दूर्वा
इयं दूर्वा भारते वर्धमानः काश्चन् तृणविशेषः । इयं दूर्वा यद्यपि तृणकुले अन्तर्भवति तथापि औषधीयानां सस्यानां गणे अपि तस्याः प्रमुखं स्थानम् अस्ति । इयं दूर्वा भारते सर्वत्र सर्वेषु प्रदेशेषु च वर्धते । अस्याः दूर्वायाः मूलं पत्रं चापि औषधत्वेन उपयुज्यते । देवस्य गणेशस्य प्रिया इयं दूर्वा त्रिविधा भवति । नीलदूर्वा, श्वेतदूर्वा, “गण्ड”दूर्वा चेति । संस्कृते अस्याः दूर्वायाः “शतपर्वा” इति अपरम् अपि नाम अस्ति ।
दूर्वा | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
दूर्वा
| ||||||||||||||||
जैविकवर्गीकरणम् | ||||||||||||||||
| ||||||||||||||||
द्विपदनाम | ||||||||||||||||
Cynodon dactylon (L.) Pers. | ||||||||||||||||
इतरभाषाभिः अस्याः दूर्वायाः नामानि
सम्पादयतुइयं दूर्वा आङ्ग्लभाषयाCynodondactylon इति उच्यते । हिन्दीभाषया“दूट्” इति, तेलुगुभाषया“दूर्वालु” इति, तमिळ्भाषया “अरुग मडिलु” इति, कन्नडभाषया“गरिके हुल्लु” इति च उच्यते ।
आयुर्वेदस्य अनुसारम् अस्याः दूर्वायाः प्रयोजनानि
सम्पादयतुअस्याः दूर्वायाः रुचिः कषायः, तिक्तः, मधुरः चापि । एषा शीतवीर्या ।
- “गण्ड”दूर्वा पित्तशामिका, अरुचिं, ज्वलनं, श्रान्तिं च अपगमयति ।
- “गण्ड”दूर्वा पीपासां शमयति । कफं, वातं, ज्वरं चापि निवारयति ।
- “गण्ड”दूर्वा चर्मरोगेषु अपि उपयुज्यते ।
- नीलदूर्वा अपि तिक्ता, मधुरा, शितवीर्या । एषा रक्तपित्तं शमयति । नीलदूर्वा अपि पित्तशामिका, अरुचिं, ज्वलनं, श्रान्तिं चापि अपगमयति । तथैव पीपासां शमयति । कफं, वातं, ज्वरं चापि निवारयति ।
- श्वेतदूर्वा अपि तिक्ता, मधुरा, शितवीर्या । एषा वमनं, रक्तसहितं शौचं चापि निवारयति । एषा अपि पित्तशामिका, अरुचिं, ज्वलनं, श्रान्तिं चापि अपगमयति । तथैव पीपासां शमयति । कफं, वातं, ज्वरं चापि निवारयति ।
- दूर्वायाः रसेन सह मधु योजयित्वा उपयोगेन उपर्युक्ताः समस्याः अपगच्छन्ति ।
- नासिकायां रक्तस्रावः जायते चेत् नासिकायां दूर्वायाः रसस्य स्थापनेन रक्तस्रावः स्थगितः भवति ।
- दूर्वया सह घृतम् उपयोक्तव्यम् ।
- पिटकादिषु चर्मरोगेषु दूर्वातैलेन स्नानं कारणीयम् ।
- महिलानां मासिकस्रावः सम्यक् न जायते चेत् दूर्वारसः पातव्यः ।
- मूत्राघाते अस्याः दूर्वायाः मूलेन निर्मितं कषायं शर्करां, मधु च योजयित्वा सेवनीयम् ।