भारतीयाः उत्सवप्रियाः । वत्सरे प्रतिदिनं यः कोऽपि उत्सवः यत्र क्व अपि प्रचलत्येव । तेषु नवरात्रोत्सवः अन्यतमः । नवानां रात्रीणां समूहः नवरात्रं कथ्यते ।नवरात्रं भगवत्याः पूजनाय भवति । जनैः नवरात्र-व्रतम् अपि क्रियते ।जनाः नवदिनानि पर्यन्तम् अन्नं विना भवन्ति ।भारतवर्षे विविधरूपेण अयं महोत्सवः अत्युत्साहेन आयोज्यते ।

नवरात्रोत्सवः
{{{holiday_name}}}
वर्गः Hindu festival
आरम्भः Ashvin Shukla Prathama
अन्त्यम् Ashvin Shukla Navami
दिनाङ्कः Usually September–November. The date changes as per lunar calendar.
आचरणानि 9–10 days

चैत्र-आश्विनमासयोः च शुक्लपक्षे प्रतिपदायाः नवमीं पर्यन्तं नवरात्रम् इति महापर्वम् आयोज्यते ।

इतिहासः

सम्पादयतु

महिषासुरः नाम राक्षसः प्रजापीडकः आसीत् । तस्य पीडाम् अशमानाः देवाः मनुष्याश्च ब्रह्मविष्णुमहेश्वरान् प्रार्थितवन्तः । त्रिमूर्तीनाम् इतरेषां च देवानाम् अंशैः सम्मिलितैः भगवती दुर्गादेवी आविर्भूता । सा देवीं सिंहारुढा भूत्वा महिषासुरेण सह युद्धम् अकरोत् । नवदिनपर्यन्तं युद्धं प्राचलत । दशमे दिने देवी महीषासुरसंहारं कृतवती । एतस्याः घटनायाः स्मरणार्थं नवरात्रोत्सवम् आचरन्ति । विजयदशम्याः संयोजनेन अयं दशदिनोत्सवः सम्पद्यते ।

मैसूरुनगरे नवरात्रोत्सवः

सम्पादयतु

अयमेव दशहरामहोत्सवः इति मैसूरुनगरे महता वैभवेन अनुष्ठीयते । अयमुत्सवः जनोऽत्साहं नितरां प्रवर्धयति । निखिलं नगरं विद्युद्दीपेन अलङ्कृतम्‌ । महिषमण्डलं, महिषपुरं, महिषकं , महिष्वाद्रिः, महिषनाडु, मैसूनाडु, मैसूरुनाडु, महिसूरु इत्येताभिः संज्ञाभिः कालगर्भे तदा तदा प्रख्यातं नगरं सम्प्रति 'मैसूरु’ इत्येतया संज्ञया प्रथिता । पूर्वं कर्णाटकराज्यं मैसूरुनाम्ना व्यवह्रियते स्म । सम्प्रति कर्णाटकराज्यस्य 'सांस्कृतिकराजधानी’ इति प्रथां लभते । प्रवासोद्यमदृष्ट्या अनुपमः मैसूरुप्रान्तः । किं तु यावत्‌ अभिवृद्धिः कर्तुं साध्या तावत्‌ न प्रजाप्रतिनिधिभिः न संसाधिता । मैसूरुनगरं स्वतः सुन्दरम्‌ । तत्र मैसूरुराजाः कारणम्‌ । दसरावसरे इदं नगरम् अन्यादृशमिव शोभते। जनाः मैसूरुमुखाः सन्दृश्यन्ते । सचिवाः अधिकारिणश्च इममुत्सवं यशस्विनं कर्तुं यतन्ते । विजयनगरसाम्राज्येन उपक्रान्तः महानवमी-उत्सवः अत्र एतावदनुवर्तते । रात्रिनवकम् अभिव्याप्य अनुष्ठियम् इदं व्रतं महानवमी इति उच्यते । दशम्याम् उपसंहारं गच्छति । सैव दशमी विजयदशमी । एतदवसरे राजसौधस्य अन्तः बहिश्च धार्मिकसांस्कृतिक- कार्यक्रमः अनवरतं प्रचलति । तत्र अन्तः यथापूर्वं पराम्पराप्राप्तं धर्मकृत्यं श्रीमद्भिः श्रीकण्ठदत्तनरसिंहराज-ओडेयर्‌-वर्यै: निरुह्यते ।बहिः कर्णाटकसर्वकारेण सांस्कृतिककार्यक्रमेण सह कृषि-उद्यम-वाणिज्यादिसम्बद्धाः कार्यक्रमाः व्यवस्थापिताः भवन्ति । उत्सवः चैतन्यदायकः उत्साहवर्धकश्च । नैसर्गिकविपत्तौ, आर्थिकसङ्करे, सामाजिकसंक्षोभे अपि अयम् उत्सवः मनस्स्थैर्यं स्थापयति । । सम्प्रति दशहरामहोत्सवः वैभवशृङ्गम् अधिरोहति । अत्र नवदुर्गाः आराध्यन्ते। जगन्मूलं मूलप्रकृतिः परिणमते तदा वैषम्यं अनिवार्यम्‌ ।एतदर्थं गुणत्रयं नवरात्रोत्सवे महादेवी, महालक्ष्मी, महासरस्वती रूपेण समाराध्यते। किन्तु न बाह्यार्चनमात्रेण अयं लाभः अवाप्यते । तेन सः अन्तरङ्गे सदिच्छासत्क्रियासम्यग्‌ज्ञानं च सङ्कलनीयम् । तदैव एषा आराधना भवति । तत्र दशहरावसरे चित्रकला, शिल्पकला, सङ्गीतं, नृत्यं, क्रीडा, चलच्चित्रं, जानपदीयाकला, साहित्यं, कविः, आहारः इत्येते विषया: आराधनामनोभावेन निर्वहणीया: । नवरात्रमहोत्सवः दशदिनं यावत् प्रचलति । उत्सवोऽयं 'दसरा" इति 'डशहरा’ इति च प्रादेशिकभाषासु उच्य्ते । भारतस्य सर्वेषु प्रदेशेषु एतम् उत्सवम् आचरन्ति । आश्वयुजमासस्य प्रथमदिनादारभ्य दशमीपर्यन्तम् अयम् उत्सवः भवति । तेषु दिनेषु देवीपूजायाः प्राशस्त्यम् अस्ति ।

