दीपाकर्मकारः
दीपाकर्मकारः (जन्म - ९ अगस्त १९९३) एका भारतीयकलात्मिका जिम्नाष्टिक् अस्ति । सा २०१६ तमस्य वर्षस्य ग्रीष्मकालीन ओलम्पिकक्रीडायां भारतस्य प्रतिनिधित्वं कृतवती । सा प्रथमा भारतीया महिला जिम्नास्ट् अस्ति । या ओलम्पिक-क्रीडायां भागं गृह्णाति तथा ५२ वर्षाणाम् अनन्तरं ओलम्पिक-क्रीडायां भागं गृहीतवती । सा द्वितीया भारतीया जिम्नाष्ट् अस्ति ।
प्रारम्भिकजीवनं तथा आजीविका
सम्पादयतुइयं दीपाकर्मकारः भारतस्य त्रिपुराराज्यस्य राजधानी अगरतालानगरस्य निवासिनी अस्ति | सा ६ वर्षे एव जिम्नास्टिकं आरब्धवती । तस्मिन् समये स्वस्य प्रशिक्षकस्य 'विश्वेश्वरनन्दी' इत्यस्य मार्गदर्शने अभ्यासं कृतवती। जिम्नास्टिककक्षायां पञ्जीकरणसमये दीपा समतलपादैः(फ्लाट् फीट्) पीडिता आसीत् । प्रशिक्षिकस्य मतेन दीपायाः समतलपादयोः कारणेन कूर्दने समस्या आसीत् । एतस्य निराकरणं तयोः कृते एकलक्ष्यपूर्णं कारणम् आसीत् । सा २००७ तमे वर्षे जलपैगुडीनगरे 'जूनियर नेशनल्' इति स्पर्धायां विजयं प्राप्तवती । २००७ तमे वर्षात् आरभ्य दीपा राज्य-राष्ट्रीय-अन्तर्राष्ट्रीय-स्पर्धासु ७७ पदकानि प्राप्तवती, तेषु ६७ स्वर्णपदकानि सन्ति । [१]
२०१६ ओलम्पिक
सम्पादयतुदीपा २०१६ तमे वर्षे ग्रीष्मकालीन ओलम्पिकक्रीडायां भारतस्य प्रतिनिधित्वं कृतवती । सा प्रथमा महिला जिम्नास्ट् अस्ति या कस्याम् अपि ओलम्पिक-क्रीडायां स्पर्धां करोति ।
एतासु ओलम्पिकक्रीडासु सा अन्तिमचक्रपर्यन्तं गतवती । अन्तिमपर्याये सा चतुर्थस्थानं प्राप्तवती । परन्तु एकसाधारणान्तरमध्ये (०.१५० ) रौप्यपदकात् च्युता अभवत् । अद्यपर्यन्तं विश्वे केवलं पञ्च जिम्नास्ट्-क्रीडकाः एव कठिनप्रतियोगितायां प्रदुनोवा- बोल्ट्-क्रीडायां सफलतां प्राप्तवन्तः । तथैव एषा अपि प्रदुनोवा-बोल्ट्क्रीडायां सफलं प्रदर्शनं कृतवती । यद्यपि सा किमपि पदकं न प्राप्तवती तथापि एषा उपलब्धिः सम्पूर्णे भारते सा प्रसिद्धा अभवत् । सचिन तेण्डुलकरमहोदयः तस्याः विषये अवदत् यत् - " विजयः पराजयश्च क्रीडायाः भागः अस्ति । कोटिजनानाम् हृदयं जित्वा भवत्याः उपलब्धिभिः समग्रं राष्ट्रं गर्वितं कृतवती इति ।'
सेवानिवृत्तिः
सम्पादयतु२०२४ तमे वर्षे अक्टोबर्-मासस्य ९ दिनाङ्के सा जिम्नास्टिक-क्रीडायाः स्वस्य निवृत्तिः घोषणां कृतवती । [२]
आधारः
सम्पादयतु- ↑ "Tripura's Dipa Karmakar says she is aiming for an Olympic Medal". BDNews24. 6 November 2015. Archived from the original on 8 August 2018. आह्रियत 12 अगस्त 2016.
- ↑ Muduli, Satarupa (7 October 2024). "ଜିମ୍ନାଷ୍ଟିକ୍କୁ ବାଏ ବାଏ କହିଲେ ଦୀପା କର୍ମକାର". Dharitri Odia News. आह्रियत 8 October 2024.