धर्मशास्त्रम् भारतीयशास्त्रेषु अन्यतमम् । भारतीयपरम्परायाम् अस्य शास्त्रस्य बहुमुख्यं प्राशस्त्यम् अस्ति । धर्मशब्दः ‘धृ’ धारणे इति धातोः व्युत्पन्नः । तत्र महाभारते ‘धारणाद्धर्म इत्याहुः धर्मो धारयते प्रजाः’ इति यद् उपवर्णितं तद् धर्मस्य यथार्थस्वरूपं संक्षेपेण प्रतिपादयति । एवं धर्मः समाजस्य धारणं नाम संरक्षणम् संवर्धनं च करोति, अर्थात् समाजकल्याणकारिणीं कामपि जीवनयापनपद्धतिं निर्दिशति । धर्मशब्दः प्रप्रथमतया ऋग्वेदे दृश्यते । अस्मिन् धर्मः इत्येतत् पदं धार्मिकविधिः, व्रतम्, आचारः इत्येतेषु अर्थेषु प्रयुक्तः अस्ति । अन्येषु सन्दर्भेषु धारकः पोषकः इत्येतौ अर्थौ बोधितः । तैत्तिरीय उपनिषदि 'धर्मञ्चर’ इति शिष्यानुशासनम्, मनुस्मृतौ 'भगवान्, सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवाणां च धर्मान्नो वक्तुमर्हसि ॥' इति, याज्ञवल्क्यस्मृतौ ’योगिश्वरं याज्ञवल्क्यं सम्पूज्य मुनयोऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः ॥' इति, पराशरस्मृतौ ’चातुर्वर्ण्यसमाचारं किञ्चित् साधारणं वद । चतुर्णामपि वर्णानां कर्तव्यं धर्मकोविदैः ॥' इत्येतेषु उक्तिषु प्राक्तनभारतीयसमाजस्य चतुर्वर्णीयैः आश्रमस्थैः अनुसरणीयाः आचाराः एव धर्मपदेन उपदिष्टाः भवन्ति ।

जैमिनिमते धर्मः इत्यस्य निरूपणं, ’बोधनालक्षणोऽर्थोधर्मः’ इति कृतमस्ति । वैशेषिकसूत्रे ’अथातो धर्मं व्याख्यास्यामः’।, 'यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः’ इति व्याख्यातम् अस्ति । एवमेव ’ध्रियते अनेनेति धर्मः’, ’धर्मे सर्वं प्रतिष्ठितम्’, ’धारणात् धर्ममित्याहुः’ 'धर्मोधारयते प्रजाः’ इत्याद्याः उक्तयः धर्मस्य व्याप्तिं प्रयोजनञ्च प्रतिपादयन्ति ।

धर्मस्य प्रकाराःसम्पाद्यताम्

धर्मा बहुविधा लोके श्रुतिभेदमुखोद्बवाः ।
देशधर्माश्च दृश्यन्ते कुलधर्मास्तथैव च ॥
जातिधर्मा वयोधर्मा गुणधर्माश्च शोभने ।
शरीर-कालधर्माश्च आपद्धर्मास्तथैव च ॥
एतद्धर्मस्य नानात्वं क्रियते लोकवासिभिः।[१]
देशधर्मः, कुलधर्मः, जातिधर्मः, वयो(आश्रम)धर्मः, गुणधर्मः, शरीर-कालधर्मः, आपद्धर्माश्च धर्मस्य प्रकाराः भवन्ति । वर्णधर्मः, आश्रमधर्मः, वर्णाश्रमधर्मः, नैमित्तिकधर्मः, गुणधर्मश्च धर्मस्य पञ्चप्रकाराः सन्ति इति मनुस्मृतेः टीकाकारः गोविन्दराजः, गौतमधर्मस्य सूत्रस्य टीकाकारः हरदत्तश्च प्रतिपादयन्ति ।

धर्मस्य आकराःसम्पाद्यताम्

धर्मस्य आकराः विभिन्नेषु ग्रन्थेषु प्रतिपादिताः सन्ति । तानि,

  • "वेदो धर्म मूलम् ।"

"तद्विदां च स्मृतिशीले ।" गौ.ध.सू, १,१.२

  • "धर्मज्ञसमयः प्रमाणम् ।"

वेदाश्च । आ.ध.सू,१ , १.१, २-३

  • उपदिष्टो धर्मः प्रतिवेदम् । बो.ध.सू १.१.१

स्मार्तो द्वितीयः । तृतीयश्शिष्टागमः । १, १,३-४
श्रुतिस्मृतिविहितो धर्मः ।
तदलाभे शिष्टाचारः प्रमाणम् । व,ध.सू १ ४-५

  • अथातो धर्मं व्याख्यास्यामः ।

श्रुतिप्रमाणको धर्मः ॥ हा.ध.सू

  • वेदोऽखिलो धर्ममूलम् । स्मृतिशीले च तद्विदाम् ।

आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ म. २, ६

  • वेदाः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।

एतच्चतुर्विधु प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ म, २ १-२

  • श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रयमात्मनः ।

सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ या १,७

धर्मस्य उद्भव: विकासश्चसम्पाद्यताम्

धर्मो विश्वस्य जगतः प्रतिष्ठा । लोके धर्मिष्ठं प्रजा उपसर्पन्ति । धर्मेण पापमपनुदन्ति । धर्मे सर्वं प्रतिष्ठितम् । तस्माद् धर्मं परमं वदन्ति[२]

विश्ववासिनां जनानामभ्युदयनिःश्रेयससिद्ध्यर्थं जगति विराजमानस्य धर्मस्य महती प्रतिष्ठा । स्वावयवार्थप्रतिपादकत्वेऽपि धर्मशब्द: भारतीयानां प्राणभूतवेदस्य बहुत्र बहुष्वर्थेषु प्रयुक्तः । भारतीयाः सनातनधर्मं दृढं विश्वसन्ति । तदनुसारं वेद एव हिन्दुसंस्कृतेः प्राचीनप्रमाणरूपेण स्वीकृतः। भारतीया: वेदानां नित्यत्वमपि विश्वसन्ति । यतः सोऽयं धर्मो वेदप्रतिपाद्य इति वेद एव सर्वस्व मास्तिकधुरन्धराणाम् । वैदिककाले नरा: यज्ञैर्देवान् सन्तोष्य धर्ममार्गे आसन् । देवानां सन्तोषाय यज्ञान् विधाय धर्ममार्ग दृढीचक्रुः। ततस्तदानीं यज्ञ एव मुख्यधर्म आसीत् ।[३]

भगवताऽऽदिष्टत्वाद्वेदस्य श्रुतिसंज्ञा मन्वादिभिः प्रकटिता। वेदस्य परम प्रामाण्य सवैः स्मृतिकारैः मन्वादिभिरपि स्वीकृतमस्ति । तदनन्तरञ्च स्मृतयः वेदमूलकत्वेन धर्म प्रामाण्यमधिकुर्वन्ति । ऋग्वेदे[४] धर्मशब्दः प्रायश: धारणार्थे पालनार्थे च पुंलिङ्गे एव प्रयुक्तः -

क) इममञ्जस्पामुभये अकृण्वत धर्माणमग्निं विदथस्य साधनम् ।[५]

ख) त्वे धर्माण आसते जुहूभिः सिञ्चतीरिव ।[६]

यजुर्वेदे धर्मन्शब्द: धारणार्थे धारकार्थे च दृश्यते -

क) मित्रावरुणौ त्वोत्तरतः परिधत्तां ध्रुवेण धर्मणा विश्वस्यारिष्ट्यै

यजमानस्य परिधिरस्यग्निरिड ईरितः।।[७]

ख) उद्दिवं स्तभानान्तरिक्षं पृण दंहस्व पृथिव्यां द्युतानस्त्वा मारुतो

मिनोतु । मित्रावरुणौ ध्रुवेण धर्मणा ॥[८]

पितुं नु स्तोषं महो धर्माणं तविषीम् ।[९]

ऋग्वेदे यजुर्वेदेऽपि बहुषु स्थलेषु धार्मिकविधिषु क्रियासंस्कारेषु च धर्मशब्द: नपुंसकलिङ्गेऽपि प्रयुक्तः -

क) त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः।

का अतो धर्माणि धारयन् ॥[१०]

ख) समिधानः सहस्रजिदग्ने धर्माणि पुष्यसि ।

देवानां दूत उक्थ्यः ॥[११]

तानि धर्माणि प्रथमान्यासन् ।[१२]

अथर्ववेदे धर्मशब्दः धार्मिकक्रियाजनित गुणार्थे प्राप्यते -

ऋतं सत्यं तपो राष्ट्र श्रमो धर्मश्च कर्म च ।

भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले ॥[१३]

एते धर्मस्य गुणाः खलु मानवसमाजस्य विकाशनस्य बीजम् । अनन्तरञ्च ब्राह्मणग्रन्थेष्वपि धर्मशब्द: बहुवारं प्रयुक्तः। तत्र ऐतरेयब्राह्मणे धर्मशब्दः सकलधार्मिककृत्येषु व्यवहृतः -

धर्मस्य गोप्ताजनीति तमभ्युत्कृष्टमेवं ।

विदभिषेक्ष्यन्नेतयार्चाऽभिमन्त्रयेत।[१४]

छान्दोग्योपनिषदपि धर्मस्य महत्त्वपूर्णमर्थं व्यनक्ति -

त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एवेति द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् । सर्व एते पुण्यलोका भवन्ति ब्रह्मसंस्थोऽमृतत्वमेति।[१५]

तदनुसारं धर्मः यज्ञाध्ययनदानार्थेष्वभिहितः । ताश्च दानादिशाखा: ब्रह्मचारि-गृहस्थ- वानप्रस्था ख्यमाश्रमत्रयमभिव्याप्य तिष्ठन्ति । अत्र पुनः धर्मशब्द आश्रमाणां विलक्षण कर्तव्येषु संकेतितः । तैत्तिरीयोपनिषद्यपि धर्मशब्द: नियमाचरणाय निर्दिष्टः -