विजयनगरराजा नवरात्रमहोत्सवं वैभवेन आचरन्ति स्म । उत्सवाचरणार्थं महानवमीवेदिकां ते निर्मितवन्तः । तस्याः वेदिकायाः अवशेषः पम्पाक्षेत्रे इदानीम् अपि दृश्यते । विदेशप्रवासिनः एतत् वैभवपूर्णम् उत्सवाचरणं सविस्तरम् अवर्णयन् ।

मैसूरुनगरस्य राजसु नवमः 'राजवडेयर' इति ख्यातनामधेयः राजा दशाधिकषोडशशत (१६१०)तमे क्रिस्ताब्दे नवरात्रमहोत्सवं प्रारभत । श्रीरङ्गपत्तनम् उत्सवस्य स्थानम् आसीत् । नवनवत्यधिकसप्तदशशत (१७९९) तमे वर्षे मुम्मडिकृष्णराजवडेयरमहोदयः मैसूरुनगरे नवरात्रोत्सवम् आचरितुम् आरब्धवान् । एषः उत्सवः इदानीमपि प्रतिवर्षे प्रचलति । विजयदशम्यां गजारोहोत्सवं द्रष्टुं देशविदेशतः सहस्त्रशः जनाः समायान्ति । कर्नाटकराज्ये नवरात्रोत्सवं 'जनपदपर्व' इत्याचरन्ति । तदा सांस्कृतिककार्यक्रमान् विशेषतः आयोजयन्ति । कर्नाटकसर्वकारः दशहराक्रीडोत्सवं, सङ्गीतगोष्ठीं, वस्तुप्रदर्शनं, शोभायात्रादिकं च प्रकल्पयति ।

नवरात्रिसमये विशेषपूजाः प्रचलन्ति । सप्तम्यां सरस्वत्याः पूजा । तदा पुस्तकानि, सङ्गीतवध्यानि च पूजयन्ति । अनन्तरदिनं दुर्गाष्टमी । महानवम्याम् आयुधपूजा । तस्मिन् दिने डुरिका, कर्तरी, सीवनयन्त्रं, विविधवाहनानि , यन्त्रोपकरणानि इत्यादीनि आर्चयन्ति ।

अन्येषु राज्येषु

सम्पादयतु

बङ्गालराज्ये नवरात्रिदिनेषु आचर्यमाणा दुर्गापूजा प्रसिद्धा । राजस्थानराज्ये महालक्ष्मी पूजयन्ति । तत्र जनाः महालक्ष्मीदेवालयं गत्वा पूजाम् अर्पयन्ति । एषा 'जैत्रयात्रा’ इति ख्याता । महाराष्ट्रराज्ये अलङ्कृतानां गजानां शोभायात्रा प्रचलति । बहुषु राज्येषु शमीपूजा, शमीपत्रवितरणं च प्रवर्तते ।

