प्रमुखा विकल्पसूचिः उद्घाट्यताम्
अथ्लेटिक्स्
Pole vault
Pole Vault Sequence 3.jpg
An athlete in the middle of the vaulting phase
पुरुषाणां विक्रमाः
विश्वस्तरे Renaud Lavillenie फलकम्:T&Fcalc (2014)
ओलिम्पिक्-क्रीडायाम् Renaud Lavillenie फलकम्:T&Fcalc (2012)
महिलानां विक्रमाः
विश्वस्तरे Yelena Isinbayeva फलकम्:T&Fcalc (2009)
ओलिम्पिक्- क्रीडोत्सवे Yelena Isinbayeva फलकम्:T&Fcalc (2008)

अन्तर्विषयाः

ऐतिहासिकी पृष्ठभूमिःसम्पाद्यताम्

 
वंशकूर्दनक्रीडा

आदिकालिका मानवा वनेषु विचरन्तो यदा कदा सङ्कटापन्ने पथि वर्तमाना आत्मनो रक्षार्थं वंशशाखादीनां साहाय्येन कूर्दित्वा रक्षणं प्राप्नुवन् । मार्गावरोधकान् कण्टकिनो गुल्मान गार्तान् स्वल्पजल-प्रवाहान् पल्वलान् वा वंशादीनां साहाय्यादेव पारयन्तस्ते कूदाविदौ नैपुण्यमलभन्त । परम्पराप्रक्रियया वर्धमानमे तत् कूदनं कला रुपमधारयत् । पुरातने काले वंशस्य प्रयोगः प्रलम्बकूर्दने ततोऽप्याधिक्यमानेतुं तथाऽवरोधेम्यः समुत्तर्तुं क्रियते स्म् । इत्यमेव प्रारम्बिकीषु प्रतियोगितासु वंशकूर्दनस्य प्रचलनं तलीयप्रलम्बतावर्धनाय विधीयते स्म न तून्नतकूर्दनाय ।

 
वंशाकूर्दनम्

सन् १८७७ तमे वर्षेऽमेरिकादेशे सर्वप्रथमं 'वंशकूर्दनं’ विशेषयोग्यताप्रतियोगितायां समावेशितम् । ब्रिटिशजना वंशकूर्दनकलायामेकस्याः नवीनायाः प्रक्रियायाः प्रचलनमकार्षुर्या 'वंशारोहण' नाम्ना सम्बोध्यते स्म । सन् १६८० तमे वर्षेऽमेरिकादेशेनापि प्रक्रियेयं स्वीकृता । पूर्वं वन्यप्रदेशे वंशं सन्त्रोट्य तस्यैकं भागं तीक्ष्णं विधाय प्रयुञ्जन्ति स्म् कालान्तरेण तस्याः प्रक्रियाया विकासः समजायत । १६२४ तमे वत्सरे विश्वक्रीडोत्सवे वंशेऽपि परिवर्तनमभूत तथा १६६२ तमे वर्षे विश्वक्रीडासु 'फाइवर ग्लास पोल' नामकस्य विशिष्टरीत्या निर्मितस्य वंशखण्डस्य प्रयोग आदृतः ।

कीर्तिमानानां श्रृङ्खलापि क्रमशो वृद्धिं श्रितवती । सन् १८७७ तमे हायने 'जीमेनी कोल' नामकः कूर्दकः ६ फीट ७ इञ्चमितस्योच्चैः कूर्दनस्य कीर्तिमानमस्यापयत्, परं क्रमशस्तदवृद्धिमापन्नं सदद्य १८ फीटमितेन मानेन कूर्दन- विधौ यशस्वितां भजते ।

वंशकूर्दनप्रक्रियायाः अष्टौ भागाःसम्पाद्यताम्

नियमैः परिपुष्टे वंशकूर्दने साम्प्रतं यावदनेके प्रकाराः आवैष्कृताः परीक्षणपूर्वकं परिष्कृताश्च । भूयो भूयो निरीक्षणेन परीक्षणेनानुभवेन च साध्ये सिद्धिरुपैति।’ तदनुसारमेवेदानीमधो निर्दिष्टा अष्टौ भागा निर्धारिता विद्यन्ते ।