सत्यं वद धर्मं चर।[१६]

एवमेवासौ समयानुसारं परिवर्तितो भूत्वाऽन्ते च मानवस्य विशेषाधिकारेषु, कर्त्तव्येषु, नियमेषु, आचारविधौ च प्रसिद्धो जातः।

अनन्तरञ्च स्मृतिकाले धर्मशब्द: पूर्णविकाशमभजत । तत्र सर्वत्र धर्मशब्दः पुंलिङ्गे एव दर्शितः । तस्यैव विशेषव्याख्यानाद् धर्मशास्त्रमिति नाम । तस्मिन् काले परमाराध्य: वैदिककालस्य पूज्य: स्मार्त्तधर्मस्य प्रतिष्ठापक: मनुः धर्मस्य सुस्पष्टं गाम्भीर्यपूर्णमर्थं प्राकाशयत् -

विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।

हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥[१७]

तस्य मतमिदं यद् विद्वांस: विचारपूर्वकं यानि कर्माणि सर्वदा आचरन्ति तान्येव धर्मपदेनाख्यायन्ते । अन्यत्र च वानप्रस्थाश्रमप्रकरणे मनुः साधारणधर्मस्य परिभाषायां धृत्यादीन् दशगुणान् धर्मस्य लक्षणत्वेन व्याचख्ये -

धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।

धीविद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥[१८]

स धर्मस्य मूलत्वेन वेदं स्वीकृत्यापि पुन: स्मृतिसदाचारा त्मतोषान् त्रीन् धर्ममूलत्वेन प्रत्यपादयत् । एतेषां चतुर्णां धर्ममूलानां प्रामाण्यं स्वीकृत्य प्राय: सर्वे स्मृतिकाराः धर्मलक्षणानि कृतवन्तः। मनुमहर्षेरनन्तरं स्मृतिकारेषु सम्मानास्पदः स्मृतिकारः याज्ञवल्क्य:१४ धर्मलक्षणे श्रुतिस्मृति सदाचारात्मतोषान् प्रमाणीकृतवान् -

श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः।

सम्यक् संकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥[१९]

वसिष्ठ-आपस्तम्ब-बौधायन-गौतम -हारीतादयः धर्मसूत्रकारा अपि धर्मप्रमाणेषु श्रुतेः प्राथम्यं स्वीकृत्यानन्तरं स्मृतेः प्रामाण्यं स्वीकृतवन्तः -

श्रुतिस्मृतिविहितो धर्मः । तदलाभे शिष्टाचार: प्रमाणम् ।

शिष्टः पुनरकामात्मा।[२०]

धर्मज्ञसमयः प्रमाणम् । वेदाश्च ।[२१]

उपदिष्टो धर्मः प्रतिवेदम् । स्मार्तो द्वितीयः।

तृतीयः शिष्टाचारः। [२२]

वेदो धर्ममूलम् । तद्विदां च स्मृतिशीले। [२३]

श्रुतिप्रमाणको धर्मः । तदभावे स्मृतिः ।[२४]

अन्येषां विश्वामित्र-विष्णु-बृहस्पति-देवल-शंखलिखित-यमस्मृतीनां धर्मलक्षणान्यपि विभिन्ननिबन्ध ग्रन्थेषूदाहृतानि दृश्यन्ते -

यमार्याः क्रियमाणं हि शंसन्त्यागमवेदिनः।

स धर्मो यं विगर्हन्ति तमधर्मं प्रचक्षते ॥[२५]

क्षमा सत्यं दमः शौचं दानमिन्द्रियनिग्रहः ।

अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया ॥

आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् ।

अनभ्यसूया च तथा धर्म: सामान्य उच्यते ॥[२६]

दया क्षमाऽनसूया च शौचानायासमङ्गलम् ।

अकार्पण्यास्पृहत्वञ्च सर्वसाधारणानि च ॥[२७]

शौचं दानं तपः श्रद्धा गुरुसेवा क्षमा दया।

विज्ञानं विनयः सत्यमिति धर्मसमुच्चयः॥[२८]

देशः काल उपायो द्रव्यं श्रद्धा पात्रं त्याग इति समस्तेषु धर्मोदय:

साधारणोऽन्यथा विपरीतः।[२९]

वेदाः प्रमाणं स्मृतयः प्रमाणं , धर्मार्थयुक्तं वचनं प्रमाणम् ।

यस्य प्रमाणं न भवेत् प्रमाणं , कस्तस्य कुर्याद्वचनं प्रमाणम् ॥[३०]

एते सर्वे मनूक्तं साधारणधर्ममनुसृत्य धर्मलक्षणं व्याख्यान्ति।

अन्येऽपि शास्त्रकाराः धर्मस्य महत्त्वमनुभूय तस्य लक्षणाकरणेन स्वशास्त्रस्य मर्यादाहानिभयाद् धर्मस्य लक्षणं कृतवन्तः। तेषु वेदमीमांसाकारो जैमिनिः स्वशास्त्रस्य प्रारम्भ एव धर्मलक्षणं कृतवान् । तन्मते वैदिकमन्त्रोपदेशानुष्ठितकर्मभिरुत्पादितं पुण्यमेव धर्मः। वैशेषिकशास्त्रमपि येन कर्मणा इहलौकिक-पारलौकिककल्याणसिद्धिः भवति स एव धर्म इति धर्मलक्षणं बबन्ध । योगशास्त्रमपि धर्मप्रभावादेव विश्वस्य स्थितिः सम्भाव्यत इति प्रतिपादयति । शास्त्रोपदिष्टं यागादि कर्म एव धर्म इति केचित् । विहितकर्मजन्योऽपूर्वविशेषो धर्म इत्यपरे । विहितकर्मजन्यापूर्वजन्यो धर्म इति अन्ये । विधेयत्वेनोपदिष्टमपि धर्मः। यथा ब्रह्मचारिधर्मः । विहितानुष्ठानं निषिद्धवर्जनं च धर्म इति शास्त्रकाराः -

चोदनालक्षणोऽर्थो धर्मः।[३१]

अथातो धर्मं व्याख्यास्यामः। यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः।[३२]

निरालम्बा निराधारा विश्वाधारा वसुन्धरा ।

यच्चावतिष्ठते तत्र धर्मादन्यन्न कारणम् ॥

आप्लावयति नाम्भोधिराश्वासयति चाम्बुदः।

जन्महिंसाप्रभावोऽयं ध्रुवं धर्मस्य नेतरः।[३३]

अनन्तरं महाभारतकाले धर्मस्य विशेषत: प्रशंसाभिवृद्धिरजायत। सर्वेषु पुराणेषु धर्मः मुख्यध्येयरूपेण स्तुतिमवाप । महाभारतस्यारण्यक-वन-कर्ण-शान्तिपर्वसु धर्मस्वरूपं विवेचितम्। गरुडपुराण-भागवतादिषु आत्मतुष्टिं विनाऽन्यानि मनूक्तानि प्रमाणानि धर्मलक्षणे अन्तर्भावितानि। पुनश्च केचन धारणाद् धर्म इति लक्षणमपि प्रस्तुवन्ति -

वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः ।

शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम् ।।[३४]

आनृशंस्यं परो धर्मः। महाभा. वन. ३७३-७६.

धारणाद् धर्ममित्याहुः धर्मो धारयते प्रजाः।[३५]

सदाचारः स्मृतिर्वेदास्त्रिविधं धर्मलक्षणम् ।

चतुर्थमर्थमित्याहुः कवयो धर्मलक्षणम् ॥[३६]

श्रुत्युक्तः परमो धर्मो स्मृतिशास्त्रगतोऽपरः।

शिष्टाचारेण शिष्टानां त्रयो धर्मोः सनातनाः॥[३७]

स्मृतिकालानन्तरं तत्परवर्त्तिभिः निबन्धकारैः ऋषीणां धर्मलक्षणानि सम्यग् व्याख्याय तेषां निगूढार्थः प्रकाशितः। कोशेष्वपि धर्मशब्दः बहुधा व्याख्यातः। तत्र धर्मशब्दस्य जीवाचार- वस्तु- गुण- रूप-स्वभाव- यागाद्यहिंसा न्यायोपनिषद्यम- सोमाध्यायी- सत्संग-दानाद्यर्थेषु व्यवहार: दृश्यते । अमरसिंहस्तु विश्वं धर्म: धारयति, जनाः धर्मं धारयन्तीति धर्मशब्दं व्युत्पादितवान्। मेदिनीकोष-हैमकोषयोस्तु पुण्यार्थे धर्मशब्दः प्रयुक्तः -

वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः।।[३८]

धरति विश्वमिति। धरति लोकान् ध्रियते वा जनैरिति ।[३९]

धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः क्रतौ ।

अहिंसोपनिषन्याये नाधनुरभिसोमपे ।[४०]

सुकृते पावने धर्मे ।[४१]

