प्रसिध्दो बोध्ददार्शदिको दिङ्नाग कुन्दमालायाः रचयिता । कश्चिदन्यो वा तत्समनामा विद्वानिति सन्देहे प्रसिध्दस्य बौध्ददार्शनिकस्य रामकथामाश्रित्य नाटकप्रणयने प्रवृत्तिर्न सम्भवतीति कश्चिदन्यः एवायमबौध्दो ग्रन्थकार इति समाधानं पर्याप्तम् । कुन्दमाला– प्राणेता दिङ्नाग – नाम्ना धीरनाग- नाम्ना व स्मर्यते । महीशूर (गन्र्द्मदृध्दड्ढ् ) नगरे कुन्दमालाया यत् पुस्तकमासादितं तत्र दिङ्नागः इति नाम प्रस्तावनायां लिख्यते । तञ्जोर–प्राप्तपुस्तकावसाने च 'धीरनाग' इति नाम दृश्यते । प्रथमः प्रस्तावनागतो नामनिर्देशः, अपरश्च ग्रन्थान्तागतो नामनिर्देशः । तत्र प्रथमो लेखो ग्रन्थकर्त्तुः सम्भवति, द्वितीयश्च कस्यचिल्लेखकस्यापि । प्रथमे दिङ्नाग इति नाम, द्वितीये धीरनाग इति । अनयोः प्रस्तावनागतलेखस्य ग्रन्थकृल्लेखत्वेनाधिकप्रामाणिकतया संस्कृत साहित्ये दिङ्नागनाम्नः प्रसिध्दतया च कुन्दमाला प्रणेता दिङ्नाग एवेति वक्तुं शक्यते ।

कुन्दमालायाः कविताकोटिःसंपादित करें

कुन्दमालायां कवेः शैली नितान्तसरसा सरला च । अत्र न दीर्घसमासं वाक्यं प्रयुक्तम्, न वाऽप्रचलितानां शास्त्रमात्रप्रयुक्तानां शब्दानां समावेशो दृश्यते । प्रसादगुणस्य सर्वत्रादरोऽस्याः कृते परां शोभा समुत्पादयति । दृश्यताम् –

                       लङ्केश्वरस्य भवने सुचिरं स्थितेति
                                रामेण लोकपरिवादभयाकुलेन
                        निर्वासितां जनपदादपि गर्भगुर्वीं
                                    सीतां वनाय परिकर्षति लक्ष्मणोऽयम् ॥

दिङ्नागस्य कालनिर्णयःसंपादित करें

बौद्धदर्शनस्य प्रधानाचार्यो नैयायिकप्रवरः श्रीदिङ्नागो न्यायभाष्यस्य खण्डनं विदधानो यदा नैयायिक-वैशेषिकप्रभृति विदुषां घोषणां विहित वांस्तदानीन्तनकालावच्छेदेन न्यायवात्तिककारः श्रीउद्योतकारोऽपराभिधानः श्रीभारद्वाजो वा तदुत्तरस्वरूपं न्यायसूत्रोपरि वात्तिकनिर्माणं तटीकाकार्यं कृतवान् । यस्या वात्तिकस्वरूपटीकायाः प्रारम्भे एवोद्योतकरो दिङ्नागं कुतार्किकत्वेनाऽऽख्यातवान् ।

वस्तुतो बौद्धाचार्य-दिङ्नागं कुतार्किकत्वेन ख्याति प्रापयिता चास्ति 'तात्पर्य' टीकाकारः श्रीषड्दर्शनाचार्यो वाचस्पतिमिश्रः, स एव चात्र प्रमाण भूतः प्रभूतः पुरुषः ।

यतो वात्तिककारः स्वीयग्रन्थस्य प्रयोजनवत्तां दर्शयन् भूमिकायां सुस्पष्टं समुल्लिखितवान्-'कुतार्किकाऽज्ञाननिवृत्तिहेतुः' अर्थात् दूषिततर्कानाश्रित्य कुता किकजनैयरा विस्तारिताऽज्ञाननिवृत्तिहेतुभूतं प्रभूतं टीकाभूतं ग्रन्थं लिखितवान् इति स स्वयं ब्रूते स्वीकरोति च । तत्र च 'कुताकिक' पदेन दिङ्नागप्रभृतयो बौद्धाचार्या गृह्यन्ते, तेषामज्ञाननिवृत्तिहेतुरिति तु फलितार्थः । ।

अन्यच्चेदमप्यस्ति यत्-न्यायवात्तिकारः 'अहो कौशलं भदन्तस्य' 'कोऽन्योभदन्ताद् वक्तुमर्हति' अपि च–'सौत्रान्तिकपक्षमाश्रित्य लक्षणं विचार्यते' इदञ्च समुल्लिखितवान् ।

एवं षड्दर्शनाचार्यश्रीवाचस्पतिमिश्रो 'दिङ्नागमतं खण्डयति' तथा 'वसुबान्धवलक्षणं खण्डयति' एभिः सुलेखैः प्रतीयते यत् वात्तिककारः श्रीउद्योत करो भरद्वाजो वा भदन्त, सौत्रान्तिक, दिङ्नागप्रभृतिबौद्धदार्शनिकानां पश्चात् कालीनाः सन्ति ।

यतः सुबन्धुबाणो बसुबन्धोः समुल्लेखं स्वीये ग्रन्थे 'वासवदत्ता' नामके कृतवान् । अनेन सुस्पष्टं विज्ञायते यत् वसुबन्धुर्बाणस्य पूर्वकालीन आसीत्, एवं बाणस्य समयः सप्तमशताब्द्याः पूर्वभागोऽङ्गीकृतो वर्तते इति सर्वेऽपि विदाकुर्वन्ति ।

तथा एतेषां सर्वेषामेव पश्चात्कालीनो वात्तिककारो बभूव । अत एतत् पौर्वापर्यक्रममाश्रित्यैवेदं सुनिश्चीयते यद् वात्तिककारस्य जन्मकालो याथायन षणीशताब्दी प्रतीयते । अन्यच्च वात्तिककार उद्योतकरो वा भवेद् भरद्वाजा वा स तत्कालस्य योगी आसीत् ।

बौद्धदर्शनस्य खण्डनमेवाऽस्य वात्तिककारस्य जीवनस्य चरमं लक्ष्यमासीत्, तस्यैव च खण्डनेनाऽयं स्वीयस्य जीवनस्य साफल्यं मन्यमान आसीदित्याप सर्वथा सुनिश्चितमेवेति भावः ।  

बाह्यसम्पर्कतन्तुःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=दिङ्नागः&oldid=458083" इत्यस्माद् प्रतिप्राप्तम्