अयं पलाशवृक्षः भारतस्य कश्चन वृक्षविशेषः । अयं वृक्षः भारतस्य अत्यधिकेषु प्रदेशेषु वर्धते । अयं पलाशवृक्षः १२ – १५ मीटर् यावत् उन्नतः भवति । अस्य त्वक् धूसरवर्णीयं, रूक्षं चापि । अस्य पर्णानि रक्तवर्णीयानि, १५ से.मीयावत् दीर्घाणि च भवन्ति । अस्य फलानाम् अन्तः एकं बीजं भवति । अस्मिन् बाल्सिनिन्, किनोट्योनिक् आसिड् इत्यादयः अंशाः भवन्ति । अस्य वृक्षस्य त्वक्, पुष्पं, फलं, पर्णं, मूलं चापि औषधत्वेन उपयुज्यन्ते ।

पलाशः
बेङ्गळूरुनगरे, भारतम्
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Fabales
कुलम् Fabaceae
वंशः Butea
जातिः B. monosperma
द्विपदनाम
Butea monosperma
(Lam.) Taub.
पर्यायपदानि

Butea frondosa Roxb. ex Willd.
Erythrina monosperma Lam.<ref name=

केऱाला राज्ये वेळ्ळक्कात्तु मनायाम् पलाश वृक्षः, भारतम्
पलाश् पत्रम्

इतरभाषासु अस्य पलाशवृक्षस्य नामानिसंपादित करें

अयं पलाशवृक्षः आङ्ग्लभाषया Butea Monosperma, flame of the forest, parrot tree इति उच्यते । हिन्दीभाषया “पलाश्” इति, तेलुगुभाषया “पलाडुलु” इति, तमिळ्भाषया “मुरुक्कन् मारम्” इति, मलयाळभाषया “पैलाचम्” इति, कन्नडभाषया "मुत्तुग", “मुत्तुगद मर” इति च उच्यते ।

अपिच हिन्दीभाषायां अस्य पुष्पस्य नाम "किंशुक्","किंशुकपुष्प्" इत्युच्यते ।

आयुर्वेदस्य अनुसारम् अस्य पलाशवृक्षस्य प्रयोजनानिसंपादित करें

अस्य पलाशवृक्षस्य त्वक् लघु रूक्षं चापि । त्वचः रसः कटुः, तिक्तः च, विपाके मधुरः भवति । त्वक् उष्णवीर्ययुक्तम् । अस्य पुष्पस्य रसः तिक्तः, विपाके मधुरः भवति । पुष्पं स्निग्धगुणयुक्तं, शीतवीर्ययुक्तं चापि ।

१. अस्य पलाशवृक्षस्य पुष्पाणि दाहं (पिपासां), चर्मरोगं, नेत्ररोगं चापि निवारयन्ति ।
२. अस्य बीजानि उदरे कीटबाधायाम्, अतिसारे च उपयुज्यन्ते । अस्मिन् विद्यमानः “बास्लिनिन्” नामकः अंशः क्रिमिनाशकत्वेन कार्यं करोति ।
३. अस्य त्वक्, निर्यासः च मधुमेहं, रक्तपित्तं, मूलव्याधिं चापि परिहरतः ।
४. स्त्रीणां मासिकसमस्यासु, गर्भकोशस्य विकारेषु च अयं हितकरः ।
५. अस्य वृक्षस्य पञ्च अपि अङ्गानि औषधत्वेन उपयुज्यन्ते । अस्य पुष्पाणां चूर्णं ३ -६ ग्रां यावत् सेवनीयम् ।
६. अनेन निर्मितानि “पलाशक्षरघृतं”, “पलाशबीजादिचूर्णम्” इत्यादीनि औषधानि आयुर्वेदस्य आपणेषु उपलभ्यन्ते ।
"https://sa.wikipedia.org/w/index.php?title=पलाशवृक्षः&oldid=395829" इत्यस्माद् प्रतिप्राप्तम्