उत्तरभारते नवरात्रदिनेषु 'रामलीला’ इति प्रसिद्धम् उत्सवम् आचरन्ति । देहलीनगरे एतम् उत्सवं वैभवेन समाचरन्ति । देहलीनगरस्य सर्वेषु विभागेषु विंशतिदिनेभ्यः पूर्वमेव रामायणस्य नृत्यरुपकदर्शनानि आरभ्यन्ते । एतानि रात्रादारभ्य प्रभातपर्यन्तं प्रचलन्ति । प्रदर्शनार्थं रामलीलाप्राङ्गणं देहलीनगरे प्रधानं स्थलम् ।

रामलीलाप्राङ्गणे नवम्यामेव दशकण्ठस्य रावणस्य, कुम्भकर्णस्य , मेघनदस्य च अत्युन्न्तानां प्रतिमानां निर्माणं कुर्वन्तै । प्रतिमानिर्माणं जीर्णपर्त्रैः, वेणुभिः, कन्थाभिश्च बवति । प्रतिमासु अन्तः सहस्त्राधिकरूप्यकाणां स्फोटकानि निवेशयन्ति ।

दशमे दिने रामायणनृत्यरुपकं समाप्तं भवति, रावणस्य वधः अपि । राम-लक्ष्मणाञ्जनेयपात्रधारिणां रथेन शोभायात्रा भवति । ते प्राङ्गणम् आगच्छन्ति । अनन्तरं रामपात्रधारी अग्निमयं बाणं प्रमुच्य प्रत्तिमा ज्वालयति । अनुक्षणमेव महान् प्रकाशः स्फूरति । तदैव स्फोटकानां भयानकः शब्दः श्रूयते । रावणादीनां वधसूचनार्थमिदं प्रतिमादहनम् ।कर्नाटकराज्ये, तमिळनाडुराज्ये च पुत्तलिकापङिक्तम् अलङ्कृत्य स्थापयन्ति । एतत् अतीव रम्यं दृश्यम् ।

महत्तवम्

सम्पादयतु

नवतिथीषु दुर्गामातुः नवरूपाणि पूज्यन्ते ।

१)शैलपुत्री

२)ब्रह्मचारिणी

३)चन्द्रघण्टा

४)कूष्माण्डा

५)स्कन्दमाता

६)कात्यायनी

७)कालरात्रिः

८)महागौरी

९)सिद्धिदात्री


एताः नवदुर्गाः नवरात्रे पूज्यन्ते । प्रतिपदायां विशेषमुहुर्ते कलशः स्थाप्यते ।कलशे भगवत्याः वासः इति मत्वा पूजनं क्रियते ।भगवती जगदम्बा दुर्गामाता अस्मिन् जगति मातृ-शक्ति-विद्या-बुद्धिप्रभृतिरूपैः व्याप्ता भूत्वा अस्मान् सर्वविधया समृद्धशालिनः करोति ।अतः अस्माभिः अपि नवरात्रे विधिपूर्वकं व्रतम् आचर्य भगवत्याः सेवा पूजाराधनादि-माध्यमेन क्रियते ।

सामूहिकरूपेण बहवः जनाः दुर्गामातुः मूर्तिस्थापनं कुर्वन्ति । नव दिनानि पर्यन्तं सततं श्रद्धया भक्त्या च पूजयन्ति । दशम्यां तिथौ मूर्तिविसर्जनं कृत्वा पुनः नवरात्रे आगन्तुं प्रार्थयन्ते ।

आदिशक्तेः त्रिणी रुपाणि सन्ति ।महाकाली, महालक्ष्मीः, महासरस्वती चेति । अस्मिन् उत्सवे आदौ दिनत्रये महकाल्याः पूजा, मध्ये दिनत्रये महालक्ष्म्याः पूजा अन्ते दिनत्रये महासरस्वत्याः पूजा प्रचलति । दशम्यां च विजययात्रा भवति । विजयदशम्याः अपरं नाम विद्यादशमीति । विद्यारम्भाय विद्यादशमी प्रशस्तं दिनम् इति मन्येन्ते । नवरात्रमहोत्सवः दुष्टशक्तिनाशस्य द्योतकः । जातिमतभेदं विना सर्वेऽपि जनाः एतस्मिन् उत्सवे भागं वहन्ति, सन्तोषं च अनुभवन्ति ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=नवरात्रोत्सवः&oldid=480493" इत्यस्माद् प्रतिप्राप्तम्