प्रमुखा विकल्पसूचिः उद्घाट्यताम्

दार्जिलिङ्ग् चायम् इति किञ्चन चायविशेषं भारतस्य पश्चिमवङ्गरज्यस्य दार्जिलिङ्गमण्डले वर्ध्यते । विविधप्रकारेषु दार्जिलिङ्ग् चायम् उपलभ्यते कृष्णं, हरितं, श्वेतं, चूर्णं चेति । क्वथनसमये मितसौरभः वर्णश्च अस्य चायस्य वैशिष्ट्यं [१]

दार्जिलिङ्ग् चायम्
Nice Cup of Black Tea.jpg
प्रकारभेदः-साधारणतः कृष्णवर्णयुतं विक्रियते

अन्यनामानि-दि शेम्पेन् (Champagne) आफ् टीस्
उत्पत्तिः-दार्जिलिङ्ग्, भारतम्

संक्षिप्तवर्णनम्Fruity, floral, astringent

भारते वर्धमानानाम् अन्यचायानाम् (आसमचायादीनि) अपेक्षया दार्जिलिङ्ग् चायपत्राणि लघुनि भवन्ति । पारम्परिकरूपेण दार्जिलिङ्ग् चायपत्राणि कृष्णचायस्य(black tea) निर्माणार्थम् उपयुज्यते । यद्यपि दार्जिलिङ्ग्, चायचूर्णं हरितचायञ्च अधिकप्रसिद्धं, सुलभतया च प्राप्यते । अस्मिन् प्रदेशे श्वेतचायस्य कृषिः अपि लाक्षणिकरूपेण वर्धमाना अस्ति । भारतसर्वकारेण प्रसिद्धस्थानीयवस्तूनां संरक्षणाय २००३ तमे वर्षे विधिः(पञ्जीकरणं तथा संरक्षणविधिः, Registration & Protection Act, 1999) रचिता । २००४-०५ वर्षयोः GI tag प्राप्तवस्तुषु दार्जिलिङ्ग् चायमेव प्रथममासीत् ।[२]

इतिहासःसम्पाद्यताम्

 
श्रमिकाः चायपत्राणि संगृह्य आनयन्तः सन्ति (१८९० क्रै सं)

१८४१ तमे वर्षे आर्थर् केम्बेल्(Arthur Campbell) इति जनैकेन दार्जिलिङ्गप्रदेशे चायकृषेः आरम्भम् अकरोत् इति प्रसक्तिः[३] आर्थर् केम्बेल्-महोदयः भारतीयवैद्यकीयसेवायाः (Indian Medical Service) संस्थायाः शल्यचिकित्सकः आसीत् । १८३९ तमे वर्षे तस्य उद्योगस्य स्थानानन्तरं काठमाण्डुतः दार्जिलिङ्ग् प्रति जातम् । १९४१ तमे वर्षे सः कुमायुन्-प्रदेशतः चीनदेशीयानि चायबीजानि कृषिपरीक्षणार्थं दार्जिलिङ्ग् आनीतवान् ।[४] तदोत्तरसमये (१८४७ क्रै सं) ब्रिटिश्-सर्वकारेणापि प्रायोगिकरूपेण दार्जिलिङ्गप्रदेशे चायकृषेः वर्धनं कृतम् । यद्यपि वाणिज्यिकरूपेण अस्य उत्पादनं १८५० अनन्तरमेव जातम् ।[५] दार्जिलिङ्ग् टी कम्पानी इत्येतया संस्थया १८५६ तमे वर्षे आलुबाडि चायोद्यानस्य उद्धाटनं कृतम् ।[४] उत्तरकालेषु अन्याभिः बहुसंस्थाभिरपि अत्र चायोद्यानानि उद्घाटितानि ।[५][६]


उल्लेखाःसम्पाद्यताम्


"https://sa.wikipedia.org/w/index.php?title=दार्जिलिङ्ग्_चायम्&oldid=358382" इत्यस्माद् पुनः प्राप्तिः