महाराजनलः निषधदेशाधिपतेः चन्द्रवंशीयवीरसेनस्यात्मजश्च नलपाकदर्पणग्रन्थस्य रचयिता।

विदिततरमेवेदं तत्र भवतां प्रेक्षावतां यत् किल पुरा भारते वर्षे न केवलमध्यात्मविद्याया एवानुशीलनं निदधानास्ते विश्वविश्रुतकीर्त्तय- स्तीर्थङ्करास्ततोऽन्यत्र स्वनयनं न विदधतिस्मेति । अध्यात्मविद्यैव ये खलुः लौकिकसूक्ष्म विषयास्तैः केवलेन प्रज्ञाबलेनैवानुशीलितास्तेष्वेवान्यतममिदः नलपाकदर्पणमिदानीमुपक्रम्यते। निबन्धोऽयं भारतेतिहासप्रसिद्धेन निषधदेशाधिपतिना नलेन प्रणीत इति ग्रन्थस्य नाम्ना सन्दर्भेण च विज्ञायते। स खलु महाराजो नलः कदा प्रादुरभूदिति निर्णये महाभारतमेव प्राधान्येन वरीवर्त्ति। परन्तु महाभारतमपि स कस्मिन् समये प्रादुरभूदिति न सम्यङ् निर्द्धारयति । एतावदेवास्ति तत्रः वनपर्वणि-

आसीद्राजा नलो नाम वीरसेनसुतो बली । उपपन्नो गुणैरिष्टैरूपवानश्वकोविदः॥

इति वनपर्वणि ५३ अध्याये परमपरोऽपि कश्चिदस्ति नलनामा नृपतिर्यः खलु सूर्यवंशे समजनि। यथा सूर्यवंशवर्णने —

अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः। नलस्तु नैषधस्तस्मान्नभस्तस्मादजायतेति॥

एतदेव द्रढयति मत्स्यपुराणं हरिवंशश्च। मात्स्ये यथा-

नलौ द्वावेव विख्यातौ वंशे कश्यपसम्भवे। वीरसेनसुतस्तद्वन्नैषधश्च नराधिपः॥

हरिवंशे च -

नलौ द्वावेव विख्यातौ पुराणे भरतर्षभ। वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वह इति ॥

परमेषोऽस्माकं समालोच्य विषयो नलपाकदर्पणप्रणेता नलस्तु न सूर्यवंशीयनिषधपुत्रः किन्तु निषधदेशाधिपतेः चन्द्रवंशीयवीरसेनस्यात्मजः। कविकुलचूडामणिना श्रीहर्षेणापि प्रतिपादितमेतत् स्वरचित नैषधचरितकाव्ये-

सुधांशुवंशस्य करीरमेव मां निशम्य किं नासि फलेग्रहि ग्रहा। इति ।

एष एव महाराजो नल दमयन्तीस्वयम्वरे समागतान् इन्द्रादिलोकपालचतुष्टयान् दौत्येन प्रसाद्याष्टौ वरानध्यगच्छदिति सुविदितमेव। यथा –

वृते तु नैषधे भैम्या लोकपाला महौजसः। प्रहृष्टमनसः सर्वे नलायाष्टौ वरान् ददुः। इति।

महाभारते नलोपाख्यानपर्वणि ५८ अध्याये। तेषामेवैकतमं सूदविद्यापारदर्शित्वं नाम वरं परेतभर्तुः ॥ यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम् । वन० ५७,३७३ लो०॥ सकाशादधिगतवान् महीश्वरो नल इत्यस्य ग्रन्थस्य प्रथमप्रकरणे महाभारते च दृश्यते। यथा नलपाकदर्पणे प्रथमप्रकरणे –

शृणु राजेन्द्र विद्याया निदानं मम तत्त्वतः। स्वयंवरार्थं वैदर्भ्याः समायाताः सुरेश्वराः ॥

ततोऽन्नरससिद्धिञ्च सूर्यपुत्रादलौकिकम्। महाभारते वनपर्वणि ६७ अध्याये -

तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः।

ऋतुपर्णस्य नगरं प्राविशद् दशमेऽहनि॥

स राजानमुपातिष्ठद्वाहुकोऽहमिति ब्रुवन्।

अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः॥

अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः॥

नैषधचरितेऽपि अमुष्य विद्यारसनाग्रनर्त्तकीत्यादि श्लोके रसनाग्रनर्त्तकीत्यनेन सूदविद्यैव लक्षितेति। अत एव पाकदर्पणप्रणेता नलश्चन्द्रवंशीयवीरसेननृपतेस्तनय इति सुस्पष्टमेव वक्तुं शक्यते। महाराजनलस्य जन्मसमयनिर्द्धारणन्तु दुःशकमेव । केचित्तु अवश्यम्भाविभावानां प्रतीकारो भवेदिति। प्रतिकुर्युर्न किं नूनं नलरामयुधिष्ठिरा इत्यत्र नलरामयुधिष्ठरा इति युगक्रमं निर्द्दिशन्तो नलस्य कृतयुगप्रादुर्भूतत्वं स्थापयन्ति प्रदर्शयन्ति चापरं निदर्शनं श्रीहर्षस्य सूक्तम्-

पदैश्चतुर्भिः सुकृते स्थिरीकृते कृतेऽमुना के न तपः प्रपेदिरे। इत्यादि।

परन्तु वयं विनिगमकाभावादस्मिन् विषये माध्यस्थ्यमेवावलम्बामहे। प्राधान्येनास्मिन् निबन्धे एकादशप्रकरणानि वर्त्तन्ते। तेषु च यथायथं नानाविधाः पाकसाधनोपायाः पाकभेदाश्च प्रदर्शिताः। आयुर्वेदीयमतानुसारेण ऋतुभेदेन च पाकभेदान् प्रदर्श्य परमरमणीयत्वमुपादेयत्वञ्च निबन्धस्यास्य सम्पादितं निबन्धकारेण प्रथमस्तावदोदनभेदः। द्वितीयः सूपभेदस्ततश्च क्रमेण सर्पिर्भेदः। व्यञ्जनभेदः। मांसपाकभेदः। भक्ष्यभेदः। पायसभेदः। रसायनभेदः। पानभेदः। यूषभेदः। घृताद्यन्नभेदः। लेह्यभेदः। क्षीरभेदः। तक्रभेदश्चान्ये चावान्तरभेदाः समीचीनरीत्या प्रदर्शिताः।

पुस्तकस्यास्य परमोपादेयत्वेऽपि एतस्य मुद्रणाय वाराणसेयचौखम्बासंस्कृतसीरिजसम्पादकेन सुप्रसिद्धबाबुहरिदासतनुजनुषा श्रीमता हरेकृष्णगुप्तेन बहुशोऽनुरुद्धोऽपि च विशुद्धादर्शपुस्तकाभावात् कालमेतावन्तं शिथिलप्रयत्न एवासम्। अनन्तरञ्च वाराणस्थराजकीयसंस्कृतपाठशालीयपुस्तकालयाध्यक्षेण पण्डितवरेण श्रीमद्विन्ध्येश्वरप्रसादद्विवेदिमहाशयेन पुस्तकदानादिना मुद्रणाय परमनुगृहः कृतः।

"https://sa.wikipedia.org/w/index.php?title=नलमहाराजः&oldid=478248" इत्यस्माद् प्रतिप्राप्तम्