धर्मभेदाःसम्पाद्यताम्

का नानालक्षणविशिष्टोऽसौ धर्म आचरणदृष्ट्या बहुभिः बहुधा विभक्तः। धर्म आचरणसंहितासंज्ञार्हत्वाद् द्विधा विभज्यते। मत्स्यपुराणे३८ पराशर माधवीयादिषु श्रौतस्मार्त्तभेदेन धर्मः द्विधा विभक्तः । तत्र श्रौतधर्म: त्रिविधः । इष्टिः, पशुयागः, सोमयागश्चेति । तत्रौषधिप्रधानयागः इष्टिः । ओषधिभिः यवब्रीहि- प्रभृतिभिः पुरोडाशं निर्माय या दर्शपौर्णमासेष्टिः सम्पाद्यते सा प्रथमप्रकारक: यागः । पशुयागे प्रधानतः पशुः, सोमयागे च सोम एव समर्प्यते। पशुयागे पशोरङ्गानि वपाहृदयादीनि देवताभ्य: समर्प्यन्ते । सोमयागे च सोमलतायाः काशात् सोमरसं निष्कास्य तेनैव द्रव्येण सोमयागोऽनुष्ठीयते। यागः प्रकृति वकृतिभेदेन द्विविधः। प्रकृतियागोऽपि त्रिविधः । सर्वासामिष्टीनां प्रकृतियाग: भवति र्शपौर्णमासः। सर्वेषां पशुयागानां प्रकृतिरग्नीषोमीययागः। सर्वेषां सोमयागानां कृतिश्चाग्निष्टोमसोमयागो भवति । एतदतिरिक्ता: यागा: विकृतिसंज्ञा धारयन्ति -

दाराग्निहोत्रसम्बन्धमिज्या श्रौतस्य लक्षणम् ।

स्मार्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः ॥[४२]

अग्न्याधानादिपूर्वकोऽधीतप्रत्यक्षवेदमूलो दर्शपौर्णमासादिः श्रौतः।।

अनुमितपरोक्षशाखामूलः शौचाचमनादि: स्मार्त्तः ।[४३]

उपदिष्टो धर्मः प्रतिवेदम् । स्मार्तो द्वितीयः।

तृतीय: शिष्टागमः॥[४४]

वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः।

शिष्टाचीर्णः परः प्रोक्तस्त्रयो धर्माः सनातनाः।[४५]

वेदोक्तः परमो धर्मः धर्मशास्त्रेषु चापरः।।

शास्त्रकाराः श्रौतधर्मे वैदिकसंहितासु ब्राह्मणग्रन्थेषु वर्णितानां र्शपौर्णमासादि-यज्ञानां समावेशं कुर्वन्ति । स्मार्त्तधर्मे विशेषतः मृतिप्रतिपादितान् वर्णाश्रमसम्बन्धिशौचाचमननियमानन्तर्भावयन्ति । सौधायनधर्मसूत्र-अनुशासनपर्व-शान्तिपर्वादिषु च धर्म: दस्मृतिशिष्टागमप्रतिपाद्यरूपेण त्रिधा वर्णितः। हेमाद्रि-विज्ञानेश्चरादयः धर्म विष्यपुराणदृष्ट्या षोढा विभजन्ति । यथा - वर्णधर्मः, आश्रमधर्म:, र्णाश्रमधर्मः, गुणधर्मः , निमित्तधर्म:, साधारणधर्मश्च। तत्र वर्णधर्मः यथा साह्मणो नित्यं सुरां विवर्जयेत् । आश्रमधर्मः ब्रह्मचारी नित्यं दण्डं गृह्णीयात्। वर्णाश्रमधर्मः - ब्राह्मणः ब्रह्मचारी पलाशदण्डं गृह्णीयात् । गुणधर्मः - राज्ञः जापालनम्। निमित्तधर्मः - विहितस्याननुष्ठाने प्रतिषिद्धकर्मकरणे च प्रायश्चित्तम्। साधारणधर्म: अस्तेयाहिंसादयः ।


साधारणधर्मोऽपि मनुस्मृति-विष्णुस्मृति-महाभारतादिषु वस्तृततया वर्णितः । मेधातिथिः भविष्योक्त्यनुसार सामान्यधर्मं विहाय पञ्चधा प्रतिपादयति। मनु:४९ लोकप्रचलितधर्मं महत्वमर्पयति । अत: लोकप्रसिद्ध धर्म केचन बहुधा प्रतिपादयन्ति । मनुस्मृति-आनुशासनिकपर्व-देवीभागवत-पराशरमाधवीयादिषु देशधर्म - जातिधर्म - कुलधर्म - गुणधर्म - वयोधर्म - शरीरधर्म - कालधर्म - आपद्धर्म - ग्राम्यधर्म - युगधर्मादीनां विभागाः दर्शिताः।

वर्णधर्मः स्मृतस्त्वेक आश्रमाणामतः परम् ।

near वर्णाश्रमस्तृतीयस्तु गौणो नैमित्तिकस्तथा ।।

वर्णत्वमेकमाश्रित्य यो धर्मः सम्प्रवर्त्तते ।

वर्णधर्मः स उक्तस्तु यथोयनयनं नृप ।

आश्रमञ्च समाश्रित्य यो धर्मः सम्प्रवर्त्तते । ।

स खल्वाश्रमधर्मस्तु भिक्षादण्डादिको यथा ।

वर्णत्वमाश्रमत्वञ्च योऽधिकृत्य प्रवर्त्तते ।

स वर्णाश्रमधर्मस्तु स्यान्मौजी मेखला तथा॥

यो गुणेन प्रवर्तेत गुणधर्मः स उच्यते ।

यथा मूर्धाभिषिक्तस्य प्रजानां परिपालनम् ॥

निमित्तमेकमाश्रित्य यो धर्मः सम्प्रवर्त्तते ।

नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा ॥

साधारणधर्म: महाभारते विष्णुधर्मसूत्रे च वर्णितः । [४६]

मिता., याज्ञ. स्मृ.,[४७]

अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।

एतं सामासिकं धर्मं चातुर्वण्योऽब्रवीन्मनुः॥[४८]

क्षमा सत्यं दमः शौचं दानमिन्द्रियसंयमः ।

अहिंसा गुरुशुश्रूषा तीर्थानुसरणं दया ॥

आर्जवं लोभशून्यत्वं देवब्राह्मणपूजनम् ।

अनभ्यसूयता तथा धर्मः सामान्य उच्यते ॥[४९]

श्राद्धकर्म तपश्चैव सत्यमक्रोध एव च ।

स्वेषु दारेषु सन्तोषः शौचं नित्यानसूयता ॥[५०]

मेधातिथिभाष्ये[५१] [५२]

धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः।

द्वितीयं धर्मशास्त्रं तु तृतीयं लोकसंग्रहः॥[५३]

देशधर्मान् जातिधर्मान् कुलधर्मांश्च शाश्वतान् ।

जो पाखण्डगुणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान् मनुः ॥[५४]

धर्माः बहुविधा लोके श्रुतिभेदमुखोद्भवाः।

देशधर्माश्च दृश्यन्ते कुलधर्मास्तथैव च ॥

जातिधर्माः वयोधर्माः गुणधर्माश्च शोभने ।

शरीरकालधर्माश्च आपद्धस्तिथैव च।

एतद्धर्मस्य नानात्वं क्रियते लोकवासिभिः ॥[५५]

५३. ग्रामधर्मा जातिधर्माः देशधर्माः कुलोद्भवाः ।

परिग्राह्या नृभिः सर्वैः नैव तान् लङ्घयेन्मुने ।[५६]

५४. कृतेऽभूत् सकलो धर्मस्त्रेतायां त्रिपदः स्थितः।

पादः प्रविष्टोऽधर्मस्य मत्सरः द्वेषसम्भवः ॥

धर्माधौ समौ भूत्वा द्विपादौ द्वापरे स्थितौ ।

तिष्येऽधर्मस्त्रिभिः पादैः धर्मः पादेन संस्थितः ।।[५७]

एते धर्माः कदाचिदपि परिवर्तिताः सन्त: युगधर्मादिवत् वैरूप्यं धारयन्ति। युगधर्मा अपि कृतयुगे यथावदनुष्ठिताः भवन्ति । युगसामर्थ्येन त्रेतादिषु क्रमेण क्षीयमाणाः धर्माः कलियुगावसाने सर्वात्मना विनष्टाः भवन्ति। एते धर्माः लोकाचाररूपा: न कदापि अनादरणीयाः भवेयुः । एतेषु नानाविधेषु धर्मविभागेषु वर्तमानेषु लोकाचारनिमित्तमावश्यकनियमाः प्राधान्येन एषु धर्मेष्वन्तर्भुक्ताः। मुनिभिः प्रतिपादितेष्वाश्रमेष्वेव एते सर्वे धर्मा: अन्तर्भाविताः। तथापि गौतम-बौधायनादयः जातिदेशधर्मादीनां परस्परं विप्रतिपत्तिनिवारणाय तेषां पृथक् स्वरूपं स्पष्टीकृतवन्तः।

धर्मस्य मुख्यपुरुषार्थत्वम्सम्पाद्यताम्

स्वाभिलाषानुरूपाणि पुरुषप्रयोजनानि चतुर्द्धा विभज्यन्ते। ते च पुरुषार्था: शास्त्रेषु धर्मार्थकाममोक्षभेदेन चतुर्धा प्रतिपादिताः। अपौरुषेयस्य वेदस्यानुमापकतया स्मृत्यादीनामपि वेदानुकरणेन धर्मे प्रामाण्याद् धर्मशास्त्रं पुरुषार्थचतुष्टयस्य प्रमुख प्रतिपादकम् । जीवनस्य सर्वेषु कालेषु धर्मस्य प्रभावः साक्षात् परम्परया वा वर्त्तते । अतः पुरुषार्थचतुष्टयेषु धर्मस्य श्रेष्ठत्वं सर्वे: स्वीक्रियते। पुरुषार्थेषु पुरुषस्य प्रवृत्तिः सुखायैव भवति । जीवमात्रस्य सुखमत्यन्तमभीष्टम् । तस्माद् धर्मार्थकामा: पुरुषार्थाः प्रथमत आहरणीयाः। अनन्तरमनायासेनैव मोक्ष: सिद्ध्यति । एतेषां पुरुषार्थानां नियन्त्रकः धर्मः। पुनश्च सकामभावेन धर्माचरणं न कृत्वा निष्कामभावेन कुर्यात् । अर्थोपार्जन त्यागाय, कामसेवनं पुन: शरीररक्षणायैवाऽऽचरणीयम्। एतेषां धर्मार्थकामानां पुरुषार्थत्रयाणां विशुद्धाचरणेन मोक्षप्राप्ति म चतुर्थः पुरुषार्थ:५५ सिद्ध्यति । चतुर्वर्गेऽर्थकाममोक्षाणां पुरुषार्थानां मूल: धर्मः।

तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते ।

त्रिवर्गोऽर्थो यतो नित्यं कृतान्तभयसंयुतः ॥[५८]

पुरुषार्थचतुष्टयस्य विशदविवरणं धर्मशास्त्रे एव प्राधान्येन प्राप्यते । सर्वेषु विषयेषु पुरुषार्था: प्राधान्येन वर्ण्यन्ते। यत: धर्मशास्त्रं शृङ्खलितजीवन धारणायैवोपदिष्टम् । अतः मनुष्यस्य परमाकाङ्कितपुरुषार्थानां वर्णनं तत्रैव सन्निविष्टम् । प्रथमत: 'सत्यं वद , धर्मं चर' इत्यादिना धर्मस्य, तथा शरीरस्य विना क्लेशं, सत्यपथे स्थित्वा श्ववृत्त्यादिवर्जनपूर्वकं धनार्जनं विधेयमि त्यादिनाऽर्थस्य , पर्वकालं विहाय स्त्रियां रतिवासनां प्रपूरयेदित्यादिना कामस्य, पुनश्च 'सर्वमात्मनि संपश्येदि'त्यादिना मोक्षस्य वर्णनं भवति ।

यथा - धर्मपालनं ब्रह्मचर्याश्रमे मुख्यतया विहितम् । गृहस्थाश्रमे धर्योपायेनार्थ कामयोरर्जन सेवनञ्च विहितम् । पुनश्च वानप्रस्थाश्रमे संन्यासाश्रमे च मोक्षे चित्त निवेश्य कामार्थौ परित्यज्य च धर्मपालनमुपदिष्टम् । तत्रापि धर्ममात्रं यथायोगं सर्वेषां साधनम् । अतः प्रवृत्तिनिवृत्त्यात्मकतया द्विविधस्यापि५६ धर्मस्य पुरुषार्थसाधनतोक्ता । धर्मादेवेहलौकिकं पारलौकिकं च सुखं जायते । अत: पुरुषार्थचतुष्टयप्राप्तये धर्मशास्त्रमेव सर्वथाऽऽदरणीयं सर्वेषाम् ।

प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।[५९]

धर्मस्य महत्त्वं सर्वजनविदितम्। अनियतेऽपि संसारे धर्मस्यैव नियतत्वं सर्वैरनुभूयते। अतस्तस्य प्रतिपादकशास्त्रत्वेन धर्मशास्त्रस्य महत्त्वमत्यन्तं राजते। धर्मशास्त्रमेव मानवचरित्रस्य नियामकम् । धर्मशास्त्रस्योद्देश्य प्रत्यक्षसिद्धम् । मनुष्य: स्वाभिलषितपदार्थान् यस्मात् प्राप्तुं शक्नोति, तस्य प्रतिपादनमेव धर्मशास्त्र स्योद्देश्यम्। धर्मः परलोकेऽपि कर्मानुसारं फलं ददाति। अत: परलोकविश्वास: हिन्दुधर्मस्य मुख्याधारः। मनुष्यस्य मरणकाले यद्यपि प्रियजनेषु न कोऽपि सहायको भवति तथाऽप्यसौ धर्म एक एव तमनुसरतीत्येव धर्मस्य नित्यसहायकत्वं वैशिष्ट्यञ्च -

प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।[६०]

एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः।

शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥[६१]

धर्माद्राज्यं धनं सौख्यमधर्माद् दुःखसम्भवः।

तस्माद् धर्मं सुखार्थाय कुर्यात् पापंच कीर्तयेत् ॥[६२]

वेदोपनिषत्स्वपि धर्मस्य माहात्म्यं प्रतिपादितम् । धर्मं विना विश्वस्य स्थितिरपिन सम्भवति। श्रुतिस्मृतिप्रतिपादितधर्माणामाचरणं कृत्वा मानवः परत्रेह च सुखस्याधिक्यं फलं प्राप्तुमर्हति । स्कन्दपुराणमपि धर्मस्य प्रशंसां कृत्वा धर्माद्राज्यधनसुखादीनां प्राप्तिर्भवतीति प्रतिपादयति । चतुर्वर्गचिन्तामणौ धर्मादेवेतरपुरुषार्थसिद्धि: वर्णिता । धर्मः रक्षितो रक्षकं रक्षति । य: धर्महानिं करोति धर्मोऽपि तं नाशयति । अत: सर्वथा धर्मयुक्तकर्माणि विद्वानाचरेदिति शास्त्रकाराणामादेशः -

धर्मात् सञ्जायते ह्यर्थो धर्मात् कामोऽभिजायते।

धर्मादेव परब्रह्म तस्माद् धर्म समाश्रयेत् ॥[६३]

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः।

तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् ॥[६४]

धर्मे मतिर्भवतु व: सततोत्थितानां ।

स ह्येक एव परलोकगतस्य बन्धुः।[६५]

धर्मशास्त्रस्य उत्पत्तिः विकासश्चसम्पाद्यताम्

धर्मशास्त्रं नाम सकलशास्त्रपुरस्कृतं निखिललोकसुरक्षकं कृत्याकृत्य विवेकप्रतिपादकत्वेन नित्यनियतोपादेयं साक्षाद् वेदार्थानुमापकत्वेन वेदवत् प्रमाणभूतं तप:स्वाध्यायपूतचरित्राणां मनुगौतमवसिष्ठादीनामनवरतस्वाध्याया ध्ययनपूतकण्ठोद्गीर्णत्वेन परमपवित्रं गुणिगणसमादरणीयं सर्वजनग्रहणीय शास्त्रम् -

धर्मशास्त्रस्य लक्षणमिदं पण्डितश्रीकुलमणिमिश्रशर्मणा श्रीदेवयानपत्रिकायां प्रतिपादितम् ।

धर्मस्य मूलं वेद एव। स च वेदः सर्वासां विद्यानां मूलभूतः। वेदवृक्ष माश्रित्य सर्वाणि शास्त्राणि प्रभवन्ति । तस्यैव वेदस्य षडङ्गानि सन्ति । तानि यथा शिक्षा, कल्पः, व्याकरणं, छन्दः,निरुक्तं, ज्योतिषञ्चेति । एतेषु वेदाङ्गेषु कल्पभागे एव धर्मशास्त्रस्यान्तर्भावः। अत: कल्पभागादेव धर्मशास्त्रस्योत्पत्तिः समभूत् । कल्पभाग: वेदपुरुषस्य हस्ततुल्यो भवति । प्राचीनशास्त्रवत् कल्पभागोऽपि सूत्रमय आसीत् । कल्पसूत्रं चतुर्विधं भवति । श्रौतसूत्रं, शुल्वसूत्रं, धर्मसूत्रं, गृह्यसूत्रश्चेति । तत्र श्रौतसूत्रेषु यागानुष्ठानविधयः, शुल्वसूत्रेषु यागवेदि-यागपात्रकुण्डादीना निर्माणविधयः, धर्मसूत्रेषु धर्मशास्त्रीयविषयाणां विचाराः, गृह्यसूत्रेषु च कर्मकाण्डीयविषयाणां संस्कारादीनामनुष्ठानविधयः प्रतिपादिताः सन्ति।

वेदान्तर्गतानां निखिलविषयाणां प्रतिपादकत्वाच्छ्रुत्यनन्तरं धर्मविषये स्मृतेरेव मान्यता स्वीक्रियते । श्रुतेश्च विप्रकीर्णत्वेनालब्धत्वात् सनातनी धर्म धर्मशास्त्रग्रन्थानामेव मौलिकं महत्त्वं विद्यते । अस्यैव धर्मशास्त्रस्य काल पि. भि. काणेमहोदयानां मतानुसारं निरुक्तकारस्य यास्कस्य कालादेव प्रारभ्यते।

तत्र निरुक्तस्य३ तृतीयकाण्डे प्रतिपादित: दायभागविषय: विचारपथमागच्छति। कौशीतक्युपनिषद्यपि४ दायसम्बन्धिनौ मनूक्तश्लोकावुदाहृतौ । अत एवोपनिषत् कालेऽपि धर्मशास्त्रस्य प्रामाण्यमवर्त्तत --

अर्थतां जाम्या रिक्थप्रतिषेध उदाहरन्ति । ज्येष्ठं पुत्रिकाया इत्येके ।[६६]

अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे ।

आत्मा वै पुत्रनामासि स जीव: शरदः शतम् ॥

अविशेषेण पुत्राणां दायो भवति धर्मतः।

मिथुनानां विसर्गादौ मनुः स्वायम्भुवोऽब्रवीत् ॥[६७]

गौतमधर्मसूत्रेऽपि ‘तस्य च व्यवहारो वेदाः धर्मशास्त्राणि' इत्यादिना गौतमवचनेनैतत् स्पष्टीभवति यत्तदानीन्तनकालेऽपि धर्मशास्त्रस्य प्रचलनमासीत्। महाभारत - रामायणादिषुः मनूक्तधर्मशास्त्रस्य बहूनि प्रमाणवचनानि दृश्यन्ते। अत: महाभारतरामायणादीनां कालत: प्रागेव धर्मशास्त्रस्योत्पत्तिरभवत् । पतञ्जले: व्याकरणमहाभाष्येऽपि धर्मशास्त्रीयग्रन्थानामुदाहरणानि इतस्तत उद्धृतानि। अत: वैदिककालादारभ्यैव धर्मशास्त्रस्योत्पत्तिरिति भारतीयपरम्पराऽवितथरूपेण प्रमाणमधिगच्छति[६८] -