१. वंशस्य ग्रहणं तथा वंशग्रहणपूवकं धावनम्,
२. धावनमार्गः, परिक्षणचिह्नदानं तथैतेषां मध्ये धावनस्य गतिः,
३. वंशस्य गर्ते निखातनं तथा हस्तयोरपसारणम्,
४.पादस्योच्छलनबिन्दौ स्थापनमुच्छलनप्रयासश्च,
५. उच्चैर्दोलनं तथोच्चैरुत्यानम्,
६. शरीरस्य वलनं तथा पदयोः कर्तरीविधानम्,
७. ऊर्ध्व-प्रक्षेपणमथ यष्टेः पारं गमनम्,
८. वंशत्यागस्तथा भूमावागमनम् ।

एतासां क्रियाणां क्रमिकः परिचयश्चेत्थं वर्तते -

वंशस्य ग्रहणं तथा वंशग्रहणपूर्वकं धावनम्सम्पाद्यताम्

सामान्यतः कूर्दक उल्लङ्घन-यष्टेर्निकटं गत्वा तदीयोच्चतासमानोच्चतावन्तं वंशं गृहणाति । तदा हस्तावाकर्षणरहितौ कूर्परावीषदवलितौ मणिबन्धावङ्गुल्यश्च सरला भवन्ति । स वंशं गृहीत्वा धावनारम्भस्थाने (यतः कूर्दनाय धावनारम्भो भवति तत्र गच्छति । तत्रोल्लङ्घनयष्टिमभितो मुखं विधाय तिष्ठति । तस्य दक्षिणो हस्तः पूरणतया पृष्ठे तथा वंशः शरीरस्य दक्षिणपार्श्वे भवति । कॄर्दकः स्वीयेन वामहस्तेन वंशं तथा गृहणाति येन ह्स्तः शरीरेण संलग्नो भवेत् । कूर्परः ६ अंशैर्वलितो हस्तयोरन्तरं च प्रायः २, १२ फुटमितं भवति । वामो हस्तः स्फिचः ६-६" दूरे भवति । वामहस्तस्याङ्गुष्ठो वंशस्याधोभागं तथाऽङ्गुल्य ऊर्ध्वभागं गृह्णन्ति । वंशस्यान्तिमो भागो नेत्रयोः पुरस्तिष्ठति । कूर्दकस्य वपुः सर्वथा वलनरहितं, स्कन्धौ विकर्षणहीनौ तथा धावनमार्गस्य समानान्तरशलिनौ भवतः ।

धावनमार्गःसम्पाद्यताम्

धावनकूर्दकस्य गतिग्रहणक्षमतायां निर्भरति । सामान्यतस्त्रिविधा जना लभ्यन्ते ये गति-ग्रहणे भिन्नं सामर्थ्यं धारयन्ति । यथा -

(१) केचन विलम्बेन गतिं गृह्णन्ति,
(२) केषाञ्चिद् गतिर्मध्याश्रेणीका भवति,
(३) अन्येऽतिशीघ्र गतिमात्मसात् कुर्वन्ति । एतेषां त्रिविधानामपि कूर्दकानां कृते पृथक्-पृथक् प्रकारवन्तौ धावनमार्गा भवन्ति । यथा -

(१) प्रथमस्थितिकः कूर्दकोऽधिकं दूरतो धावनमारभते । तस्मै चरण क्रमणान्यधिकान्यपेक्षन्ते । २-८-१० चरण-क्रमण विधिस्तदर्यमुचितो मन्यते । शीघ्र गतिप्रापकाय २-६--८ तथाऽन्यस्मै ४-६-८ पदक्रमणविधिरुचितो भवति ।

