द्रौपदी
सनातनधर्मानुसारः प्रातस्स्मरणासु पञ्चकन्यासु अन्यतमा द्रौपदी भवति । भारतस्य सारस्वतलोके द्वे महाकाव्ये विश्वप्रसिद्धे रामायणम्, महाभारतम् चेति । महाभारतेतियास्य प्रधानभूमिकासु एषा द्रौपदी अगच्छति । द्रौपदी नाम द्रुपदस्य अपत्यं स्त्रीः इत्युक्ते दुपदमाहाजस्य पुत्री । अस्याः मूलं नाम कृष्णा इति । पाञ्चालस्य राजकन्या इति पाञ्चाली इत्यपि कथयन्ति । यज्ञमुखात् उद्भूताम् एतां यज्ञसेना, अग्निकन्या इत्यपि सम्बोधयन्ति । द्रौपद्याः विवाहः पञ्चपाण्डवैः सह अभवत्।
पूर्ववृत्तान्तः
सम्पादयतुद्रौपदी पाञ्चालनरेज्ञास्य राजाद्रुपदस्य पुत्री । एषा अयोनिजा । साक्षात् यज्ञवेदिकातः एषा आगतवती । एतादृशी सुन्दरी तस्मिन् समये प्रपञ्चे कापि नासीत् । एतस्याः शरीरतः तदा एव प्रफुल्लितकमलपुष्पस्य सुवासना उत्पद्य मैलिह्वय पैरिमितं प्रसरति स्म । एतस्याः जन्मसमये अशरीरवाण्या उत्तम आसीत् यद् देवानां कार्याणां सफलतायै क्षत्रियसंहरस्य उद्देशेन एतस्य रमणीयरत्नस्य जन्म अभवत् इति । कृष्ण वर्णस्याः एतां जनाः कृष्णा इति आहवयन्ति स्म । पूर्वजन्मनि भावनः शङकरस्य वरदानेन अस्मिन् जन्मनि पञ्च पतयः प्राप्तवन्तः । अर्जुनः एकः एव स्वयंवरे एतां जितवान् चेदपि मातुः आज्ञया पञ्च सहोदराः अपि एतया सह विवाहिताः आसन् । द्रौपदी उच्छश्रेण्याः पतिव्रता भगवद्भक्ता च आसीत् । श्रीकृष्णस्य पदतले एतस्याः अविचल विश्वासः आसीत् । तम एषा स्वस्व रक्षकः हितैषिः परम आत्मीयः इति चिन्तितवती आसीत् । तस्य सर्वव्यापकत्वे सर्वशक्त्यां च एतस्याः पूर्णः विश्वासः आसीत् कौरव सशायां दुष्टः दुःश्शासनः एतस्याः अमानुषम् अत्याचारं कृतवान् । सभायाः सदस्याः केऽपि तस्याः रक्षणार्थं न आगतवन्तः । तदा सा स्वस्य मानस्य संरक्षणार्थे अन्य मार्गेन विना श्रीकृष्णम् एव अत्यन्तन शक्तिभावेन प्रार्थितवती । शुद्धस्य हृदयस्य करुणापूरितां प्रार्थनां भगवान् बहुशीघ्रं शृणोति । तदा श्रीकृष्णः द्वारकायाम् आसीत् । ततः धौत्वा आगत्य धर्मरुपेण रहसि स्थित्वा । तस्याः मानस्य संरक्षणां कृतवान् । भगवतः कृपया द्रौपद्याः शाटिका अनन्तम् अभवत् । दुःश्शासनेन यावत् आकृष्टं चेदपि तावत् शाटिकायाः बर्धनम् भवति स्म । वस्त्रस्य राशिः एव पतितम् । दुःशशसनः श्रान्तः चेदपि शाटिकायाः अन्तं अन्त्यं न प्राप्तवान् । सम्मिलिताः सर्वे जनाः अपि भगवदभक्त्याः प्रतिव्रत्यस्य अद्भुतं चमत्कारं दृष्टवन्तः । अन्ते श्रान्तः दुःशशासनः लज्जया उपविष्टवान् । भक्तवत्सलः प्रभुः स्वस्य भक्त्याः गौरवं रक्षितवान् । कदाचित् पाण्डवाः काम्यकवने आसन् । तदा दुर्योधनेन प्रेषितः महर्षिः दूर्वासः स्वस्य दश सहस्रान् शिष्यान् स्वीकृत्य पाण्डवानां कुटीरम् आगतवान् । एतेषां भोजनं समाप्तम् आसीत् । अथितिसत्काराय