द्रव्यम् (भौतविज्ञानम्)

द्रव्यम्



Matter is usually classified into three classical states, with plasma sometimes added as a fourth state. From top to bottom: quartz (solid), water (liquid), nitrogen dioxide (gas), and a plasma globe (plasma).

द्रव्यस्य सामान्यगुनधर्माः सम्पादयतु

घनद्रव्यावश्यकात्मकानि द्रव्याणि सम्पादयतु

विश्वे घनद्रववाष्पकात्मकस्ववस्थसुपमभ्यन्ते द्रव्यानि। प्रयेकस्था अवस्थायाः कतिपयाः विशिष्ट गुणधर्माः। केचिद् गुणधर्माः द्रव्यणां सर्वास्वस्थासु उपमभ्यन्ते। तेऽधोमोखिताः -

  • द्रव्यं स्थानम् आवृणोतु- प्रत्येकम् वस्तु स्वकीयायतनानुसारेण आकाशे स्थानम् आवृणोति। यत्राकाशे किञ्चिद् वस्तु तिष्टति तत्र अन्यत् वस्तु प्रवेष्टुं न शक्नोति।

यदि कस्यचिद् बोतलस्य मुखं जले निमज्ज्यते तर्हि जलं बोतलाम्यन्तरे न प्रविशति।

यतः वायुना बोतलस्य स्थानम् आव्रृतमस्ति। यदि चेद् बोतलस्य मुखं किञ्चिद् साचीकृत्य निर्गमनावकाशो दीयते तर्हि वायुः निर्गच्छति जलेन च तस्य स्थानम् पूर्यते।जले यदा शर्करा विलाप्यते तर्हि प्रतीयते यद् शर्करा तदेव स्थानं व्याप्नोति यत्र जलम् वर्तते किन्तु , वस्तुतः शर्कराणुभिः (molecules of sugar) जलाणानामन्तरा वर्तमानरिक्तस्थानमेवे पूर्यते। यदा काष्ठे कश्चिच्छ्कुः निवेस्यते तर्हि शङ्कुना यत्स्थानमधिक्रियते ततः काष्ठोऽपसरति।

  • द्रव्यं भरन्वितम् भवति- स्थानावरकत्वेन सहैव प्रत्येकप्रकारकम् द्रव्यं भरान्वितं भवति। वस्तुतोऽस्माभिः तद्वस्तु एव द्रव्यमिति नम्नाधीयते यस्मिन् भारो वर्तते। केषा`ञ्चित् वस्तूनां भारो न्यूनः केषाञ्चिच्चाधिको भवति। एको लौहदण्डः तुल्यायतनकाद् काष्ठदण्डाद् गुरुतरो प्रतीयते । कतिचिद्वस्तूनि तावल्ल्लाघवयुक्तानि भवन्ति यावदस्माभिः तेषां भरो नानुभूयते । किन्तु एकस्याः शिद्धतुलायाः साहाय्येन तेषां भारो विज्ञेयो भवति। यदि चेद् पादकन्दुकस्य निर्वातो ब्लेडरः तोलयित्वा वायुना संपूर्यते भूयश्च तोल्यते तर्हि द्वितीयावस्थायां पूर्वापेक्शया अधिको भारः ज्ञायते।