तैरेवमुक्तो भगवान् मनु: स्वायम्भुवोऽब्रवीत् ।

शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः॥[६९]

राजभिभृतदण्डास्तु कृत्वा पापानि मानवाः।

निर्मला: स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥

मा शासनाद्वा विमोक्षाद्वा स्तेन: पापात् प्रमुच्यते ।

राजा त्वशासन् पापस्य तदवाप्नोति किल्विषम् ।।[७०] [७१]

पूर्वप्रतिपादितधर्मलक्षणानां पर्यालोचनेनैतत् स्पष्टीभवति यत् निखिलैरपि शास्त्रकारैः वेद एव धर्ममूलत्वेनाङ्गीकृतः। किन्तु वेदेषु धर्मशास्त्रान्तर्गताः सर्वे विषयाः न सन्ति। वेदानां विप्रकीर्णत्वात् सर्वतोभावेनानुपलब्धत्वात्ते ते विषयाः स्मृतिष्वनुसन्धेयाः। एतदपि जैमिनिना पूर्वमीमांसायां स्मृतिप्रामाण्याधिकरणे सिद्धान्तितम् । सर्वे वेदगता: विषया: धर्मशास्त्रेऽस्मिन् प्रतिपादिताः। मन्वादिभिः सर्वेषां ज्ञानार्थं सरलसुबोधशैल्या धर्मशास्त्रे समग्र: वेदार्थः प्रतिपादितः। वेदविषयानुद्धृत्य धर्मशास्त्रं मानवसमाज सन्मार्गमुपदिशति।

वेदेषु विवाह-वर्णाश्रम-पुत्रभेद-उत्तराधिकारिनिर्णय-धनविभाग श्राद्धादिविषयका: बहवः प्रसङ्गा उपलभ्यन्ते। ते प्रसङ्गाश्च कालक्रमेण धर्मशास्त्रस्य विषयीभूताः। यास्कमतानुसारं पुत्रिकाग्रहणविधिः ऋग्वेदे दृश्यते । भ्रातृहीना कन्या वरं लब्धुं न शक्नोतीति ऋग्वेदे दृश्यते। मनु - याज्ञवल्क्यस्मृत्यादिष्वपि तत्त्वमिदं स्पष्टमुद्घोषितम् । ऐतरेयब्राह्मणे शुन:शेपोपाख्याने औरसपुत्रे विद्यमानेऽपि दत्तपुत्रग्रहणं युज्यत इति प्रतिपादितम्। तैत्तिरीयसंहितायामत्र्युपाख्याने दत्तपुत्रग्रहण विधि: विवृतोऽस्ति। ज्येष्ठपुत्रस्य श्रेष्ठभागस्तैत्तिरीयसंहितायां प्रतिपादित: । आपस्तम्बधर्मसूत्रे बौधायनधर्मसूत्रे चायमेव विषयः गृहीतः। ऋग्वेदे ब्रह्मचारिणः प्रशंसनं क्रियते , तदाचरणविधिश्च निर्णीयते । तथैव मनुसंहितायामपि ब्रह्मचारिणः कर्त्तव्यं निरूपितम् -

अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम् ।

कृधि प्रकेतमुपमास्या भरदद्धि भागं तन्वो येन मामहः ॥[७२]

तस्माज्येष्ठपुत्रं धनेन निरवसाययन्ति । (तैत्तिरीयसंहितायां)[७३]

शतपथब्राह्मणे तैत्तिरीयारण्यके ७२ च पञ्चमहायज्ञानामुल्लेखोऽस्ति । धर्मशास्त्रेऽपि पञ्चमहायज्ञा: मानवस्य कर्त्तव्यरूपेणोपदिष्टाः । अत एव विविधैरुदा हरणैः प्रतिपाद्यते यद् वेद एव धर्मशास्त्रस्य मूलम् । वेदस्तु कर्मकाण्ड-ज्ञानकाण्ड भेदेन द्विधा विभज्यते। धर्मशास्त्रस्याङ्गविशेषैः धर्मसूत्रैः सह वेदाङ्गभूतस्य कल्पस्य साक्षात् सम्बन्धसत्वादस्य प्रमाणं वेदा एवेति निश्चप्रचम् । परवर्तिनि काले धर्मसूत्रकारा: श्रौतसूत्राणां गृह्यसूत्राणाञ्च विधानान्यनुसृत्य स्वग्रन्थेषु कर्माणि निर्दिशन्ति -

पञ्च वा एते महायज्ञाः शतति प्रतीयन्ते । शतति संतिष्ठते ।

देवयज्ञः पितृयज्ञः भूतयज्ञः मनुष्ययज्ञः ब्रह्मयज्ञश्चेति ।

धर्मशास्त्रस्य शास्त्रत्वम्सम्पाद्यताम्

धर्मस्य मूलं वेद एव । धर्मादयः पुरुषार्थाः यत्र विद्यन्ते स एव वेद इति व्युत्पत्त्या इतरपुरुषार्थानां वेदे वर्तमानत्वेऽपि धर्मस्य मुख्यतया वर्णन विहितम्। अनन्तरं धर्मस्य विस्तृतवर्णनं धर्मशास्त्रे एव क्रियते । अतस्तस्य धर्मशास्त्रं नाम। तस्यापरा संज्ञा स्मृतिः। अनयोः स्मृतिधर्मशास्त्रयोः नान्तरं महत् । मनुना वेदधर्मशास्त्रयोः भेदप्रदर्शनावसरे धर्मशास्त्रस्यैव स्मृतिपदवाच्यता प्रदर्शिता । तस्य धर्मशास्त्रस्य पुनः वेदस्मरणमाध्यमेन प्रतिपादितत्वात् स्मरन्ति वेदमनया इति स्मृति:, अथवा महर्षिभिः वेदार्थचिन्तनं स्मृतिरिति सिद्धमेव -

श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।[७४]

याज्ञवल्क्योक्त्यनुसार विद्यायाः चतुर्दशत्वे सिद्धे सति वेदातिरिक्ता अन्या: दशविद्याः स्मृतिरूपाः। ताः चतुर्दशविद्या: याज्ञवल्क्येनाचाराध्याये प्रतिपादिताः। ताश्च पुराणं ब्राह्मादि वक्ष्यमाणम् । न्यायः गौतमीयं, काणादं कापिलं,पातञ्जलं शास्त्रञ्चेति चतुर्विधं प्रमाणादिनिरूपणशास्त्रं गौतमादि प्रणीतम्। मीमांसा जैमिनिप्रणीता कर्ममीमांसा, शाण्डिल्यप्रणीता भक्तिमीमांसा, वादरायणप्रणीता ब्रह्ममीमांसा च। धर्मशास्त्रं च मनुयाज्ञवल्क्यादि प्रणीतम् । अङ्गानि शिक्षा, कल्पो , व्याकरणं, निरुक्तं, छन्दः, ज्योतिषमिति। एतैरुपेताश्चत्वारो वेदाः। एतासां चतुर्दशविद्यानां स्वर्गाद्यपवर्गसाधनकर्मब्रह्मज्ञानानां स्थानानि धर्मस्य च निमित्तानि। अत एतेषां धर्मस्थानत्वमित्युक्तम् -

पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः।

वेदा: स्थानानि विद्यानां धर्मस्य च चतुर्दश।[७५]

अङ्गिरास्तु शास्त्रीयज्ञानवर्जितं यत् किञ्चिदेव कर्म विचारपूर्वकं क्रियते तत्सर्वं बालकानां क्रीडेव निष्फलं भवतीति प्रतिपादयति । स्मृतिशब्दस्योक्तदश विद्यावाचकत्वे प्रमाणं श्रुतिः स्मृतीति याज्ञवल्क्यवचनमेव ।[७६]

स्वाभिप्रायकृतं कर्म यत् किञ्चिद् ज्ञानवर्जितम् ।

क्रीडाकर्मेव बालानां तत्सर्वं निष्प्रयोजनम् ।।[७७]

अत्र स्मृतिपदस्य मन्वादिप्रणीतधर्मशास्त्रमात्रपरत्वे पुराणन्यायेत्यादिना पूर्वोक्तवाक्येन सह विरोधो दुष्परिहरः स्यात्। श्रुतिस्मृतीति पञ्चानामेव धर्ममूलत्वेन प्रतिपादनादेतादृश विरोधपरिहाराय चात्र स्मृतिपदेन दशानामपि विद्यानां ग्रहणस्यावश्यमभ्युपेयत्वात्। अत एव व्याकरणस्मृतिः सांख्यस्मृतिरिति व्यवहारोऽपि संगच्छते। सङ्गच्छते च स्मृतिप्रामाण्यनिरूपणप्रकरणे व्याकरणप्रामाण्यनिरूपणं जैमिनीयम् । एवं स्मृतिपदस्य विशेषतो मन्वादिप्रणीतधर्मशास्त्रवाचकत्वमपि। मनुना स्मृतिधर्मशास्त्र योरैक्यं प्रदर्शितम् । याज्ञवल्क्यस्य चतुर्दशविद्याव्याख्यानावसरे विष्णुपुराणं धनुर्वेदायुर्वेदादीनामपि विद्यात्वं स्वीकृत्याष्टादशत्वं साधयति -

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः।

धर्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दश ॥

आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः।

अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव ताः॥[७८]

आयुर्वेदादीनां चतसृणां विद्यानामपि न स्मृतित्वं नापि श्रुतित्वशङ्का । यतः विद्यानामष्टादशत्वेऽपि स्वर्गापवर्गसाधनकर्मब्रह्मज्ञानैकस्थानभूतानां धर्मप्रधाना नामेव विद्यानां याज्ञवल्क्यमहर्षिणा चतुर्दशतया परिगणनम् । विष्णुपुराणे तु धर्मशास्त्रस्येतिहासः दृष्टार्थप्रधानाश्चायुर्वेदादिविद्या अपि सम्मिल्याष्टादशतया परिगणिता इत्यविरोधः। याज्ञवल्क्योक्तचतुर्दशविद्या: प्रधानत: धर्ममेव प्रतिपादयन्ति। परन्तु आयुर्वेदाद्यास्तु चतस्रोऽनुषङ्गतो धर्मं प्रतिपादयन्त्योऽपि प्राधान्यादर्थकामावेव प्रतिपादयन्ति ।