धावनप्रारम्भायोभावपि पादौ संयोज्य वंशं शरीरस्य समक्षं द्वाभ्यां हस्ताभ्यां गृहीत्वा दक्षिणं हस्तं कूर्पराद् मनाग् वलयित्वा च सज्जः सन् कूर्दकः प्रथमं चरणक्रमणमुच्छलनवता पादेन कुरुते । धावनं सामान्यं भवति, तस्मिन् कस्या अप्यतिरिक्तायाः शक्तेरावश्यकता न स्वीक्रियते । प्रारम्भिकेषु चतुः क्रमणेषु वंशो नीचैरागन्तुं प्रवर्ततेऽन्तिमसञ्चरणस्य पूर्तेः पूर्वमेव वंशो गर्ते निपात्यते । अन्त्यं क्रमणं किञ्चिद लघु भवति यतः शरीरस्य भारो वंशस्थोपरि गमनाय सहाय्यं करोति । यदोच्छलनशीलः पादः पृथ्व्या उच्छलति तदा सर्वतः प्रथमं वंशोपरि निम्नभागीयो हस्तो दक्षिणहस्तस्य निकटेऽपसार्यते ।

द्वितीयं कार्यं (यत् तदानीं क्रियते) द्वयोरपि हस्तयोर्मस्तकोपर्युत्थापने तथा कूर्परयोः प्रायः ६० अंशे वलनमस्ति । हस्तयोरिदं वलनं भूमेः प्राप्तस्योत्पतनस्याघातं समाप्तुं शक्नोति ।

हस्तयोरग्रेऽपसारणम्सम्पाद्यताम्

हस्तयोरग्रेऽपसारणं तथा वंशस्य निश्चिते गर्ते स्थापनं युगापदेव भवतः । अस्मिन् विधौ कूर्दकः स्वस्य पूर्वाभ्यासस्य वैशिष्टयेनैव नितरां साफल्यमावहति ततस्तदीयोत्पतनं च कीर्तिप्रदं भवति ।

पादस्योच्छलनबिन्दौ स्थापनं तयोच्छलनम्सम्पाद्यताम्

उत्तमोच्छलन-प्राप्तये भूमौ चरणस्य पूर्णतया निपतनमावश्यकं विद्यते । जानुरिषद् वलितो भवति । पादस्य भुमौ निपतनेन सहैव शीघ्रं पादतलं भुवं स्पृशति । समीचीनोच्छलनोपलब्धये समुच्छलनवतः पादस्य पार्ष्णिस्तलं च वंशस्य पुरः पूर्णतया स्थिते स्याताम् । एतेन साकमेव पादस्थथा हस्तस्य ग्रहणविधिर्यः सर्वत उच्चैर्भवेद, एकस्यां रेखायां भवेताम् । वंशो गर्ते तथा निपात्येत यतो यद्यूर्धव तनाद ग्रहणस्थलाद् वंशस्य पुरत एका रेखा दीयेत चेत् सा समुच्छलनवतः पादस्य पार्ष्णि यावद् गच्छेत् । अनेके कूर्दका अत्र कट्याः पृष्ठभागे वलन्ति तथा मस्तकं पृष्ठभागं प्रति नमयन्ति ।

उच्चैर्दोलनम्सम्पाद्यताम्

इदं कार्यं जानोग्रे तथोर्ध्वभागं प्रत्युच्छलनविधानेन सम्पाद्यते । शीघ्रमेव वामः पादोऽपि दक्षिणपादस्य निकटे दोलयित्वाऽऽयाति किञ्चात्यल्पाय कालाय द्वावपि पादौ समानौ भवतः । उभावपि हस्तौ यौ वंशस्य गर्ते स्थापनकाले ६० अंशोपरि वलितावभूतां पूर्णतया वलतः । शरीरं हस्ताभ्यां न दोलायतेऽपि तु स्कन्धाभ्यां दोलायते ।

स्फिचौ विकर्षणरहितौ भव्तस्तथा ते मध्ययष्टेर्निकटतो गच्छतः येन सन्तुलनस्यार्धव्यासो न्यूनो भवेत् तथा गतिवृर्द्धि यायात् । तदानीं जानुनी वक्षः प्रति वेगेनोत्याप्येते येन गतिरधिकं वर्धते । इदं दोलनं हस्तयोर्निकटे शरीरकर्षणात् पूर्वमेव समाप्यते परं दोलनस्य तथा हस्ताभ्यां शरीरविकर्षणामध्ये तारतम्यं यथावत् स्थिरं भवति ।

