पारसीकयवानी
इयं पारसीकयवानी अपि भारते वर्धमानः कश्चन धान्यविशेषः । इयम् अपि सस्यजन्यः आहारपदार्थः । इयं पारसीकयवानी आङ्लभाषायां Henbane इति उच्यते । ल्याटिन्-भाषायाम् इयं Hyoscyamusniger liny इति उच्यते । इयं पारसीकयवानी तृणकुले Solanacear कुले अन्तर्भवति । एषा पारसीकयवानी वर्णस्य अनुगुणं त्रिविधा भवति । रक्तवर्णीया पारसीकयवानी, श्वेतवर्णीया पारसीकयवानी, कृष्णवर्णीया पारसीकयवानी च इति ।
आयुर्वेदस्य अनुसारम् अस्य पारसीकयवान्याः स्वभावः
सम्पादयतुइयं पारसीकयवानी पचनार्थं जडा । एषा रुच्या, ग्राहिणी, मादिनी च ।
- “पारसीकयवानी तु यवानीसदृशीगुणः ।
- विशेषात्पाचनी रुच्या ग्रहिणी मादिनी गुरुः ॥“ (भावप्रकाशः)
- १. एषा पारसीकयवानी पश्चिमहिमालयस्य उष्णभूमौ वर्धते ।
- २. एतस्याः पारसीकयवान्याः बीजानि धूम्रवर्णीयानि, गन्धहीनानि, अल्पतिक्तानि च ।
- ३. रक्तवर्णस्य, श्वेतवर्णस्य च पारसीकयवानी उपयोगार्हा । कृष्णवर्णस्य उपयोगार्थम् अनर्हा ।
- ४. एषा पारसीकयवानी बहु रुच्या, ग्राहिणी, मादिनी च ।
- ५. एषा पारसीकयवानी निद्रां जनयति, वेदनां शमयति च ।
- ६. एषा पारसीकयवानी न मलस्तम्भिका ।
- ७. एषा पारसीकयवानी मानसिक-अस्वस्थतायाम् अपि उत्तमम् औषधम् ।
- ८. एषा पारसीकयवानी अल्पप्रमाणेन हृद्रोगस्य निवारिका ।
- ९. एतां पारसीकयवानीं पेषयित्वा लेप्यते चेत् स्तनशोथः, वृषणशोथः, सन्धिशोथः इत्यादयः निवारिताः भवन्ति ।
- १०. मूत्राशयस्य शोथे जाते पारसीकयवानीं, यवक्षारम्, अमृतलतां, शुण्ठीं च योजयित्वा दत्तं चेत् बहुशीघ्रं शोथः अपगच्छति ।
- ११. पारसीकयवानी अधिकप्रमाणेन उपयुज्यते चेत् प्रलापः, मूर्छा, मृत्युः वा जायेत ।