एव महराजः युधिष्ठिरः सूर्यदेवेन पात्रमेकं प्राप्तवान् आसीत् । तत्र निर्मितं किञ्चित् पाकमपि अक्षयः भवति स्म । किन्तु तत्र् एकः नियमः आसीत् । इत्युक्ते द्रौपद्याः भोजनपर्यन्तं तस्मिन् पात्रे यथेष्टम् अन्नं लभ्यते स्म् । युधिष्ठिरः शिष्यैः सह दूर्वासं भोजनार्थम् आहूतवान् । सः स्नान सन्ध्यावन्दनं समापयितुं गङ्गनदीं गतवान् । धर्मराजा भोजनार्थम् आहवानं दत्तवान् । किन्तु द्रौपद्याः भोजनं समाप्तम् आसीत् सूर्येण दत्त्वपात्रेण भोजनव्यवस्था न भवति इति विचारं केऽपि न चिन्तितवन्तः । द्रौपद्याः चिन्ता आरब्धा । दूर्वासः तु कोपेन एव जगद्विख्यातः आसीत् भोजनं नास्ति चेत् सः शापं ददाति एव । किङ्कर्तव्यमूढा सा श्रीकृष्णमेव मनसि प्रार्थितवती । श्रीकृष्णः अनुक्षणं तत्र आगतवान् । तं दृष्टवा द्रौपद्या प्राणाः आगताः इव अभवत् । सा संक्षेपेण तस्मै सर्वं विवृतवति श्रीकृष्णः सम्भ्रान्त्या सम्भाषणम् अनन्तरम् । बहुदूरतः आगतवान् अस्मि । बुभुक्षा अस्ति । शीघ्रं किमपि खादितुं ददातु । इति पृष्टवान् । द्रौपदी लज्जया 'मम भोजनम् इदानीमेव अभवत् । पात्रे किमपि न अवशिष्टम इति अवदत् । श्रीकृष्णः पात्रं दृष्ट्वा तस्मिन एकं पर्णं प्राप्तवान् । तं पर्णमेव मुखे स्थापयित्वा श्रीकृष्णः एतेन पर्णेन पर्णजगताम् आत्मयज्ञभोक्ता परमेश्वरः तृप्तः भवतु इत्युक्त्वा सहदेवं सूचयति गङ्गातारं गत्वा मुनीश्वरं भोजनार्थम् आहवयतु इति । किन्तु यदा सहदेव गङ्गातीरं गतवान् तत्र कोऽपि नासीत् । यदा श्रीकृष्णः मुखे पर्णं स्थार्पायत्वा सङ्कल्प पठितवान् तदा चूर्वासस्य शिष्याणां च आहारेण उदरपूर्णमिव अनुभवमभवत् । इदानीं तत्र गत्वा किं खादामः? पलायनमेव वरमिति दूर्वासः चिन्तितवान् । यतः पाण्डावाः भगवदभक्ताः इति सः जानाति स्म आम्बरीषस्य धटनानन्तरं भगवदभक्ताः इत्युक्ते दूर्वासस्य बहुभयं भवति स्म । अतः सर्वे ततः पलायितवन्तः । एवं भक्त्या एव द्रौपदि पाण्डवानां समस्यां दूरिकृतवती । दूर्वासस्य कोपेन अपि रक्षितवती ।
कदाचित् श्रीकृष्णपरमात्मः सत्यभामया सह पाण्डवान द्रष्टुं बनम् आगतवान । तदा सम्भाषणसमये सत्यभामा द्रौपदीं पृच्छति अनुजेः अहं पश्यन्ती अस्मि भवात्याः वीराः शूराः पतयः सर्वदा भवत्याः अधीनाः एव तिष्ठन्ति । कारणं किम् ? भवति किमपि यन्त्र मन्त्रं औषधं किमपि जानाति वा ? अथवा जपः तपः होमः व्रतः अथवा विद्यया तान् वशीकृतवति वा ? तथा किमपि उपायमस्ति चेत् माम् अपि पाठयतु । येन भगवान् श्यामसुन्दरः अपि मम वशः भवेत् । इति । तदा द्रौपदी वदति यत् 'भवत्याः एतादृशाः अनुमानाः सम्यक् न । यतः भवति बुध्दिमती श्रीकृष्णस्य राज्ञी च अस्ति । पत्नी स्वं वशीकर्तुं यन्त्र मन्त्रस्य प्रयोगान् करोति इति यदा पतिः जानाति सः तया सह इतोऽपि