उपर्युत्थानम्सम्पाद्यताम्

दोलनसमाप्त्यनन्तरं ययैव वंशः पृथ्व्यां लम्ब्तो भवति हस्तयोः शक्ति शालिना विकर्षणेनोपर्युत्यानमारभ्यते । शरीरमुपर्युत्थानमपि करोति तथाऽग्र ऊर्ध्वं दोलनमपि विधाय तिष्ठति । इयमुपर्युत्थानस्य क्रीया तावन्न विधीयते यावत् कबन्धः स्कन्धयो रेखायां नोपयाति । अस्याः क्रियायाः काले जङ्घे जानुनी च विकर्षणरहिता भवन्ति परन्तूल्लङ्घनयष्टेरुत्तरणात् पूर्वमेते सरला जायन्ते ।

शरीरस्य वलनं तथा पदयोः कर्तरीनिर्माणम्सम्पाद्यताम्

वामः पादो यो जानोर्वलितो भवति, शक्त्या सरलो भवति तथाऽग्रतो निम्नतां प्रति दोलां जनयति । एतस्य परिणतिरुपेण वामा स्फिग् वलति वामपादस्य प्रक्षेपाद दक्षिणा स्फिगपि पुरतो नीचैरागच्छति । एवं समग्रोऽपि कबन्धो वलति तथा कूर्दकः पूर्णतया हस्तयोरुपरि स्थितो भवति । वंशोऽधुनापि लम्बित एव तिष्ठति येन शक्तिशाली प्रघात ऊर्ध्वभागं प्रति भवितुं शक्नोति ।

ऊर्ध्व प्रक्षेपणम्सम्पाद्यताम्

उभयोर्हस्तयोः शक्तिपूर्वकं पूर्वरुपेण सरलीकरणं तथा कबन्धस्य कटयाश्च यष्रुटेपरितनभागाद् द्वितीयभागे नयनं सर्वथा सहैव चलतः । अस्मिन् विधौ यष्ट्युल्लङ्न्, वंशविसर्जनम्, भूमाववतरणक्रियाश्च क्रमशो भवन्ति । तद्विषयेऽपि सामान्यत इमे नियमाः पालनीयतामर्हन्ति -

यष्टयुल्लङ्घनम्सम्पाद्यताम्

यथैव हस्ताभ्यामूर्ध्वगतये प्रघातो मिलेत् तदा वंशकूर्दकः स्वीयं कबन्धमुच्चैरुन्नयेत् । यदा पूर्णरुपेण हस्तोत्यानस्थितिरागच्छेत तदा पादौ कबन्धस्योर्ध्वभागान्नीचैर्नयेत् पादौ च हस्तयोर्ग्रहणस्य रेखायामध आनयेत् तदैव हस्तवुपरि गन्तुं प्रघातयतः । अनया रीत्या मध्ययष्टिकाया उल्लङ्घनए सौविध्यं भवति स्पर्शादयो दोषाश्च नागच्छन्ति ।

वंशविसर्जनम्सम्पाद्यताम्

हस्ताभ्यां गृहीतस्य वंशस्य विसर्जनं क्रोडकेन द्वाभ्यां पद्धतिभ्यां क्रियते । यथा-

(क) एकेन करेण त्यागस्तथा
(ख) द्वाभ्यां कराभ्यां त्यागः ।

कूर्दको यदि वंशविसर्जनमेकेनैव ह्स्तेन अर्तुमीहेत् तदा वामहस्तेन पूर्वं विसृजेत् तथा दक्षिणहस्तेनान्तं यावद् शक्तिं योजयेत् । अन्ते सव्यहस्तोऽप्यूर्ध्वभागात् पृष्ठभागं प्रति दोलायितो भवेत् । द्वाभ्यामपि हस्ताभ्यां वंशत्यागविधौ हस्तेनान्तिमोच्छलन- समकालमेवोभावपि करौ वंशात् पृथक् कर्तव्यौ । बहवः कूर्दनकुशलाः स्वीयं शरीरं वामतो वर्तयन्ति तथाऽन्ये केचन भूमौ धावनमार्ग प्रति मुखं कुर्वन्ति ।

