तु ब्राह्मीतः एव समजायन्त । अशोककालीनायाः ब्राह्मीलिप्याः एव रूपान्तरं भट्टिप्रोलुलिपिः । ततः एव तेलुगुलिपिः समुद्भूता । बौद्धाः वर्तकाश्च तेलुगुलिपिम् आग्नेयासियाप्रान्तेभ्यः प्रदत्तवन्तः । इयमेव लिपिः तत्र मान्, बर्मीस्, थाय्, ख्मेर्, काम्, जावनीस्, बालिनीस् इत्यादिभाषाणा, लिपिसमुद्भवे कारणं जाता ।

तेलुगुलिपिः प्रायशः उच्चारणयोग्यैः एकाक्षरैः युक्ता भवति । अपि च वामतः दक्षिणं प्रति सरलाक्षरसरणियुता भवति । एवम् उच्चारणयोग्यानाम् एकाक्षराणाम् आधिक्येन अक्षराणि अचः (स्वराः) हलः (व्यञ्जनानि) चेति प्रधानप्रमाणानि समधिष्ठितानि सन्ति । व्यञ्जनानां स्वरूपं तत्तत्प्रयोगदृष्ट्या सन्दर्भानुसारेण परिवर्तमानं भवति । स्वररहितानि व्यञ्जनानि शुद्धानि परिगण्यन्ते । अथ च व्यञ्जनानां लेखनाय पठनाय च तत्र “अ” इत्यस्य स्वरस्य निवेशनं सम्प्रदायः । तेलुगुभाषायां वाक्यं पूर्णविरामेण अर्धविरामेण वा समाप्यते । संख्यानाम् अभिज्ञानार्थं यद्यपि तेलुगुभाषायां पार्थक्येन सङ्केताः वर्तन्ते, तथापि अरबिक्-संख्यासङ्केताः एव विस्तृततया, सर्वसाधारणतया च उपयुज्यन्ते । एवं तेलुगुभाषायां (१६) षोडश स्वराः, (३) त्रयः विशिष्टस्वराः, (४१) एकचत्वारिंशत् व्यञ्जनानि च सन्ति । आहत्य (६०) षष्टिः लिपिसङ्केताः वर्तन्ते ।

तेलुगुसाहित्यम्सम्पाद्यताम्

तेलुगुभाषासाहित्यं षट्सु युगेषु वर्गीकर्तुं शक्यते । यथा-

क्री.श. १०२० पर्यन्तम् – नन्नयकवेः पूर्वतनकालःसम्पाद्यताम्

(११) एकादशशताब्दकाले नन्नयविरचितं “श्रीमदान्ध्रमहाभारतं” तेलुगुभाषायाः सर्वप्रथमं साहित्यकाव्यमिति सर्वत्र वदन्ति । सपदि एव एतावत् बृहत्तरं परिपक्वं च महाकाव्यं समुद्भूतम् इति तु सर्वथा अनूह्यम् । अतः एतस्मात् पूर्वमपि योग्यं साहित्यं स्यादेव । प्रायः तत् साहित्यं ग्रन्थरूपतां न गतं स्यात् । अथवा अस्माभिः न उपलभ्येत । ततः पूर्वतनं साहित्यं बाहुल्येन जानपदरूपेण स्थितं स्यात् इत्यत्र अस्ति कश्चन सम्भवः । परं तद्विषये उपलभ्यमानं प्रमाणं सर्वथा शून्यम् । क्री.श. ५७५ तमवर्षस्य रेनाटिचोलानां शासनमेव आदिमं तेलुगुशासनम् ( कडपजिल्लायाः कमलापुरतालुकायाः एर्रगुडिपाडुग्रामे उपलब्धम् ) । ततः पूर्वकालसम्बद्धे अमरावतीशासने “नागबु” इति पदं दृश्यते ।