दूरः एव भवति । एतेन अनर्थः एव भवति । अतः कदापि पत्न्या पत्युः अप्रियं न करणीयम् इति अनन्तरं स्वस्य पतीनां सन्तोषार्थं सा किं किं करोति इत्यपि द्रौपदी विवृतवती । सा वदति यत् अहम् अहङ्कारस्य कामक्रोधस्य परित्यागं कृत्वा जागरुकतया सर्वेषां पाण्डवानां तेषां पत्नीनां च सेवां करोमि । असूयातः सर्वदा दूरे तिष्ठामि । कठोराणि वचनानि न वदामि । असभ्यतां न दर्शयामि, असत्यं न वदामि । दुःस्थाने न उपविशामि । अनुचितानि आचरणानि न आचरामि । पतीनां अभिप्रायं ज्ञात्वा तम् अनुसरामि । देवः मनुष्यः, गन्धर्वः युवकः धनिकः रुपवान् कोऽपि पुरुषः भवतु, मम मनः पाण्डवान् विहाय अन्यत्र न् गच्छति । पतीनां भोजनस्य विना अहं भोजनं न करोमि । तेषां स्नानपर्यन्तम् अहम् स्नानं अ करोमि तेषाम् उपवेशनं विना अहं न उपविशामि । पतयः यदा गृहम् आगच्छान्ति तदा अहं स्थित्वा एव आसन्दं जलं च ददामि । गृहस्य पात्राणि स्वच्छं स्थापयामि । रुचिकरं पाकं करोमि । समये भोजनं ददामि । गृहे धान्यानां रक्षणां करोमि । गृहस्य स्वच्छतां सर्वदा रक्षयामि । अहं सम्भाषणे कस्यापि तिरस्कारं न करोमि । व्यभिचारीस्त्रीणां समीपं न गच्छामि । पत्युः अनुकूला सती आलस्येन दूरे एव भवामि । वारं वारं गत्वा द्वारे न तिष्ठामि । यत्रकुत्रापि अवकरं न क्षिपामि । सर्वदा सत्यं वदामि । पतिं विहाय एकाकिनी स्थातुं नितरां न इच्छामि । कौटुम्बिककारणतः यदा पतिः बहिः गच्छति तदा अहं पुष्पं चन्दनं च त्यक्त्वा नियमान् व्रतान् पालयन्ती समयं यापयामि । यं पदार्थं मम पतिः न खादति, न पिबति तं पदार्थं अहमपि त्यजामि । स्त्रीणां निमित्तं शास्त्रं यं विषयं ज्ञापयति तं सर्वम् अहं पालयामि । प्राप्तेन वस्त्रालङ्कारेण शरीरं सुन्दरं स्थापयामि । सर्वदा जागरुका भूत्वा पत्युः प्रीतिं करोमि ।
कुटुम्बसम्बन्धे श्वश्रूः यं धर्मं सूचितवती अस्ति तं सर्वं पालयामि भिक्षादानं पूजा, श्राध्दः पर्वेषु धृतेन खाद्यनिर्माणं, नारी सम्माननं मम याः धर्माः सन्ति तान जागरुकतया दिनरात्रौ आचरामि । मम दृष्टया पत्युः अधिनमेव रत्रीणां योग्यम् । सः एव तस्याः इष्टदैवः । अहं कदापि पतीनाम् अपेक्ष्या श्रेष्ठा न भवामि । तेषाम् अपेक्ष्या उत्तमं भोजनं न करोमि । तेषाम् अपेक्षया उत्तमं वस्त्रं न धरामि । कदापि श्वश्रवा सह वादविवादं न करोत्मि । सर्वदा संयमं पालयामि । अहं सर्वदा मम पतीनाम् अपेक्षया शीघ्रम् उत्तिष्ठामि । ज्येष्ठानां सेवां करोमि । वस्त्राभूषणे वा भोजने वा कदापि मम निमित्तं किमपि विशेषं न स्थापयामि । पूर्वं महाराजः युधिष्ठिरस्य समीपे दशसहस्त्राः सेविकाः आसन् महयम् सर्वा परिचिताः आसन् । कः किं कुर्वन् अस्ति इति ध्यानं भवति स्म । तदा एकलक्षम् अश्वाः, गजाः आसन् । तेषां व्यवस्याम् आवश्यकताम् अहमेव पश्यामि स्म । अन्तः पुरस्य गोपानां मेषपालानां सेवकानां कार्यविचारणाम् अहमेव करोमि स्म ।
