अस्य सस्यशास्त्रीयं नाम टेर्मिनालिआ टोमेण्टोसा इति । अयं वृक्षः आर्द्रारण्येषु सहजः भवति । कृष्णत्वकः, वनजवृक्षः इति अस्य अस्य नामन्तरम् । अन्यभाषासु अस्य वृक्षस्य नामानि यथा...

मकरचर्म इव वृक्षवल्कलः


कन्नडम् - मत्ति, ऐनि, बनपु, बेब्बुळुवे । ಮತ್ತಿ, ಐನಿ, ಬನಪು, ಬೆಬ್ಬುಳುವೆ ।
हिन्दी - ऐन, असन्, साज ।
तमिळु - अरुचनम्, पुदवम् । அருசனம், பதவம் ॥
तेलुगु - मड्डि, इनुमड्डि, । మడ్డి, ఇనుమడ్డి ।
मराठि - मदत, येन, सडद ।
मलयाळम् - करिमरतु, तेम्पुव । കരിമരതു, തെംപുവ ।

सस्यगुणलक्षणानि

सम्पादयतु

धाराफलवृक्षस्य औन्नत्यं ८०-१००पादपरिमितिपर्यन्तं वर्धते । अस्य कण्डस्य वर्णः कृष्णः । मकरस्य चर्म इव अस्य वल्कलं गूढछेदयुक्तं भवति । अस्य पत्राणि स्फीतानि अञ्चलेषु क्रकच इव दन्ताः भवन्ति । पत्रतलं चकासते । पेशलपत्रेषु लघुकेशाः इव दृश्यते । पत्रस्याधह् ग्रन्थिद्वयं भवति । मन्दपीतवर्णस्य लघुपुष्पाणि जडपीतकेसराः च भवन्ति । एप्रिल्-मेमासयोः अयं वृक्षाः कुसुमिताः भवन्ति । अस्य फलानां दीर्घता ४-५सें.मी विस्तारः २-३सें.मी. च भवतः । अस्य पीपमिश्रहरिद्वर्णस्य फले चर्मसदृशं पक्षद्वयं भवति । शुष्कपलं कृष्णवर्णेन भवति । प्रतेकं फले एकम् एव बीजं भवति । अस्य वृक्षस्य वंशप्रसारः बीजैः एव भवति ।

उपयोगाः

सम्पादयतु

धारफलवृक्षस्य वल्कलं क्षतशमनार्थं भग्नास्थीनि योजयितुम् उपयुज्यते । वल्कलस्य कषायं हृदयारोग्यरक्षकः भवति । पत्रैः उत्तमं दोहदं कुर्वन्ति । अस्य काष्टभस्म सर्पदशनोपशमनार्थं हितकारि भवति । अस्य वृक्षस्य दारु सुदृढं भवति अतः स्तम्भार्थं रेल्यानस्य शय्यासनर्थं च उपयोजयन्ति । त्वचः चर्मोद्यमेषु उपयुज्यन्ते । काष्टं तु उत्तमम् इन्धनम् अपि । अनेन अङ्गारान् अपि निर्मान्ति ।


"https://sa.wikipedia.org/w/index.php?title=धाराफलवृक्षः&oldid=326155" इत्यस्माद् प्रतिप्राप्तम्