क्री.श. १०२० – १४०० – पुराणयुगम्सम्पाद्यताम्

युगमिदं नन्नययुगमिति वक्तुं शक्यते । नन्नयः आन्ध्रीयः आदिकविः । अयं च महाकविः श्रीमन्महाभारतं तेलुगुभाषया अनूदितुम् उद्युक्तः सन् तत्रत्यम् आदिमं पर्वद्वयं परिसमाप्य तृतीयं ( अरण्यपर्व ) च अर्धं यावत् विलिख्य पञ्चत्वं गतः । नारायणभट्टः नन्नयस्य सहायत्वेन अतिष्ठत् । नारायणभट्टः वाङ्मयदुरन्धरः अष्टभाषाकविशेखरः च । सहाध्यायिनौ नारायणनन्नयभट्टौ भारतयुद्धाय सन्नद्धौ कृष्णार्जुनौ इव महाभारतान्ध्रीकरणाय कृतसङ्कल्पौ भारतं विज्ञानसर्वस्वम् इति समुद्घोषयितुं प्रयत्नम् आरब्धवन्तौ । ततश्च तेलुगुकाव्यभाषास्वरूपस्य परिपूर्णतां सम्पाद्य पण्डितैः पामरैश्चापि श्लाघनीयां शैलीम् आरचय्य उत्तरोत्तरकवीनां मार्गदर्शकौ सञ्जातौ । आन्ध्रभाषाचरित्रे नन्नयनारायणभट्टौ युगपुरुषौ । एतौ तेलुगुभाषायाः कञ्चन मार्गं निर्दिष्टवन्तौ । अनयोः अनन्तरकवयः सर्वेऽपि तद्यदा नन्नयमार्गम् अनुसृतवन्तः एव । नन्नयकालानन्तरं मुख्यानि सामाजिकधार्मिकसंस्करणानि अभवन् । वीरशैवस्य भक्तिमार्गस्य च प्राबल्यवशात् नैकानि काव्यानि प्रादुरभूवन् । तिक्कनः (१३ शतब्दीयः ) एर्रणः ( १४ शतब्दीयः ) च भारतान्ध्रीकरणम् अनुवर्तितवन्तौ । नन्नयप्रदर्शितमार्गेण असंख्याकाः कवयः पद्यकाव्यानि व्यरचयन् । तत्र विद्यमानेषु अधिकानि पुराणानाम् आधारेण एव लिखितानि ।

क्री.श. १४०० – १५०० – (मध्ययुगम् श्रीनाथयुगम्)सम्पाद्यताम्

अस्मिन् काले संस्कृतकाव्यानां नाटकानां च अनुवादः अन्ववर्तत । कथाकाव्यानि अपि समुदितानि । “प्रबन्धः” इति काव्यप्रभेदः अस्मिन्नेव काले समजनि । श्रीनाथः, पोतनः, जक्कनः, गौरनः च इत्यादयः अस्मिन् काले सुप्रख्याताः कवयः आसन् । छन्दश्शास्त्रं च महतीं परिणतिं गता । श्रीनाथस्य शृङ्गारनैषधम्, पोतनस्य श्रीमद्भागवतम्, जक्कनस्य विक्रमार्कचरितम्, ताल्लपाक तिम्मक्कायाः सुभद्राकल्याणम् इत्यादीनि युगस्यास्य प्रमुखानि काव्यानि आसन् । सन्दर्भेऽस्मिन् रामायणकवीनां प्रस्तुतिः अपि शक्यते । गोन बुद्धारेड्डिविरचितं “रङ्गनाथरामायणम्” एव अस्मत्प्राप्तम् आदिमं रामायणम् ।

क्री.श. १५१० – १६०० – (प्रबन्धयुगम्)सम्पाद्यताम्

विजयनगरसाम्राज्यस्य चक्रवर्तिनः श्रीकृष्णदेवरायस्य समादरवशात् (१६) षोडशशताब्द्यां तेलुगुसाहित्यस्य स्वर्णयुगं विकसितम् । स्वयं कविः महाराजः “आमुक्तमाल्यदा” इति स्वकीयरचनया “प्रबन्धः” नाम काव्यप्रभेदं समुपास्थापयत् । अस्य कालस्य अतीव प्रमुखैः “अष्टदिग्गजकविभिः” महाराजास्थानं नितारां समशोभत ।

क्री.श. १६०० – १८२० – (दाक्षिणात्ययुगम्)सम्पाद्यताम्

कर्णाटकसङ्गीतस्य नैके विद्वांसः तदीयं साहित्यं तेलुगुभाषया एव अरचयन् । तादृशप्रसिद्धेषु विद्वत्सु त्यागराजः, अन्नमाचार्यः, क्षेत्रय्यः, रामदासः च इत्यादिवाग्गेयकाराः अन्यतमाः सन्ति । मैसूरुवासुदेवाचार् इत्यादयः आधुनिकरचयितारः अपि स्वरचनानां माध्यमत्वेन तेलुगुभाषाम् एव स्वीकृतवन्तः ।

क्री.श. १८२० अनन्तरम् – आधुनिकयुगम्सम्पाद्यताम्

यद्यपि १७९६ तमे वर्षे एव मुद्रितस्य तेलुगुग्रन्थस्य विमुक्तिः सञ्जाता, तथापि तेलुगुसाहित्यस्य पुनरुद्धरणं तु (१९) नवदशशताब्द्याः आरम्भे साध्यम् अभूत् । (१९) नवदशशताब्द्याः मध्यकाले षेल्ली, कीट्स्, वर्ड् वर्त् इत्यादिपाश्चात्यकवीनां कविताभिः नितरां प्रभाविताः युवकवयः “भावकवित्वम्” इत्यस्य विनूत्नस्य प्रणयकविताप्रभेदस्य आविष्कारम् अकुर्वन् ।

External linksसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=तेलुगु&oldid=367002" इत्यस्माद् पुनः प्राप्तिः