द्रोणा
कर्णाटकस्य पञ्चनदीनां स्थानम् इति ख्याते बिजापुरमण्डले प्रवहन्ती एषा नदी न्यूनवृष्टिमयस्य अस्य मण्डलस्य कृषकाणाम् आधारभूता अस्ति ।
प्रादेशिकभाषया डोणीनदी इति प्रसिद्धाः अस्ति ।
"डोणि बेळेदरे ओणियल्ला काळु" इति उक्तिः प्रसिद्धा अस्ति । एतस्य अर्थः डोणीनद्याः आधारेण प्राप्तः फलचयः मार्गान् पूरयति (गृहे स्थलाभावात् मार्गेषु अपि सङ्ग्रहणीयः भवेत्)।