दारा सिङ्ग

भारतीय अभिनेता

दारासिङ्गः (१९२८ नवेम्बर् १९ - २०१२ जुलै १२) प्रसिद्धः मल्लयुद्धप्रवीणः अभिनेता च । १९५२ तमे वर्षे सः अभिनयम् आरब्धवान् । अयं प्रथमः क्रीडापटुः यः भारतीयजनतापक्षेण राज्यसभासदस्यत्वेन २००३ तमस्य वर्षस्य आगस्ट्मासतः २००९ तमस्य वर्षस्य आगस्ट्मासपर्यन्तं नियुक्तः आसीत् । सः हिन्दी-पञ्जाबभाषयोः चलच्चित्रक्षेत्रे निर्माकत्वेन, निर्देशकत्वेन, कथालेखकत्वेन च कार्यम् अकरोत् । सः भारतीयदूरदर्शने अपि अभिनयम् अकरोत् ।

दारासिङ्गः
दारासिङ्गः

बाल्यम् सम्पादयतु

दारासिङ्गस्य बाल्यनाम दीदारसिङ्गरन्ध्वा । तस्य पिता सूरतसिङ्गः, माता बलवन्तकौर् । दारासिङ्गः १९२८ तमे वर्षे नवम्बर्मासस्य १९ दिनाङ्के ब्रिटिश्-पञ्जाबराज्ये धर्मुचक्नामके ग्रामे जातः । अधुना अयं ग्रामः अमृतसरमण्डले विद्यते ।

मल्लयुद्धक्षेत्रे सम्पादयतु

युवकः दारासिङ्गस्य औन्नत्यम् आसीत् ६' २", भारः १३० किलोपरिमितः । वक्षस्स्थलं ५० इञ्च्परिमितञ्च आसीत् । तस्य पुष्टकायं दृष्ट्वा सः मल्लयुद्धपटुः भवतु इति 'अखाडा'नामिकां मल्लयुद्धशालां प्रेषितः सः । मल्लयुद्धं सम्यक् अभ्यसितवान् अयम् अत्युत्तमः मल्लयुद्धपटुः जातः । सः अन्ताराष्ट्रियस्तरे प्रसिद्धिं प्राप्तवद्भिः मल्लयुद्धपटुभिः सह युद्धं कृत्वा जयं प्राप्तवान् अयम् । तेन पराजयम् अनुभूतवत्सु पसिद्धमल्लपटुषु अन्यतमाः सन्ति - किङ्ग्कार्ड् (आस्ट्रेलिया), जार्जगोर्डिको (केनडा), जान् डिसिल्व (न्यूझिलेण्ड्) च । पञ्चशते मल्लयुद्धस्पर्धासु जयं प्राप्य अयं विश्वविक्रमं निर्मितवान् । अनेन रुस्तुम्-ए-पञ्जाब्, रुस्तुम्-ए-हिन्द् इत्यादयः प्रशस्तयः प्राप्ताः । १९५९ तमे वर्षे कामन्वेल्त्-प्रवीणः जातः । १९६८ तमे वर्षे विश्वप्रवीणः जातः । १९८३ तमे वर्षे मल्लयुद्धक्षेत्रात् निवृत्तः जातः ।

अभिनयक्षेत्रे सम्पादयतु

१४० चलच्चित्रेषु अभिनीतवान् दारासिङ्गः तेषु ५८ चलच्चित्रेषु नायकपात्रधारी आसीत् । ११९ हिन्दीचलच्चित्रेषु २१ पञ्जाबीचलच्चित्रेषु च अभिनीतवान् अस्ति । तेन ७ चलच्चित्राणां निर्देशनं कृतमस्ति । षट्सु दूरदर्शनधारावाहिनीषु अभिनीतवान् अस्ति । रमानन्दसागरेण निर्दिष्टे 'रामायण'धारावाहिन्यां तेन अभिनीतं हनुमत्पात्रं चिरस्मरणीयम् । तेन 'दाराचलच्चित्रस्टुडियो' निर्मितम् ।

"https://sa.wikipedia.org/w/index.php?title=दारा_सिङ्ग&oldid=474981" इत्यस्माद् प्रतिप्राप्तम्