प्राधान्येन धर्मप्रतिपादकान्येव शास्त्राणि स्मृतिपदेनोच्यन्ते । क्वचिदव्यव हृतञ्चार्थकामप्रधानानां चरमाणां चतसृणां न स्मृतित्वम् । न हि श्रुतिभिन्नत्व मात्रं स्मृतित्वे प्रयोजकम् । काव्यादीनामपि स्मृतित्वप्रसङ्गाम्। श्रुतिस्मृतिविरोधे दृष्टलोभादिमूलकत्वे वा स्मृतेरप्रामाण्यमेव। जैमिन्यनुसारं सांख्ययोगपाञ्चरात्र पाशुपताद्यसाधारणधर्माधर्मप्रतिपादकानां तथा म्लेच्छाचारादीनां प्रतिपादकस्मृति वाक्यानामप्रमाणता सिद्ध्यत्येव । नोचेत् तेषामपि शास्त्राणां धर्मे प्रमाणत्व मागमिष्यति। तेषु धर्मनिर्णयशास्त्रत्वप्रसङ्गे धर्मशास्त्रस्यैव प्राथम्यं वरीवति । पूर्वप्रतिपादितधर्मस्यैव प्रतिपादकं शास्त्रं धर्मशास्त्रम् ।

वेदस्य निखिलभागस्य धर्मप्रतिपादकत्वेन तस्यैव शास्त्रत्वे प्रामाण्यम्। सर्ववेदद्रष्टुत्वेन मनुरेव प्रमाणम् । परन्त्वन्येषां वेदाङ्गानां मीमांसादीनामपि वेदैः परम्परया सम्बन्धानां न धर्मशास्त्रवत् प्रत्यक्षसम्बन्धः। पुराणानामपि वर्णनीय पुरुषप्रवृत्तिवर्णनपरतया नैकान्ततो धर्मपरतेति न तेषां प्राधान्येन धर्मशास्त्रत्वम्। मन्वादिप्रणीतान्येव शास्त्राणि धर्मशास्त्राणीति आर्यजनपरम्पराप्रसिद्धानि ।

अन्यत्रापि तैत्तिरीयारण्यक- पाणिनीयव्याकरणादिषु स्मृतिशब्देन वेदैः सह सम्बन्धितशास्त्रत्वेनैव व्याख्या विधेया। वेदानुमापकग्रन्थेषु श्रेष्ठत्वाद् धर्मशास्त्रस्यैव स्मृतित्वसिद्धिः युक्ता प्रतिभाति । यत: व्यापकार्थविशिष्टः धर्मः समग्रवेदवाङ्मयस्य विधिनियमाननुसरति। यद्यपि वेदार्थानुमापकग्रन्थत्वेन व्याकरणगृह्यसूत्रपुराणादीनां शास्त्रान्तराणामपि स्मृतिसंज्ञा यौगिकी तथापि धर्मशास्त्राणां पङ्कजादिशब्दवत् सा योगरूढा -

वृषो हि भगवान् धर्मः।[७९]

चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।

त्रिधा बद्धो वृषभो रोरवीति महो देवो महँ आविवेश ।[८०]

अस्य मन्त्रस्य विशिष्टार्थः मदीयगुरुपादैः पण्डितकुलमणिमिश्रमहोदयैः धर्मशास्त्रशब्दकोषस्य प्रथमखण्डे भूमिकायां (पृ.१८.) प्रकाशितः।

धर्मशास्त्रवाङ्मयस्य परिचयःसम्पाद्यताम्

श्रुत्यनुमापकत्वेन प्रमाणभूतस्य धर्मशास्त्रस्य निखिला: विषया: सामान्यतः त्रिधा विभज्यन्ते । सर्व एव विषयाः धर्माधर्मावेव प्रतिपादयन्ति। स चायं धर्मः कर्तुरभिमतफलवर्षणान्मन्वादिभिः वृष इत्युच्यते । भगवान् वेदोऽपि धर्मं वृषाकृतिमाचष्टे । अस्य विलक्षणवृषभरूपस्य धर्मस्य चत्वारि शृङ्गाणि यथाक्रम धर्मस्य वेद- स्मृति- सदाचारात्मतुष्ट्यादि लक्षणानि । तस्यैव धर्मवृषस्य त्रयः पादाः। ते चाचार -व्यवहार- प्रायश्चित्त- काण्डत्रयरूपाः। अतः धर्मशास्त्रस्य विषया: आचार- व्यवहार - प्रायश्चित्तभेदैः विभज्यन्ते।

धर्मः श्रौतस्मार्त्तभेदेन द्विधा विभक्तः । स्मार्त्तधर्म: धर्मशास्त्रस्य विषयीभूतः। तत्रार्याणां क्रियमाणानां सकलधर्मार्जनविधयः तथाऽधर्मनिवारणाय प्रतिषेधा अपि वर्णिताः । वर्णाश्रमधर्म- षोडशसंस्कार- गार्हस्थ्यधर्म - पञ्चमहायज्ञ भक्ष्याभक्ष्यनिरूपण - द्रव्यशुद्धि - जननमरणाशौचनिरूपण - श्राद्ध- राजधर्म - ऋणादानाद्यष्टादशव्यवहारपद- आपद्धर्मप्रकरण- प्रायश्चित्तनिरूपण- कृच्छ्रचान्द्रा यण- व्रतोत्सर्ग- प्रतिष्ठा- तीर्थयात्रादय: विषया: धर्मशास्त्रे सन्निविष्टाः। अत एव धर्मस्य तत्त्वं मानवस्य समग्रजीवनमभिव्याप्योपदिष्टम् ।

पूर्वोक्तेषु त्रिषु काण्डेषु आचार एव वैशिष्ट्यं धारयति । मनुष्यस्य दिनचर्या, रात्रिचर्या , देशाचार- कुलाचार- जात्याचारादीनां वर्णनं, सर्वेषां वर्णानां तथा ब्रह्मचर्य-गृहस्थाश्रमयोः वर्णनं, तेषां विशेषाधिकाराश्च, सर्वे गर्भाधानाद न्त्येष्टिपर्यन्तं संस्काराः, ब्रह्मचारिनियमाः, अनध्यायाः, अभक्ष्यभक्षण, स्नातकधर्माः, गृहस्थाश्रमस्य विवाहादित: वानप्रस्थाश्रमग्रहणपर्यन्तं सर्वे नियमाः, व्रतोपवासाः, दानानि, प्रतिष्ठाः, देवपूजा - पितृपूजा - नृपूजादीनां पञ्चमहायज्ञाना मनुष्ठानविधिः, द्रव्यशुद्धिः, श्राद्धस्य भेदाः, कर्त्तव्यविधिः, निखिलनियमानां प्रतिपादनं, तीर्थस्थानमित्येते विषया: आचारकाण्डान्तर्गताः। आचाराध्याये सर्वविधधर्मोत्पादककर्मणां प्रतिपादनाद् धर्मशास्त्रे स एव मुख्यरूपं धारयति । व्यवहारभागे क्षत्रियधर्माः प्रतिपादिताः । राजगुणोपेतः क्षत्रियोऽभिषेकानन्तरं प्रजापालनं कुर्यात् । नृपतेः स एव परमो धर्मः। राज्ञः व्यवहारदर्शनविधिरत्र मुख्यतः प्रतिपादितो भवति। राज्ञः शत्रुसकाशादात्मरक्षणम्, प्रजारक्षणं, देशरक्षणं, दुर्गव्यूहादीनां रचनं, राज्यस्य षडङ्गानाममात्यदुर्गजानपदादीनां पालनं, प्राड्विवाकादीनां नियोगः , तेषां साहचर्येन व्यवहारपदानां समाधानं, विवादानां विचारः, धनस्य दायादेषु विभाजनं चेत्यादय: विषया: काण्डेऽस्मिन् प्रतिपादिताः।

अन्तिमभागो भवति प्रायश्चित्तकाण्डः । तत्र विशेषत: निमित्तधर्मः वर्णितः। मोक्षप्रधानयोर्वानप्रस्थसंन्यासाश्रमयोरपि तत्र योगीश्वरेण समावेशः कृतः। शौचाशौचयोवर्णनम्, पापस्य स्वरूपप्रतिपादनं,पापोत्पत्तिकारणानि, पापकर्मणां महापातक-अतिपातक-उपपातक-पातक-संकरीकरण-मलिनीकरणादिषु विभागेषु विभाजनं, तेषां पापानामपनो दनार्थं प्रायश्चित्तप्रतिपादनं, प्रायश्चित्तरूपव्रताङ्गभूत- कृच्छ्र-चान्द्रायण-प्राजापत्यादीनां वर्णनं विभागेऽस्मिन् निवेशितम् । अत: धर्मशास्त्रस्य सर्वेऽपि विषया एषु त्रिषु काण्डेषु प्रतिपाद्यन्ते। त्रिषु काण्डेषु प्रथमत: वर्णधर्म - आश्रमधर्म -वर्णाश्रमधर्माणामाचारभागे तथा गुणधर्म: व्यवहारकाण्डे, निमित्तधर्मश्च प्रायश्चित्तभागे वर्ण्यन्ते। सामान्यधर्मश्च सामान्यतः सर्वेषु भागेषु स्थानितो भवति ।

