नदी
नदी इति नैसर्गिको जलमार्गः भवति,[१] प्रायेणैतत् जलं मृदुजलं भवति। जलमेतत् महासागरं प्रति, कासारं प्रति, समुद्रं प्रति अथवा अन्यां काञ्चित् नदीं प्रति प्रवहद्भवति। केषुचिच्च प्रकरणेषु, नदी तु धरातलस्य अन्तरे गच्छति, अथवा अन्यं किञ्चित् जलाशयं अप्राप्यैव शुष्यति। लघ्व्यः नद्यः अन्यनामभिः अपि ज्ञायन्ते, यथा- धारा, क्रीक् (आङ्ग्ल्या), ब्रूक् (आङ्ग्ल्या), रिवुलेट् (आ.), रन् (आ.), सहायकनदी तथा च रिल् (आ.)। नदी इत्यस्य भौगोलिकपदस्य प्रयोगार्थं आधिकारिकपरिभाषा न विद्यते।[२] यद्यपि केषुचित् देशेषु समुदायेषु वा धारायाः आकारमनुसृत्य तेषां परिभाषाः भवन्ति। नद्यस्तु जलचक्रस्य भागभूताः। नद्याः जलं तु अपवाहक्षेत्रवर्तिना अवक्षेपणेन (प्रायेण वर्षा इत्याख्यम्) सङ्गृहीतं भवति।एतस्य संग्रहणं तु धरातलीयप्रवाहेन, भूजलारोपणेन, जलोत्स्रुतेन, नैसर्गिकहिमाद् हिमपुटेभ्यो वा भण्डारितजलस्य मोचनेन भवति (यथा हिमानीभ्यः)। नदीशास्त्रं तु आङ्ग्लभाषायां पोटॅमोलॉजी इत्युच्यते सर्वसामान्यानां धरामध्यवर्तिजलानाम् अध्ययनं तु आङ्ग्लभाषायां लिम्नोलॉजी इत्युच्यते।

उच्चतालेखःसम्पाद्यताम्
सन्दर्भाःसम्पाद्यताम्
- ↑ River {definition} from Merriam-Webster. Accessed February 2010.
- ↑ "GNIS FAQ". United States Geological Survey. Retrieved 26 January 2012.
अधिकम् अध्ययनम्सम्पाद्यताम्
- Jeffrey W. Jacobs. "Rivers, Major World". Water Encyclopaedia. http://www.waterencyclopedia.com/Re-St/Rivers-Major-World.html.
- Luna B. Leopold (1994). A View of the River. Harvard University Press. ISBN 0-674-93732-5. OCLC 28889034. ISBN. — a non-technical primer on the geomorphology and hydraulics of water.
बाह्यतन्तूनिसम्पाद्यताम्
- River Network - Connecting people, saving rivers (Environmental organization)