देवभक्तिः
(दैवभक्तिः इत्यस्मात् पुनर्निर्दिष्टम्)
देवः नाम काचन अगोचरा शक्तिः । भगवान् प्रभुः देवता परमात्मा इत्यादिभिः नामभिः वयं तं निर्दिशामः । एकं सत् विप्राः बहुधा वदन्ति । इति श्रुत्यनुगुणं विभुः एकः एव सः सर्वभूतेषु गूढः । सः सर्वभूतान्तरात्मा सर्वकर्माध्यक्षःसर्वभूताधिवासः भवति । सः एव शक्षी चेता केवलः निर्गुणः चा । वयं यस्याम् आकृतौ तं दृष्ट्तुमिच्छामः तदनुगुणं नाम रूपं च प्रकल्पयामः ।
नवविधा भक्ति:- श्रवणं कीर्तनं विष्णो: स्मरणं पादसेवनम्। अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्॥ – भागवतम् ७.५.२३
भक्तिप्रकार: | आदर्शभक्त: |
---|---|
श्रवणम् | महाराज: परीक्षित् |
कीर्तनम् | शुकदेव:, नारदमुनि: |
विष्णो: स्मरणम् | प्रह्लाद:, ध्रुव:, गजेन्द्र: |
पादसेवनम् | लक्ष्मी:, भरत: |
अर्चनम् | महाराज: पृथु: |
वन्दनम् | अक्रूर: |
दास्यम् | हनुमान् |
सख्यम् | अर्जुन:, सुदामा |
आत्मनिवेदनम् | महाराज: बलि:, विदुर: |