Panje Mangesh Rao
जननम् Bantwal
वृत्तिः Headmaster, Author
राष्ट्रीयता India
कालः 1874 - 1937
प्रकारः Folklore, Poetry, Translation
साहित्यकान्दोलनम् Navodaya


बाल्यम् सम्पादयतु

कन्नडनवोदयस्य काव्यस्य प्रवर्तकः पञ्जेमङ्गेशरायः(Panchamangesharaya) १८७४ तमे वर्षे फेब्रवरिमासस्य २२तमे दिनाङे पुत्तूरु-उपमण्डलस्य बण्ट्वाऴ ग्रामे जन्म प्राप्तवान् । एतस्य पूर्वजाः दक्षिणकन्नडमण्डलस्य पञ्जग्रामवासिनः । अतः एषः कविः पञ्जे वंशस्थः । पिता रामप्पय्यः, माता शान्तादुर्गे – अनयोः पुत्रः मङ्गेशरावः पञ्जेमङेशरावः इत्येव प्रसिद्धः जातः ।

वृत्तिः सम्पादयतु

लघु वयसि पितृवियोगात् बाधितः मङ्गेशरावः स्वसामार्थ्येन विद्याभ्यासं कृत्वा बि. ए. पदवीं प्राप्तवान् । अनन्तरं यल् डि परीक्षायां उत्तीणः सन् मङ्गलूरुसर्वकारीयमहाविद्यालये शिक्षकः अभवत् । निवृत्तिपर्यन्तं शिक्षणक्षेत्रे सेवाम् अकरोत् सः । ६४ तमे वयसि १९३७ तमे वर्षे अक्टोबर्-मासस्य २४ तमे दिनाङ्के दिवङ्गतः ।

साहित्यकृषिः सम्पादयतु

बालसाहित्यरचने निपुणः कविः पञ्जेमङ्गेशरायः बालानां कृते सुन्दराणि कवनानि रचयति स्म । बालानां कृते लघु कथारचनम् अपि तस्य प्रियं कार्यम् आसीत् । कन्नडसाहित्यसम्मेलनद्वारा कवेः पञ्जेमङ्गेशवर्यस्य परिचयः कन्नडजनैः प्राप्तः । १९३४ तमे वर्षे रायचूर्-नगरे प्रचलितस्य २० तमस्य कन्नडसाहित्यसम्मेलनस्य अध्यक्षपीठम् अलङ्कृतवान् मङेशरावः कन्नडनवोदयकाव्यस्य प्रवर्तकः इत्येव ख्यातः जातः ।

बालसाहित्यरचनम् सम्पादयतु

कविना बालानां कृते लिखितं कवितासङकलनं पाठ्यपुस्तकरूपेण १९१२ तमे वर्षे स्वीकृतम् । एतस्य द्वितीयः भागः १९१९ तमे वर्षे प्रकाशितः जातः । एतस्य संशोधनस्य लेखानां सङ्कलनं "पञ्चकज्जाय”नाम्ना प्रकाशितम् अभवत् १९२७ तमे वर्षे । कविना लिखिताः अन्यकविताः "हुत्तरि हाडु”,“तेङकण गालियाट",“गर हावे हावोलु हूवे” कर्णाटकराज्ये सर्वत्र सुप्रसिद्धः अभवत् । अनेन लिखिताः केचन प्रमुखग्रन्थाः 'ओड्डन ओटा', 'कोक्कोकोकोलि', 'कोटिचेन्नय्य', 'हेनु सत्ताग कागे बडवायितु', 'इलिगल थक थै', 'अज्जि साकिद मगु' इत्यदि । मङेशरावः१९२१तमे वर्षे मङलूरुनगरे बाल साहित्य मण्डलि इत्येतां संस्थां स्थापयित्वा बालानां कृते उपयुक्तानि साहित्यानि दत्त्वा सर्वेषां प्रशंसार्हः जातः ।

"https://sa.wikipedia.org/w/index.php?title=पञ्जे_मङ्गेश_राय&oldid=358983" इत्यस्माद् प्रतिप्राप्तम्