महाराजस्य आयव्ययस्य विवरणम् अहमेव स्थापयामि स्म । पाण्डवाः कुटुम्बदायित्वं मम उपरि त्यक्त्वा पूजायां पाठने, अतिथि सत्कारे भवन्ति स्म । तेषां अखण्ड कोषस्य परिचयः केवलं महयम् आसीत् । पिपासां बुभुक्षां निद्रां त्यक्त्वा कार्येमग्नाः भवामि स्म । सत्यभामा । पतिं गृहीतुं अहं एतम् उपायमेव कृतवती इति वदति । आदर्श पत्नी कथं भवेत् इति द्रौपद्याः जीवनेन पठितुं शक्यते ।
द्रौपद्यां क्षत्रियोचितः तेजः भक्तोचिता क्षमा एतयोः च अभूतपूर्वं सम्मिश्रणमासीत् । एषा बहु बुध्दिमती विदुषी च आसीत् । श्रेष्ठ पतिव्रतायाः द्रौपद्याः त्यागः अपि अदभुतमासीत् । यदा दुःश्शसनः एतस्याः केशान् गृहीत्वा आकृष्य सभाम् आनीतवान् तदा एषा स्वस्य पतीनां कोपं दर्शयित्वा तं भायितवती । द्रोणं भीष्मं विदुरादयः गुरुजनान स्वस्य साहाय्यार्थं न्यायार्थं च प्रार्थितवती । महाराजः युधिष्ठिरः स्वस्य पराजयानन्तरं माम् पन्धे पणे स्थापितवान अस्ति स्वतः पराजितैः तस्मै एषः अधिकारः कुतः आगतः ? इति पृष्टवती । सर्वे सभासदस्याः मौनमेव आश्रितवन्तः । अन्ते दुर्योधनस्य अनुजः विकर्णः उत्याय,मौनं त्यक्त्वाअ सम्भाषणं कुर्वन्तु । द्रौपदी तु पञ्चपाण्डवानां पत्नी अस्ति । युधिष्ठिरस्य एकाकी एव तां पणाय स्थापयितुं अधिकारः नास्ति एव द्वितीयं एषः स्वस्य पराजयानन्तर द्रौपदीं पणाय स्थापितवान् अस्ति । अत्रापि तस्य अधिकारः नासीत् इति विकर्णः बादं कृतवान् । विदुरः अन्यसभासदाः अपि एतस्य समर्थनं कृतवन्तः । किन्तु कर्णः कोपेन सर्वान् उपवेशितवान् । अन्ते विदुरस्य बुध्दिवचनं श्रुत्वा धृतराष्ट्रः दुर्योधनं तर्जियित्वा द्रौपद्याः प्रसन्नतार्ये तस्य पतीनां दास्यमोचनं कृतवान् । अन्यद किमपि वरं पृच्छ्तु इति धृतराष्ट्रः द्रौपदीं यदा वदति तदा तस्याः अत्तरं तु योग्यमेव आसीत् । सा वदति यत् दुराशा उत्तमं न । इतोऽपि पृष्टुम अहं नितरं न इच्छामि । दास्ययुक्ताः मम पतयः अवशिष्टं सर्वं ते स्वयं कर्तुं समर्याः सन्ति इति । एवं अपमानिता चेदपि स्वस्य पातिबत्यबलेन नैतिकविजयं प्राप्य पतीनामपि दास्यमोचनं कृतवती ।
किञ्चित् कालपूर्व्ं राजसूययागे अवभृय स्नानसमये मन्त्रोक्तेन पवित्रजलेन अभिषेकः कृतः स्वस्य धीर्घं केशराशिं दुष्टः दुःश्यासनः पूर्णसभायां आकृष्टवान् । एतां घटनां द्रौपदी कदापि न विस्मृतवती । अपमानस्य ज्वाला तस्याः ह्रुदये सर्वदा ज्वलति स्म । अग्रे यदा यदा कौरवैः सह सन्धिप्रसङ्गम् आगच्छति तदा तदा एषा स्वस्य अपमानस्य स्मरणं कारयित्वा युध्दाय प्रोत्साहं कुर्वती आसीत् । अन्ते एकवारं श्रीकृष्णपरमात्मः एव सन्धितिमित्तं हस्तिनापुरं गच्छेत् इति यदा तीर्मानं कृतवन्तः तदापि एषा स्वस्य दीर्धान् केशान् ह्स्ते स्वीकृत्य दर्शयन्ती श्री कृष्णं वदति यन् भवान् सन्धिकार्यमध्ये मम केशान् न विस्मरतु । पाण्डवाः युध्दं कर्तुं न इच्छन्ति चेत न कुर्वन्तु । किन्तु स्वस्य महारथी पुत्रैः सह मम पिता कौरवाणां विरुध्दं युध्दं करोति । मम पञ्चपुत्राः अभिमन्युः अपि युध्दं कुर्वन्ति इति ।
