तैत्तिरीयसंहिता
तैत्तिरीयसंहितायाः प्रसारः दक्षिणभारते अस्ति । अांशिकरूपेण महाराष्ट्रप्रदेशः समग्ररूपेण च आन्घ्रद्रविडदेशीयाः अस्याः शाखायाः अनुयायिनः सन्ति। अस्याः संहितायाः स्वकीयाः ब्राह्मण-आारण्यक-उपनिषद्-श्रौतसूत्र-गृह्यसूत्रप्रभृतयः अक्षुण्णाः सन्ति । तैत्तिरीयसंहितायाः परिमाणमपि न्यूनं नास्ति । आचार्यसायणस्य इयं स्वकीया शाखाऽऽसीत् ।
भाष्यम्
सम्पादयतुशुक्लयजुर्वेदे वर्णितविषयाणामिव अस्याः विषयाः सन्ति। पौरोडाश-याजमान-वाजपेय-राजसूयप्रभृतिनानायागानुष्ठानानां विशदं वर्णनमत्राप्यस्ति । यज्ञस्य मुख्यस्वरूपस्य निष्पादकत्वेनास्याः संहितायाः विद्वत्तापूर्णभाष्यं सर्वप्रथम् आचार्यसायणेन लिखितम् । किञ्च तस्मादपि पूर्वतरं भाष्यं भट्टभास्करमिश्रस्य ( एकादशशताब्द्याः) समुपलब्धं भवति । ज्ञानयज्ञनाम्ना भाष्यमिदं विख्यातमस्ति। अधियज्ञार्थादतिरिक्तः आध्यात्मिकाधिदैविकपक्षयोरपि मन्त्राणामर्थो भाष्ये यत्र तत्र कृतोऽस्ति ।