नृयज्ञः
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
अतिथिसत्कारो हि मनुष्ययज्ञः, नृयज्ञो, अतिथियज्ञश्चेति कथ्यते । वैदिकग्रन्थेषु 'अतिथिः साक्षादग्निरेव इति वर्णितोऽस्ति । ब्रह्मचर्याश्रमस्य समावर्तनाख्ये संस्कारे अन्तेवासिनं स्नातकं गुरुरुपदिशति अतिथिदेवो भव इति । तमुपदेशमात्मसात्कृत्वा ब्रह्मचारी गृहस्थाश्रमे नृयज्ञमिमं श्रद्धया निर्वर्तयति ।
- अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति ।
- नान्यस्तस्मात् परो धर्म इति प्राहुर्मनीषिणः ॥
इति । अतिथिसत्कारेण मानवस्य सर्वाशाः प्रतीक्षाः धान्य-पशु-बहुपुत्रलाभा दीर्घमायुश्चेति अनेके सुखराशयः समृद्धा भवन्ति । अतः सर्वकाल सर्वावस्थासु अतिथिरनुपेक्षणीयः । अन्यथा-
- आशाप्रतीक्षे सङ्गत्तं सूनृतां
- चेष्टापूर्ते पुत्रपशूंश्च सर्वान्
- एतत् वृड्न्क्ते पुरुषास्याल्पमेधसो
- यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ इति ॥ कठोपनिषत्-८ कठोपनिषदः वचनानुसारं सर्वनाशों समुत्पद्यते इति सुस्पष्टम् ।
उक्तं च महाभारते-
- अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्तते ।
- स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥
इति । पुण्यार्जनदृष्ट्या , पापापनोदनदृष्ट्या च अतिथियज्ञोऽयं कल्पितः । तदनुष्ठानेन उदारता, कृतज्ञता, निर्लोभः, समता त्यागप्रभृतयो गुणाः स्वयं विकसिता भवन्ति ।
एवं-
- देवानृषीन्मनुष्यांश्च पितृन्गृहयाश्च देवताः ।
- पूजयित्वा ततः पश्चाद् गृहस्थः शेषभुग्भवेत् ॥
इति मनुवचनाच्च नित्यं गृहस्थः पञ्चमहायज्ञान् अनुतिष्ठेत् । तदनुष्ठानेनैव गृहस्थः ऋणत्रयान्मुक्ति त्रिवर्ग सिद्धि च प्राप्य परमपुरुषार्थाय मोक्षाय अधिकारी भविष्यतीति ज्ञातव्यम् ।