पळनीमहानगरे पर्वतप्रदेशे पळनियप्प इति प्रख्यातस्य श्री सुब्रह्मण्यस्य देवालयः अस्ति । एतस्य मुरुग इत्यपि अपरं नाम । पर्वतारोहणाय सोपानानि सन्ति । । सर्वत्र सुन्दरवाटिकाः दृश्यन्ते । प्रशान्तं वातावरणं मोदाय भवति । पर्वतप्रदेशं गन्तुं विञ्चयानस्य व्यवस्था अपि (रोप्वे -रज्जुमार्गः) अप्यस्ति । एतं पर्वतं शिवगिरि इति अपि कथयन्ति । पळनीयप्पस्य सन्निधौ भक्तानाम् अतीव आनन्दः भवति । रात्रौ नक्षत्रलोके एव स्मः इव जनानां भावना भवति । पळनीक्षेत्रम् आगन्तुं केरळराज्यस्य सर्वनगरेभ्यः अपि वाहनसम्पर्कसौलभ्यम् अस्ति ।

पळनी चित्र्
"https://sa.wikipedia.org/w/index.php?title=पळनी&oldid=370621" इत्यस्माद् प्रतिप्राप्तम्