पनसवृक्षः

(पनसः इत्यस्मात् पुनर्निर्दिष्टम्)

Subscript text

पनसवृक्षः

परिचयः सम्पादयतु

पनसवृक्षः नित्यहरिद्वर्णकननस्य कश्चित् महावृक्षविशेशः । अयं वृक्षः एशियाखण्डस्य आग्नेयपूर्वदिशायाम् अधिकं प्ररोहति । पनसवृक्षाः भरतस्य वेलाभूप्रदेशेषु अपि अधिकतया दृश्यते । आवर्षम् अस्मिन् हरिद्वर्णपत्राणि शोभन्ते । पर्णानि १०-२०सें.मी. दीर्घाणि भवन्ति । विश्वे वृक्षेषु सम्भव्यमनफलेषु पनसफलमेव बृहत्तममं भवति । फलानां चर्मणि लघूनि कण्टकानि भवन्ति ।

 
पनसवृक्षस्य काण्डः

सस्यशास्त्रीयं वर्गीकरणम् सम्पादयतु

मोरसिये कुटुम्बसम्बद्धस्य अस्य वृक्षस्य सस्यशास्त्रीयं नाम अर्टोकार्पस् इण्टेग्रिफोलिय (Artocarpus heterophyllus) इति ।

विशेषाः सम्पादयतु

अस्य फलानि बृहदाकारे भवन्ति । ५कि.ग्रा. तः ४०कि.ग्रा. पर्यन्तं पनसफलस्य परिमाणः भवति । कर्तितात् फलान् कश्चन श्वेतनिर्यासः स्रवति । फलस्य बहिर्भागे कण्टकानि भवन्ति । अन्तः अनेकानि फलखण्डानि भवन्ति येषु बीजानि निहितानि । वृक्षस्य जातौ द्विधा भवति । एका जातिः शुष्कफलखण्डयुक्ता अपरा सरसफलखण्डयुक्ता इति ।

प्रयोजनानि सम्पादयतु

पनसवृक्षः पञ्जाग्निवृक्षेषु अन्यतमः । पनसफलेन अनेकानि खाद्यानि निर्मीयन्ते । फलखण्डानि संस्कृत्य संस्कृत्य निर्यातमपि कुर्वन्ति । अस्य सुदृढं दारु पीतवर्णस्य पीठोपकरणनिर्माणार्थम् योग्यं भवति ।

"https://sa.wikipedia.org/w/index.php?title=पनसवृक्षः&oldid=390258" इत्यस्माद् प्रतिप्राप्तम्