रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते धनिष्ठानक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् धनिष्ठानक्षत्रं भवति त्रयोविंशतितमं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

धनिष्ठानक्षत्रम्

आकृतिः सम्पादयतु

धनिष्ठा शीर्षत्रयम् - शीर्षाकृतौ विद्यमानानि त्रीणि नक्षत्राणि ।

सम्बद्धानि अक्षराणि सम्पादयतु

गा गी गू गे - धनिष्ठानक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम् सम्पादयतु

अष्टौ देवा वसवः सोभ्यासः चतस्रो देवीरजराः श्रविष्ठाः ।
संवत्सरोणाममृतं पान्तु । यज्ञं नः पान्तु दक्षिणतोऽभियन्तु ।
पुण्यं नक्षत्रमभिसंविशाम मा नो अरातिरघशंसागन् ॥

वैदिककाले धनिष्ठानक्षत्रं श्रविष्ठानक्षत्रम् इत्यपि निर्दिश्यते स्म । श्रविष्ठानक्षत्रं वसवो देवता इति उल्लिखितम् अस्ति । तन्नाम धनिष्ठानक्षत्रस्य स्वामी वसुदेवता । तैत्तिरीयब्राह्मणस्य अनुसारम् अष्ट वसवः सौम्याः । अस्य नक्षत्रस्य अनुग्रहेण वयं संवत्सरस्य अमृतं प्राप्नुयाम । इदं नक्षत्रं दक्षिणदिक्तः आगच्छति । अस्माकं शत्रून् पापानि च नाशयति ।

आश्रिताः पदार्थाः सम्पादयतु

वसुभे मानोन्मुक्ताः क्लीबाचलसौहृदाः स्त्रियां द्वेष्याः ।
दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः ॥

मानोन्मुक्ता मानवर्जिता निरहङ्काराः । क्लीबाः षण्ढाः । अचलसौहृदाः स्थिरमैत्राः । स्त्रियां द्वेष्याः स्त्रीष्वप्रियाः । दानाभिरता दानशीलाः । बहुवित्तसंयुताः प्रभूतधनान्विताः । ये च नरा मनुष्याः शमपरा जितेन्द्रियाः । एते सर्व एव वसुभे धनिष्ठायाम् ।

स्वरूपम् सम्पादयतु

उपनयनं चौलविधिं जलतुरगोष्ट्रेभदेवनिर्माणम् ।
कृषिभवनाहवमम्बरविपिनोद्यानाश्मभूषणं वसुभे ॥

धनिष्ठानक्षत्रे उपनयनम्, चूडाकर्म, जलकर्म, अश्व-उष्ट्र-गजसम्बद्धं कर्म, देवताप्रतिष्ठापनम्, कृषिकर्म, भवनसम्बद्धकर्म, वस्त्रकर्म, उद्यान-शिला-आभूषणकर्म इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।

चरसंज्ञकनक्षत्राणि सम्पादयतु

श्रवणत्रयमादित्यानिले च चरकर्मणि हितानि ॥ श्रवणत्रयं [[श्रवणा|] धनिष्ठा शतभिषगिति । आदित्यं पुनर्वसुः । आनिलं स्वातिः । ते आदियानिले च । एतानि पञ्च नक्षत्राणि । तानि च चरकर्मण्यस्थिरे कर्मणि हितानि प्रशस्तानि ।


पश्य सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=धनिष्ठा&oldid=395468" इत्यस्माद् प्रतिप्राप्तम्