नरसिंहनाथमन्दिरम्
नरसिंहनाथमन्दिरं बरगढमण्डलस्य गन्धमार्दनपर्वतस्य पाददेशे स्थितं पौराणिकमन्दिरम् अस्ति [१] । एतत् १३ शताब्द्याः वैष्णवमन्दिरम् अस्ति यत्र भगवान् नरसिंहः मार्जाररुपेण पूज्यते ।
अस्य निर्माणं १३१३ शताब्द्यां पाटनागढस्य राजा बैजलसिंहदेवेन कृतम् । [२] अस्य ऊर्ध्वता केवलं ४५ पादपरिमितम् अस्ति, तस्य द्वौ भागौ स्तः । प्रथमे नरसिंहनाथस्य मूर्तिः पूज्यते, अपरस्मिन् भागे तु भगवान् जगमोहनं पूज्यते ।
पौरणिकम्
सम्पादयतुआख्यायिकानुसारम् अयं प्रदेशः कदाचित् एकेन शक्तिशालिराक्षसेन पीडितः आसीत् । यदा विष्णुः तं मारयितुम् निर्गतवान् तदा सः मूषकरूपं गृहीत्वा एकस्मिन् छिद्रे प्रविष्टवान् । विष्णुः सद्यः मार्जाररुपं गृहीत्वा तत्भक्षणार्थम् उपविष्टवान्। परन्तु मूषकराक्षसः छिद्रात् बहिः न आगतवान्। ततः परं भगवान् विष्णु: विशालकाययुक्तमूषकराक्षसस्य आतङ्कात् जनान् रक्षयितुम् आगत:, तस्मात् तत्र मूषकराक्षसस्य रक्षणं च करोति इति कथ्यते ।
पर्वाणि
सम्पादयतु- वैशाख मेला
आधार:
सम्पादयतु- ↑ "Nrusinghanath Temple – Nrusinghanath". ignca.gov.in. Ministry of Culture, Govt of India. आह्रियत 7 August 2019.
- ↑ "Nrusinghanath Temple". bargarh.nic.in. bargarh dist administration. आह्रियत 7 August 2019.