नेपालदेशः १४ अञ्चलेषु वर्गीकृतः वर्तते तानि अञ्चलान्यपि ७५ मण्डलेषु विभक्तानि सन्ति ।१४ प्रशासकीयानि तानि अञ्चलानि ५ समुदायेषु च विभक्तानि सन्ति तान्येव पञ्च विकाशक्षेत्राणि इत्युच्यन्ते ।तत्र च चतुर्षु विकाशक्षेत्रेषु त्रीणि-त्रीणि अञ्चलानि सन्ति किन्तु एकस्मिन् विकाशक्षेत्रे केवलं द्वे एव अञ्चले स्तः ।
विकाशक्षेत्राणां निर्माणावस्थायां सर्वेषु विकाशक्षेत्रेषु हिमाल (हिमालय पर्वतमाला) पहाड (मध्यम पर्वतीयक्षेत्रम्) एवं तराई (सामान्य क्षेत्रम्) इत्येतेषां भूभागाः तत्र सम्मिलिताः भवन्ति ।