'दुलाकाग' महान् कविः आसीत् । सः आजीवनं समष्टेः सृष्टेश्च रहस्यम् अवगन्तुं प्रायतत । सः सततं परिवर्तनशीले कालचक्रे विश्वसति स्म । 'दुलाकाग' स्वस्य जीवनस्य उत्तमकार्यैः, अद्यापि सर्वान् भारतवासिनः प्रेरयन् अस्ति ।

दुला-भाया-काग
कागबापु
जन्मस्थानम् मजादरग्रामः, भावनगरमण्डलम्, गुजरातराज्यम्
जन्म २५-११-१९०२
मृत्युः २२-२-१९७७
मुख्यग्रन्थः कागवाणी - १ तः ७

कविः रामायण-महाभारतयोः अध्ययनम् कृतवान् । तस्याधारं नीत्वा नवीनसाहित्यस्य रचनां कृतवान् । कण्ठ-वाणी-काव्यानां सङ्गतिं साधितवान् ‘कागः’ लोकगीतानि, भक्तिगीतानि, व्याखानानि चाधिकृत्य सामजिकान् कार्यक्रमान् आयोजयति स्म ।

'दुला-भाया-काग' कवेः वाण्या शब्दाः अपि धन्याः भवन्ति, लोकहृदये वसन्ति च । दुलाकागस्य वाणी अर्थात् रामायणस्य करुणा, महाभारतस्य च सङ्कुला स्थिति ।

एकदा गीगारामस्य गृहं समागतं सन्यासिनं मुक्तानन्दं सुलाकागः उक्तवान् - ‘अहं तु कच्छनगरं गत्वा पिङ्गलस्य पाठशालायामध्ययनं कर्तुमिच्छामि ।’ मुक्तानन्दः कथयति - ‘कुत्रापि गन्तव्यं नास्ति, सर्वमत्र वर्तते ।’ सः कागकवेः अङ्गुलिं गृहित्वा, नेत्रे अवलोक्य आज्ञापयत् - ‘गच्छ, पद्यं लिखित्वा आगच्छ ।’ सप्तदशवर्षीयेन कागकविना लिखितं पद्यं तत् श्रेष्ठं कविं करोति इत्यत्र सन्देहः नास्ति । तस्य मजादरग्रामेऽवसानम् अभूत्

 
कागकवेः सम्मेलने मोरारीबापु
"https://sa.wikipedia.org/w/index.php?title=दुला_भाया_काग&oldid=316399" इत्यस्माद् प्रतिप्राप्तम्