धर्मशास्त्रस्य वाङ्मय: मात्रायां महत्त्वं धारयति । असौ वाङ्मयः विशाल वृक्षरूपः। अस्य वाङ्मयस्येतिहासः काणेमहोदयानां मतानुसारं त्रिभिः कालैः विभज्यते । यथा -

१. सूत्रकालः - ख्रीष्टात् पूर्वं ५०० तः - ३०० ख्रीष्टाब्दपर्यन्तम् ।

२. स्मृतिकालः - ख्रीष्टात् पूर्व ५०० तः - ५०० ख्रीष्टाब्दपर्यन्तम् ।

३. भाष्यनिबन्धकालः - ८०० ख्रीष्टाब्दात् - १९५० ख्रीष्टाब्दपर्यन्तम् ।

धर्मशास्त्रसाहित्यस्य विकासःसम्पाद्यताम्

धर्मशास्त्रस्य सहस्राधिकाः उपलभ्यमानाः ग्रन्थाः प्रायशः २५ दशकेभ्यः पूर्वदारभ्य धारावाहितया अद्यापि लभ्याः सन्ति । धर्मशास्त्रग्रन्थाः रचनाशैलीम् अनुसृत्य सूत्र-स्मृति-टीकादिभिः विभक्ताः सन्ति । रचनाकालादारभ्य समर्थतया विभक्ताः सन्ति एते ग्रन्थाः । धर्मशास्त्रस्य ग्रन्थाः आदौ धर्मप्रचारयोग्यं प्रदेशं दर्शयन्ति । मनुस्मृतौ सरस्वती दृषद्वती नद्योः विद्यमानं मध्यभागं (प्रदेशं) ब्रह्मावर्तमिति उपदिष्टम् अस्ति । कुरुक्षेत्र-मत्स्य-पाञ्चाल-शूरसेनप्रदेशाणां प्रदेशः ब्रह्मर्षिदेशः इति । हिमवद् विन्द्यपर्वतयोः मध्ये विद्यमानं कुरुक्षेत्रं पूर्वप्रदेशः इति, प्रयागस्य पश्चिमदिशि विद्यमानं प्रदेशं मध्यदेशः इति, पूर्वपश्चिमसमुद्रयोः हिमवद् विन्द्यपर्वतयोः च विद्यमानयो मध्यविशालप्रदेशम् आर्यवर्तप्रदेशः इति च निर्दिष्टः अस्ति । एतेषु उत्तरोत्तरदेशस्यापेक्षया पूर्वदेशाः धर्मानुष्ठाय योग्याः इति ।

धर्मशास्त्रस्य प्रमेयाःसम्पाद्यताम्

धर्मशास्त्रे सामान्यतया विषयाः त्रिषु विभागेषु विभक्ताः । आचारः, व्यवहारः, प्रायश्चित्तञ्च इति । वेदेषु विद्यमानाः बीजरूपविषयाः धर्मसूत्रेषु निबद्धाः सन्ति । मनोः, याज्ञवल्क्यस्य, नारदस्य, पराशरस्य च स्मृतिषु शास्त्रीयदृष्ट्या विभागः कृतः अस्ति ।

आचारःसम्पाद्यताम्

आचारः नाम श्रुतिस्मृतिप्रोक्तं शास्त्रीयम् आचरणम् । अस्मिन् व्यक्तिजीवने, सामाजिकजीवने, गृहजीवने च अनुसरणीयाः नीतयः नियमाश्च, मानवेन आजीवने अनुसरणीयाः संस्काराः, संस्कारानन्तरं करणीयाः आचारनियमाः च निरूपिताः ।
आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च [८१]-मनस्मृतिः,-१-१०८
आचारः परमो धर्मः सर्वेषामिति निश्चयः[८२]-वसिष्ठः,६,१
चतुर्णामपि वर्णानामाचारो धर्मपालकः [८३]
आचारहीनः षडङ्गसहितं वेदं पठति चेदपि निष्फलं भवति । आचारयुक्तः चेदेव सम्पूर्णफलं प्राप्नोति । तपसः आधारः आचारः एव भवति । सदाचारः एव धर्मस्य मूलम् । आचारेण आयुष्यम्, इष्टार्थसिद्ध्यादीः च लभ्यन्ते । अशुभं नाशयति च । दुराचारी लोके निन्दितः भवति, दुःखभाजनः सततव्याधिग्रस्थः अल्पायुः च भवति । धर्माचरणे निरतः एवं चिन्तयन्ति, वयं फलं न प्राप्नुमः, दुःखमयं जीवनं, दारिद्र्यञ्च बाधते इति । एतेषां प्रश्नानाम् उत्तरं मनुः एवं वदति,
नाधर्मश्चरितो लोके सद्यः फलति गौरिव ।
शनैरावर्तमानस्तु कर्तुर्मूलानि कृन्तति ॥
यदि नात्मनि पुत्रेषु न चेत्पुत्रेषु नप्तृषु ।
न त्वेव तु कृतो धर्मः कर्तुर्भवति निष्फलम् ॥
अधर्मेणैधते तावत्ततो भद्राणि पश्यति ।
ततः सपत्नान् जयति समूलस्तु विनश्यति ॥

  • आचारकाण्डे प्रमुखाः विषयाः वर्णधर्मः, आश्रमधर्मः, अनयोः धर्मयोः सम्बद्धाः संस्काराः च निरूपिताः ।

वर्णधर्मःसम्पाद्यताम्

सर्वेषु धर्मशास्त्रग्रन्थेषु अस्याः वर्णव्यवस्थायाः निरूपणं कृतम् अस्ति । चत्वारो वर्णाः ब्राह्मणक्षत्रियवैश्यशूद्र इति । "ब्राह्मणोऽस्य मुखमासीत् बाहु राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्ब्भ्यां शूद्रो अजायत"[८४] इति ऋग्वेदे अपि वर्णितम् अस्ति । वर्णविभजनस्य उद्देश्यं तु लोकस्य अभिवृद्धिः एव । उक्तं तद्यथा,
लोकानां विवृध्यर्थं मुखबाहूरुपादतः ।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥

आश्रमव्यवस्थासम्पाद्यताम्

धर्मशास्त्रे चात्वारः आश्रमाः व्यवस्थितया निरूपितवान् अस्ति । ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-सन्यासादयाः (चत्वारः) आश्रमाः । आश्रमाणां धर्माचरणम् उपनयनोत्तरम् इत्येव निर्दिष्टमिति ।

  • ब्रह्मचर्याश्रमः- मुख्यः आदिमः आश्रमः। सद्गृहस्थः भवितुम् अस्य आश्रमस्य प्रामुख्यता वर्तते । ब्रह्मचर्यशब्दस्य अर्थः वेदानाम् अध्ययनम् एवं तेषां अनुष्ठानं च भवति । केचन नियमाः यथा,

षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।
तदर्धकं पादिकं वा ग्रहणान्तिकमेव वा ॥
वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममासेत् ॥[८५]

  • गृहस्थाश्रमः- सकलाश्रमाणाम् आधारभूतः अतिमुख्यः च आश्रमः गृहस्थाश्रमः । सकलाश्रमाणां आधारस्तम्भः भवति । अस्य आश्रमस्य वैशिष्ट्यम् एवं निरूपितम्,

गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।
चतुर्णामाश्रमाणां तु गृहस्थश्च विशिष्यते ॥[८६]

गृहस्थाः सन्ध्यादि षट् कर्माणि करणीयानि । तानि उक्तानि,

संध्यास्नानं जपो होमो देवतानां च पूजनम् ।
आतिथ्यं वैश्वदेवश्च षट् कर्माणि दिने दिने ॥

गृहस्थेभ्यः कानिचन कर्तव्यानि निर्दिष्टानि सन्ति । तानि भवन्ति,

अध्यापनं ब्रह्मयज्ञः, षितैयज्ञस्तु तर्पणम् ।
होमो दैवो बलिर्भौतोनृयज्ञोऽतिथिपूजनम्॥[८७]

  • वानप्रस्थः- देवऋणात्,ऋषिऋणात्, पितृऋणात् च मुक्तो भूत्वा , एवं क्रमशः यजनयाजनम्, अध्ययनम्, अध्यापनम्, पुत्रप्रजननानन्तरं पौत्रस्य जननं च दृष्ट्वा जटाधारीभूत्वा आवसथाग्निना सह काननं प्रति गन्तव्यम् । वन्यफलादिकं भुक्त्वा जीवितव्यम् । प्रतिनित्यं त्रिषवणम्(त्रिवारं स्नानम्), त्रिसन्ध्याजपम्, भूमौ शयितव्यम् । आत्मसिद्धि प्राप्तुं यतमानः भवेत् । श्रुतेः, उपनिषदानां च अध्ययनं निरन्तरतया भवेत् ।
  • सन्यासाश्रमः- वानप्रस्तस्य अस्य च भेदः तावान् नास्ति । वानप्रस्थाश्रमे जटाधारिः भवति । अस्मिन् तु मुण्डितः भवति । अस्मिन् आत्मसाधनार्थं सर्वदा यतमानाः भवेयुः । उक्तञ्च,

वनेषु च विहृत्यैवं तृतीयं भागमायुषः ।
चतुर्थमायुषो भागं त्यक्त्वा सङ्गान् परिव्रजेत् ॥
सन्यासाश्रमधर्माः केचन पठिताः सन्ति । ते यथा,
न कुट्यां नोदरे सङ्गो न चैले न त्रिपुष्करे ।
नागारे नासने नान्ने यस्य वै मोक्षवित्तु सः ॥[८८]
अरण्यनित्यस्य जितेन्द्रियस्य सर्वेन्द्रियप्रीतिनिवर्तकस्य ।
आध्यात्म चिन्तागमानसस्य ध्रुवाह्यसौवृत्तिरुपेक्षकस्य ॥[८८]