भूमाववतरणम्सम्पाद्यताम्

वंशोत्प्लावको यदा वंशं हस्ताभ्यां पृथक् कुर्यात् तदा तस्य ध्यानं नीचैरागमनं प्रति भवेत् । तस्य समग्रमपि कूर्दनकर्म साधुरीत्या सम्पत्स्यते तदा स सारल्येन सुखेन च भूमाववतरीतुं प्रभविष्यति तथा शरीरस्य प्रसरादवतरणस्य गतिर्मन्दतां गमिष्यति ।

वंशकूर्दने विशिष्य ध्यातव्यानिसम्पाद्यताम्

वंशग्रहणकाले धावनकाले चसम्पाद्यताम्

कूर्दको वंशमधिकोन्नतस्थलान्न धारयेदन्यथा वंशेन सह लम्बवद्वेगसम्पादने स क्षमो न भविष्यति । वंशस्यातिनिम्नभागाद् ग्रहणेन यष्टिकोल्लङ्घने काठिन्यं भवति कठोरतया ग्रहणेन च धावने शरीरस्यापि कम्पनं जायते ।

धावनमार्गेसम्पाद्यताम्

समुचितगत्यभावात् तथा परिक्षणचिह्नानामस्पष्टतया त्रुटयो भवन्ति ताः परिहरेत् ।

वंशस्य गर्ते निक्षेपकालेसम्पाद्यताम्

स्वाद्देश्यं ज्ञात्वा लक्ष्यं च ध्यात्वा वंशं गर्ते निक्षिपेता तथा धावनेन सह तस्य साम्यमवधारयेत् ।

हस्तापसारणकालेसम्पाद्यताम्

समुचितोप्त्लुतिप्राप्तये स्वाभिलपितपरिणतये च नियतसमयानुसारमपेक्षितानुपातेन हस्तमपसारयेत्

पादस्थापने समुत्प्लवनग्रहणे चसम्पाद्यताम्

यथोचितरीत्या नाधिकं नन्यूनं न पृष्ठे न वाऽऽधिक्येनाग्रे पादं न्यसेत ।

ऊर्ध्वेत्थानकालेसम्पाद्यताम्

सवेगमुत्यानम्, अपूर्णमुत्थानं, सन्तुलनरहितमुत्यानं शिथिलमुत्थानं च वर्जयेत् ।

उच्चैर्दोलनसमयेसम्पाद्यताम्

हस्तयोर्मांसपेशीनामनुचितं विकर्षाणं, सम्यक्त्वहीनमुत्थानं तथा वंशतो दूरे दोलनं न विदद्यात् ।

शरीरस्य वलनकालेसम्पाद्यताम्

पदयोः कर्तरीबन्धनकाले च सन्तुलनपूर्वकं वामपादेन कर्तरीं विधाय दक्षिणं पादमुन्नमयेत् ।

उपर्युच्छलनग्रगणकालेसम्पाद्यताम्

हस्त्योर्वलनमुच्छलनात् पूर्वं न कुर्यात् । शरीरोच्छालनापेक्षया स्कन्धयोरुच्छालनेन शक्तिं प्राप्नुयात् ।

इत्यमियं वंशकूर्दनकलासाम्प्रतिकेषु क्रीडाविनोदेषु महत्वं धारयन्तो प्राचीनान् प्रकारानप्यावर्जयति । अस्यां भूयांसो विकल्पा अपि यथा -समयमुत्पद्यन्ते परं तैरस्याः कलाया उत्कर्ष एव सिद्धयति । यतो हि -

विना धावनं कूर्दनं नैव लोके, भवेत् क्रीडनं साधु साफल्यदायि । अतः क्रीडकः साधयित्वाऽत्र् दाक्ष्यं, ततः सञ्चरेन्निर्भयं क्रीडनाय ॥

आधारःसम्पाद्यताम्

अभिनवक्रीडातरङ्गिणी

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=दण्डकूर्दनम्&oldid=282585" इत्यस्माद् पुनः प्राप्तिः