काम्यकवने जयद्रथः द्रौपदीं बलात् नेतुं यदा यत्नं कृतवान् तदा एतस्याः ताडनेन सः पतितवान् एव आसीत् । पुनः उत्याय एतां रथे उपवेश्य नयन् आसीत् । तावता भीमार्जुनौ आगत्य जयद्रथं ताडयित्वा बन्धितवन्तः । किन्तु द्रौपदी दयया तं मोचितवती । एवम् एषा क्षमामयी अपि आसीत् । किन्तु दुर्योधनः दुःशसन, कर्णः जयद्रथः कीचकादि ये ये एतां पीडितवन्तः तेषां सर्वेषां नाशम् अभवत् । महाभार्त युध्दे कौरवाणां नाशस्य मूलकारणमेव पतिव्रतासाध्वीद्रौपद्याः अपमाननम् ।
पूर्वं यदा कौरवपाण्डवानां बाल्ये द्रोणाचर्यस्य गुरुकुले शिक्षा प्रचलति स्म । शिक्षायाः प्राप्तेः पश्चात् ते गुरुदक्षिणां दातुम् उद्यताः । द्रोणाचार्यस्य पूर्वसखेन द्रुपदमहाराजेन कृतस्य अवमानस्य स्मरणम् अभवत् । अतः राजकुमारान् आदिशत् गुरुदक्षिणारूपेण पाञ्चालरजं द्रुपदं बन्धिनं कृत्वा मे पुरतः आनयन्तु सा एव मम गुरुदक्षिणा भविष्यति इति । गुरो आदेशं शिरसा धृत्वा शिष्यराजकुमाराः स्व स्वशस्त्राणि गृहीत्वा पाञ्चालदेशं गतवन्तः । द्रोणाचार्यः प्रथमं युद्धावकाशं कौरवेभ्यः दत्तवान् । दुर्योधनादयः द्रुपदसैन्येन परास्ताः अभवन् । पश्चात् पण्डावाः द्रुपदसेनायाम् आक्रमणम् अकुर्वन् । भिमसेनस्य अर्जुनस्य च पराक्रमस्य पुरतः पाञ्चालसेना स्थातुम् अशक्ता अभवत् । अर्युनः अग्रे गत्वा द्रुपदं बन्धिनं कृत्वा द्रोणाचर्यस्य पुरतः समानयत् । द्रुपदः लज्जया अधोमुखः सन् स्वापराधम् अङ्गीकृतवान् । स्वस्य राज्यसर्वस्वं द्रोणाय समर्पितवान् । द्रोणः स्नेहः समानेषु भवति किल अतः अर्धराज्यं ते ददामि अर्धम् अहम् अनुभवानि इति उक्त्वा गङ्गायाः दक्षिण तटस्य राज्यभागं द्रुपदाय समर्पितावान् । द्रोणेन परास्तः द्रुपदः अत्यन्तम् अवमानितः येन केनापि प्रकारेण द्रोणम् अवमानयितुम् उपायं चिन्तितुम् आरभत । तदर्थमटन् कल्याणनगरस्य ब्रह्मणाग्रहारम् आगच्छत् । तत्र याजः उपयाजः इति कर्मकाण्डिनोः ब्राह्मणयोः दर्शनम् अभवत् । तेषां सूचनानुसारं ताभ्याम् एव यज्ञमेकम् अन्वतिष्ठत् । यज्ञेन प्रसन्नः अग्निदेवः कवचकुण्डलयुतं सायुधं सुन्दरं पुत्रम् अनुगृहीतवान् । पश्चात् तस्मात् यज्ञकुण्डात् प्रफुल्लायतक्षी देदीप्यमानवदना, श्यामलवर्णा कन्या उद्गता । तदा कौरवाणां विनाशाय एव अस्याः जन्म अभवत् इति काचित् अशीरवाणि अपि श्रुता । बालकस्य धृष्टद्युम्नः बालिकायाः नाम कृष्णा इति अकुर्वन् ।