  • संस्काराः- संस्काराः सामान्यतया द्विधा विभक्ताः । जननपूर्वाः जननानन्तराणि च । संस्काराः षोडष उक्ताः सन्ति । तानि मनस्मृतौ उक्तानि सन्ति । यथा,गर्भादानम्, पुंसवनम्, सीमन्तोनयनम्, जातकर्म, नामकरणम्, निष्क्रमणम्, अन्नप्राशनम्, चूडाकरणम्, कर्णवेध, विद्यारम्भः, उपनयनम्, वेदारम्भः, केशान्तः, समावर्तनम्, विवाहः, अन्तेष्टिः च ।
संस्काराणाम् उद्देश्यं निरूपितं मनुस्मृतौ । तद्यथा,

वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥
गार्बैर्होमैर्जातकर्म चौडमौञ्जीनिबन्धनैः ।
बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ॥
स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः ।
महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः॥

व्यवहारःसम्पाद्यताम्

स्मृत्युक्तेषु धर्मेषु व्यवहारभागः (आचारकाण्डेषु) प्रमुखः अस्ति । लौकिकालौकिकव्यवहाराः सुवर्णिताः सन्ति । राजधर्मस्य कथनं नाम व्यवहारधर्मः इत्यर्थः । मनुस्मृतौ सप्तमे एवं अष्टमे अध्याये राजधर्मः निरूपितः अस्ति । याज्ञवल्क्यस्मृतौ अपि व्यवहारधर्मः निरूपितः अस्ति । अस्मिन् व्यवहारकाण्डे प्रथमश्लोकः एवं विद्यते,
व्यवहारान् नृपः पश्येत् विद्वद्भिः ब्राह्मणैः सह ।'
धर्मशास्त्रानुसारेण क्रोधलोभे विवर्जितः ।
स्मृत्यानुसारं नृपः न्यायदानं कुर्यात् । अतः न्यायनिर्णयार्थं वेदधर्मशास्त्रपारङ्गतानाम्, सत्यवादिनाम्, निष्पक्षपातिनाम्, विद्वज्जनानां च समूहः भवतिस्म । समूहे विद्यमानानां सख्यायाः विषये स्मृतिग्रन्थेषु ऐक्यमत्यं नास्ति । समूहे नृपाः, गौरवस्थकुटुम्बिनः, वृद्धवणिक्, धनिकाः च भवेयुः । नृपस्य अनुपस्थाने कश्चित् न्यायाधीशः नृपेणैव निर्दिष्टाः भवति । एवं ग्रामेषु मण्डलादिषु च निर्दिष्टाः भवन्ति । न्यायालयादिषु गणक, लेखकः, साध्यपालि इति च त्रयः अधिकार्यः आसन् । समस्यायाः निर्णयदाने प्रतिज्ञा, उत्तरम्, संशयहेतुपरामर्शः, निर्णयप्रमाणञ्च परीक्ष्य निर्णयः देयः भवतिस्म । प्रमाणं द्विविधं, मानुषम्, दैविकञ्चेति । मानुषप्रमाणस्य अभावे दैविकप्रमाणं स्वीकुर्वन्तिस्म ।
व्यवहारः अष्टादशेषु विभागेषु विभक्ताः । ऋणम्, दानम्, निक्षेपः, अस्वामिविक्रयः, सम्भूयसमुत्थानम्, दत्तानपाकर्म, वेतनादानम्, संविद्व्यतिक्रमः, क्रयविक्रयः, स्वामिपालविवादः, सीमाविवादः, दण्डपारुष्य, वाक्पारुष्य, स्तेय, साहसम्, स्त्रीसङ्ग्रहणम्, स्त्रीपुंधर्मः, विभागः, द्यूतसमाह्वयः इति व्यवहारस्य विभागः ।

प्रायश्चित्तम्सम्पाद्यताम्

प्रायश्चित्तं नाम पश्चात्तापप्राप्तं मनः इति । अस्य वर्णनं मनुस्मृतौ एवं निरूपितम्,
प्रायो नाम तप-प्रोक्तं चित्तं निश्चय उच्यते ।
तपो निश्चयसंयुक्तं प्रायश्चित्तमितिस्मृतम् ॥
आत्मशुद्ध्यर्थम् उक्तानि सन्ति प्रायश्चित्तानि । अतः मनस्मृतौ,याज्ञवल्क्यस्मृतौ , गतमस्य, बोधायनस्य, आपस्तम्भस्य, वसिष्ठधर्मसूत्रादिषुच प्रायश्चित्तस्य विषये निरूपितम् अस्ति । प्रायश्चित्तेषु दैहिकप्रायश्चित्तानि विहाय जपतपादयः, कृच्छ्रः, अतिकृच्छाः, पराकः, चान्द्रायणादीनि प्रायश्चित्तानि निरूपितानि । प्रायश्चित्तस्य विषये भवदेवभट्टस्य प्रायश्चित्तप्रकरणम्, शूलपाणेः प्रायश्चित्तविवेकः च मुख्यौ ग्रन्थौ भवतः । रघुनन्दनस्य कृतिषु महापातकाः, उपपातकाः च वैज्ञानिकदृष्ट्या निरूपिताः । हनमम्, अभक्ष्यभक्षणम्, अगम्यगमनादिषु विषयेषु स्पष्टतया निरूपितवान् अस्ति ।


अधाराःसम्पाद्यताम्

  1. पराशरधर्मसंहिता-माधवीयवृत्ति १.१७
  2. तै. आर. १०-६३ , महानारायणोपनिषदि च
  3. यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्। जति शु.यजु.३१-१६. bp
  4. ३.क) इममञ्जस्पामुभये अकृण्वत धर्माणमग्निं विदथस्य साधनम् । ऋग्. १०-९२-२.
  5. ऋग्. १०-९२-२.
  6. ऋग्. १०-२१- ३.
  7. वाज. सं. २-३.
  8. वाज. सं. ५-२७
  9. शु. यजु. ३४-७.
  10. ऋग् . १-२२-१८.
  11. ऋग् . ५-२६-६.
  12. शु.यजु . ३१-१६. .
  13. अथर्व. ९-९-१७.
  14. ऐत. ब्रा. ७-१७.
  15. छान्दो. उप. २-२३.
  16. तैत्ति. उप. २-२३.
  17. मनुस्मृ. २-१.
  18. मनुस्मृ. ६-९२.
  19. याज्ञ. स्मृ. १-७.
  20. वसि. धर्म. १/४-६.
  21. आप. धर्म. १-१-१ ,२.
  22. बौधा . धर्म . १-१-१ , ३-४
  23. गौ. धर्म. १-१-१, २.
  24. हारीतः, मन्वर्थमु. (मनु.२-१)
  25. विश्वामित्रः , कृ. र. पृ -७.
  26. विष्णुः, कृ. र., पृ- १४.
  27. बृहस्पतिः, कृ. र. पृ - १४.
  28. देवलः , कृ. र., पृ. १४.
  29. शंखलिखितौ , कृ. र., पृ - ४१.
  30. यमः, कृ.र.,पृ- ४०.
  31. पूर्वमी., १-१-२.
  32. वैशे.सू. १-१-१,२. २८.
  33. यो. शा., ४-९६.
  34. महाभा.आर. ११८- ७८.
  35. महाभा. कर्ण. ४९-५०.
  36. महाभा. शान्ति. अ. ८६.
  37. गरु. पु. १/२०५/४.
  38. भाग. ६-१-४०.
  39. अमर.१-६-३.
  40. मेदिनी., १०९ -१६.
  41. हैमको . २-३७५."
  42. मत्स्यपु . १४४/३०
  43. परा.माध. १/६४.
  44. बौ. ध. सू. १/१/२-४.
  45. अनुशा. १४१/६५.
  46. चतु.चिन्ता.व्रत.१-४.
  47. १-१. ४५.
  48. मनुस्मृ. १०-६३.
  49. विष्णुस्मृ., २/१६, १७
  50. महाभारते
  51. (मनु . २/२५)
  52. मनु . २-२५.
  53. सत्सि. पृ -४६८.
  54. मनु., १-११८.
  55. महाभा. अनुशा., परा. माध. १/७४.
  56. देवीभा., १-१-१७.
  57. परा. माध., १/७५.
  58. भाग., ४-२२-३५
  59. मनुस्मृ., १२-८८.
  60. मनुस्मृ., १२-८८.
  61. मनुस्मृ. ८-१७.
  62. स्कन्दपु., चतु. चिन्ता. व्रत. १/१४.
  63. चतु. चिन्ता. व्रत कर
  64. मनु., ८-१५.
  65. महाभा. आदि. २-३९१.
  66. निरुक्त . ३/४-५.
  67. कौशीतक्युपनिषदि
  68. गौ. धर्म. २-२-१९
  69. महाभारते
  70. रामा. किष्कि. १८/३३-३४, मनु. ८/३१६,३१८ .
  71. महाभाष्ये - पा. सू. १-१-४६.
  72. ऋग्.२.१७.७.
  73. ऋग् . १०-१०९ सूक्ते।
  74. मनु. २-१०.
  75. याज्ञ. स्मृ. १-३.
  76. याज्ञ. स्मृ.१-७.
  77. अङ्गिरास्मृ उत्त. १-१०
  78. विष्णुपु.३//२८-२९
  79. मनुस्मृ. ८-१, महा. शान्ति. ३४२-९८.
  80. ऋक्. ४-५८-३, यजु. १७-९१..
  81. मनस्मृतिः, १, १०८
  82. वसिष्ठः ६, १
  83. पराशरः, १, ३७
  84. ऋग्वेदः, १.९०.१२
  85. मनुस्मृतिः, ३.१२
  86. वसिष्ठः, ८. १४
  87. मनुस्मृतिः, ३.७०
  88. ८८.० ८८.१ वसिष्ठः, १०-२३

बाह्यानुबन्धःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=धर्मशास्त्रम्&oldid=458470" इत्यस्माद् प्रतिप्राप्तम्